Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 404
________________ परिशिष्ट-२ 3८१ मिथः स्वसंज्ञा सिद्धा, यतो नैते शास्त्रे स्वशब्दोपादानमन्तरेण कार्येषु भिद्यन्त इति। तप्त॑ति-"तृपौच प्रीतो" श्वस्तन्यास्ताप्रत्यये गुणे च तत। अत्र पकार-तकारयोरेकः प्रयत्नः स्पृष्टता, न तु स्थानम्, पकारस्य ह्योष्ठा, तकारस्य तु दन्ताः, तयोः स्वत्वे "धुटो धुटि स्वे वा" (१.३.४८) इति पकारस्य तकारे लोपः स्यादिति। अरुश् श्योततीति-अर्तेः “रुद्यर्ति-जनि-तनि-धनि०" (उणा० ९९७) इत्युसि गुणे अरुस्, (ततः सकारस्य रुत्वे-अरुर्) “स्च्युत क्षरणे" तिवि शवि उपान्त्यगुणे “सस्य शषौ" (१.३.६१) इति सकारस्य (धातुसकारस्य) शत्वे रेफस्य तु “शषसे शषसं वा" (१.३.६) इति शत्वे 'अरुश् श्च्योतति' इति-अत्र शकारचकारयोरेकं स्थानं तालु, न प्रयत्नः, शकारस्येषद्विवृतत्वाञ्चकारस्य तु स्पृष्टत्वाद्, इति (आस्यप्रयत्नाग्रहणे तुल्यस्थानत्वेन स्वसंज्ञया) शकाराद् वा परस्य (परस्य) शकारस्य चकारे (परे वा) लोप: स्यादिति ।।१७ ।। ल.न्यास-तुल्येत्यादि-तोल्यतेऽनया भिदाद्यङि तुला, तुलया संमितस्तुल्य: “हद्य-पद्य०" (७.१.११) इत्यादिना यः। प्रयत्न उत्साहः। नासिकौष्ठौ चेति-व्यस्तावेतो, समासे तु “प्राणितूर्य०" (३.१.१३७) इति समाहारः स्यात्। कलयति ईषदास्यभावम्, अच्, अल्पाद्यर्थे कपि, णके वा (कलकः), कु ईषत् कलक: काकलकः “अल्पे" (३.२.१३६) इति कादेशः; काकलक इति संज्ञा यस्य स तथा, ग्रीवायामुन्नतप्रदेशः । आन्तर इति-अन्तरा भव: "भवे" (६.३.१२३) अण, अन्तर्जातो वा, भवे त्वर्थे दिगादित्वाद् यः स्यात्। स्पृश्यन्ते स्म स्पृष्टा वर्णाः, तेषां भावः स्पृष्टता-वर्णानां प्रवृत्तिनिमित्तम् ; स्पृष्टताहेतुत्वात् प्रयत्नोऽपि स्पृष्टता, “अभ्रादिभ्यः" (७.२.४६) इत्यप्रत्यये वा, संज्ञाशब्दत्वात् स्त्रीत्वम्। प्रयत्नानां संज्ञा इमा यथाकथञ्चिद् व्युत्पाद्यन्ते, एवं सर्वत्र । एवमीषत्स्पृष्टताऽपि। विव्रियन्ते स्म विवृता वर्णास्तेषां भावः । ईषद् विव्रियन्ते स्मेत्यादि । करणमिति-वर्णोत्पत्तिकाले स्थानानां प्रयत्नानां च सहकारि कारणम्। सर्वेति-सर्वं मुखं स्थानमस्य, मुखस्थितानि सर्वाण्यपि स्थानानि अवर्णस्येत्यर्थः । कण्ठ-तालव्याविति-कण्ठतालुनि भवौ, देहांशसमुदायादपि यः। स्वरेषु ए-ओ विवृततराविति-ननु विवृततरताऽतिविवृततरताऽतिविवृततमतारूपाणां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितम्, कथं चतुर्धेत्युक्तम् ? सत्यम्विवृततरतादीनपि विवृततया परिगृह्योक्तं चतुर्धा इति, विशेषस्य सामान्येऽन्तर्भावात्। अकारः संवृत इत्यन्ये इति-संवृतताऽऽख्यं पञ्चमं प्रयत्नमन्ये मन्यन्त इत्यर्थः । अकारं संवृतं शिक्षायामेके पठन्ति, तेनाकाराकारयोः संवृत-विवृतयोभिन्नप्रयत्नत्वात् स्वसंज्ञा न प्राप्नोतीति विवृत एवात्र प्रतिज्ञायते, प्रयोगे तु संवृत एवाऽसौ स्वरूपेणेत्यन्य इत्युक्तम्। सानुनासिकेति-नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्ण: स तथा। निर्गतोऽनुनासिकाद् यः स तथा। स्वरः संजातो येषां ते स्वरिताः। यथाकथञ्चिद् व्युत्पत्तिः। अनुनासिक इति-अनुनासिको धर्मोऽ. स्यास्तीति अभ्रादित्वाद् अः, तद्धर्मरहितोऽननुनासिक इति। रेफोष्मणां त्विाते-अन्यवर्णापेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव । एवमूष्मणामपि स्वा न भवन्तीति। ननु वर्णानां तुल्याऽऽस्यप्रयत्नत्वे कथं श्रुतिभेदः? उच्यते-कालपरिमाण-करण-प्राणकृतगुणभेदात् श्रुतिभेदः। तथाहि-यावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्धमात्राकालं व्यञ्जनम् ; तदिदं वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति। करणं च श्रुतिभेदकरं भवति, तत् प्रागेवोक्तम्। प्राणकृताश्च गुणभेदा घोषाघोषादय इति। निवृत्त्यर्थमिति-तेनारुश्च्योततीत्यत्र शकार-चकारयोस्तुल्यस्थान-बाह्यप्रयत्नत्वे सत्यपि “धुटो धुटि०" (१.३.४८) इति शकारस्य चकारे लोपो न भवति। ते ह्यासन इत्यत्रैवेति-"आसन्नः" (७.४.१२०) इत्यत्रापि महाप्राणस्यैवावकाशः, अन्येषां च वेदे प्रयोजनम्। उपयुज्यन्त इति-उपयुक्ता भवन्तीत्यर्थः । शिक्षामिति-वर्णोत्पत्तिप्रतिपादकं शास्त्रम्। कोष्ठे उदरे। अन्यतमस्मिनिति-मतान्तरेणाऽयं साधुः, स्वमतेऽन्यतरग्रहणादन्यस्वार्थिकप्रत्ययान्तानां सर्वादित्वनिषेधान सिध्यति। अनुप्रदानमिात-अनुप्रदीयते वर्णान्तरसंजननार्थमेकत्र मील्यते "भुजिपत्यादिभ्यः०" (५.३.१२८) (इत्यनट्) निग्रह इति-स्तब्धत्वं कठिनत्वमिति यावत्। अणुत्वम्-सूक्ष्मत्वम्। वसनम्-श्लथत्वमित्यर्थः । वर्णनिष्पत्तिकालभावेति-अत्राल्पस्वरत्वेन भावशब्दस्य पूर्वनिपातः । श्वासलक्षणमनुप्रदानं येषां ते तथा। इतरे इति-इतरत्वं पूर्ववाक्याऽपेक्षम्, न सर्वेषामित्यर्थः । उदात्तादीनां स्वरेष्वेव संभवान व्यञ्जनेषु इति व्यञ्जनोत्पत्तौ न कथ्यन्ते उदात्तादयो बाह्यप्रयत्नाः ।।१७।।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484