Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 425
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४०२ अत: "शुभेः स च वा" (उणा० ७४३) इति डित्युकारे शु पूजायाम्। सहपूर्वात् साहे: “डित्" (उणा० ६०५) इति डित्याकारे सहसा अतर्किते। युगपूर्वात् पदेर्बाहुलकादौणादिके क्विपि युगपत् क्रियासमभिहारे सहार्थे च। उपपूर्वाद् “अशौटि व्याप्तौ” अतः "अशेरान्नोऽन्तश्च” (उणा० ७१९) इत्युप्रत्यये नागमे च उपांशु शनकैर्वचने। पुरपूर्वात् तस्यतेः क्विपि पुरतस्, "पृश् पालनपूरणयोः" अतः "मिथि-रञ्जयुषि-तृ-पृ-शृ-भू-वष्टिभ्यः कित्" (उणा० ९७१) इत्यसि “ओष्ठ्यादुर्" (४.४.११७) इत्युरि पुरस् एतावग्रतोऽर्थे । पृणातेः “संश्चदेहत्साक्षादादयः" (उणा० ८८२) इति कति प्रत्यये पुरस्ताद् निपात्यते, प्रथमे पुरोऽर्थे च। “शश प्लतिगतौ" अतः “संश्चद्वेहत्साक्षादादयः" इति कति प्रत्यये वागमे च शश्वत् नित्ये पुनः पुनरर्थे च, यथा-'शश्वद् वक्ति कुशिक्षितः' इति। कुपूर्वाद् विदेः क्विपि कुविद् योगप्रशंसा-ऽस्तिभावेषु। “अव रक्षणादिषु" अतः “अवेर्णित्" (उणा० ९९५) इति इसि "णिति" (४.३.५०) इति वृद्धौ च आविस् प्राकाश्ये। प्रपूर्वाद् “अदं प्सांक् भक्षणे" अत: "रुद्यति०" (उणा० ९९७) इत्युसि प्रादुस् प्राकाश्ये नाम्न्यपि, यथा-हरेर्दश प्रादुर्भावाः, दश नामानीत्यर्थः । इतिशब्द एवंप्रकारे, एवंप्रकाराः स्वरादयः, न त्वेतावन्त एवेत्यर्थः। ननु किमत्र निबन्धनम् ? विशेषस्यानिर्देशात्, इतिशब्दस्य च परिसमाप्तावपि वर्तमानत्वादेतावन्त एवेत्यर्थो य इति (०र्थः) कुतो न लभ्यते? इत्याह-बहुवचनमिति। (आकृतिगणार्थमिति-) आक्रियतेऽनयेत्याकृतिर्वर्णिकाप्रकारस्तस्या गणस्तदर्थमिति, अयमर्थः-स्वरादिशब्दस्य संज्ञितया संज्ञाविशेषणत्वात् संज्ञायाश्चैकवचनान्तत्वाल्लाघवार्थं चैकवचने प्राप्ते यद् बहुवचनं तद् अन्येऽपि बहवः स्वरादयः सन्तीति ज्ञापनार्थम्, एतेनान्येऽपि स्वरादिसधर्माणः संगृहीता भवन्ति। उक्तं च "इयन्त इति संख्यानं निपातानां न विद्यते। प्रयोजनवशादेते निपात्यन्ते पदे पदे" ।।२१।। अर्थकथनं चैषामुपलक्षणमात्रं द्रष्टव्यम्, यथोक्तम् "निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम्" ।।२२।। इति। साधर्म्यमेव दर्शयति-स्वरादयो हीति, अयमर्थ:-अव्ययं द्विविधम्-वाचकं द्योतकं चेति। तत्र यनियमेन पदान्तरोपहितमेव प्रयुज्यते, यथा-'प्लक्षश्च न्यग्रोधश्च' इति चादिः, तत् पदान्तरगतविशेषद्योतनाय द्योतकमुच्यते, चादिर्हि पदान्तरोपात्तमेवार्थं स्वार्थेन भिनत्ति, तेषां स्वार्थप्रकाशने तस्य सहकारिभावात्। यत् तु पदान्तरोपहितिमन्तरेणापि प्रयुज्यते, यथा-'स्वः सुखयति' इति स्वरादि तद् वाचकम्, निरपेक्षस्य स्वार्थाभिधानात्। तत्र यदन्यञ्चादिषूपात्तमनुपात्तं च सत्यव्ययत्वे स्वार्थस्य वाचकम्, तत् स्वरादौ द्रष्टव्यमित्यर्थः। अव्ययीभावस्य चाव्ययत्वं नाङ्गीकर्तव्यम्, तदङ्गीकरणे हि 'उच्चकैः, नीचकैः' इत्यादिवद् ‘उपाग्नि, प्रत्यग्नि' इत्यत्रापि “अव्ययस्य को द् च” (७.३.३१) इत्यक् प्रसज्येत। तथा उपकुम्भंमन्यम्' इत्यादौ ‘दोषामन्यमहः' इत्यादिवद् मागमप्रतिषेधः स्यात्। अथाव्ययीभावस्य तु "तृप्तार्थपूरणाव्यया०" (३.१.८५) इति षष्ठीसमासस्य प्रतिषेधोऽव्ययत्वस्य फलमिति चेत्, न-तत्र समासकाण्डे बहुलाधिकारात् सेत्स्यति। किं च 'अव्ययीभावः' इति महती संज्ञां यत् कृतवानाचार्यस्ततोऽपि ज्ञापयतिक्वचिदव्ययत्वमपि (तेन चैत्रस्योपकुम्भमित्यत्र न समासः।) ।।३०।। __ ल.न्यास- स्वरेत्यादि। अत्युबैसाविति-ननु पूर्वपदमप्यत्राव्ययम्, ततस्तत्संबन्धित्वाल्लप् प्राप्नोतीति, सत्यम्-अतिक्रान्तेऽर्थे लिङ्गसंख्यायोगादतिशब्दः सत्त्वे वर्तते इति नाव्ययम्। “अतिरतिक्रमे च" (३.१.४५) इत्यत्र बाहुलकात् क्वचित् समासाभावेऽति स्तुत्वेत्यादौ क्रियासंबद्धस्यातिशब्दस्य द्योतकत्वमेवेति। परमनीचैरित्यत्र त्वित्यादि-अत्र तुशब्दो विशेषणार्थः, पूर्वस्माद् विशेषं द्योतयति, तेन किं सिद्धम्? यत्रानुपसर्जनः स्वराद्यन्तो भवति तत्रावयवः समुदायश्चोभयमप्यव्ययं भवत्येव, समासस्योत्तरपदार्थप्रधानत्वात्। ननु भवत्वेवं तथापि संज्ञाविधौ तदन्तप्रतिषेधस्य ज्ञापितत्वाद् *ग्रहणवता नाम्ना न तदन्तविधिः* इति प्रतिषेधाञ्च कथं परमोच्चैरित्यादौ तदन्तस्याव्ययसंज्ञेत्याह-अन्वर्थाश्रयणे

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484