Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४30
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન शिरसादौ सत्वापत्तिरित्यतिव्याप्तिस्तथाऽपि दुरुद्धरेति तात्पर्यात्। इत्थं च तत्र तत्र यद् भवतु तद् भवतु *क्वचिदुभयगतिः* इत्यस्याश्रयणेन प्रकृते संज्ञिकोटौ सङ्ख्याग्रहणं तु न कर्तव्यं भवतीति संज्ञासूत्रत्वे न काचित्, क्षतिरिति चेत्, सत्यम्-निर्दोषत्वात् स्वीकुर्महे।
परमत्रेदमाकलनीयम्-संज्ञापले लक्ष्याऽसिद्धिरूपदोषाभावेऽपि *कृत्रिमाकृत्रिमयोः कृत्रिमे* इत्यादरास्पदमपि न्यायोऽनाद्रियते, *क्वचिदुभयगतिः* इति न्याय आद्रियते, एतस्यादरे तु पुनर्द्विधा बोधायाऽऽवृत्तिः, क्वचित्पन विषयविशेषानिर्णयाद् व्याख्यानविशेषश्चाऽवलम्बनीयौ, व्याख्यानविशेषेऽपि इतरव्याख्याननिवर्तकप्रमाणान्तरमन्विष्येत, तदित्थं महता प्रयासेन संज्ञासूत्रत्वपक्षे कर्तव्यतयाऽऽपादितं सङ्ख्याग्रहणजन्यं गौरवं परिहत्य 'वद्'ग्रहणपक्षीयं कण्ठताल्वाद्यभिघातप्रयोज्यगौरवं परिहियते, मृष्यते च बहु परिपतन्मनोगौरवम्, न खलु कण्ठताल्वाद्यभिघातप्रयोज्यगौरवमेव गौरवं भवितुमर्हति, न तु मनोगौरवं गौरवमिति राजाऽऽज्ञाऽस्तीति बहुमनोगौरवसहनापेक्षया लाघवात् सङ्ख्याग्रहणमेव कर्तव्यमुचितं स्यादिति संज्ञासूत्रापेक्षया सङ्ख्याग्रहणराहित्येन वद्घटितमतिदेशसूत्रमेवास्तु-"डत्यतु सङ्ख्यावत्" इतीति युक्तमुत्पश्याम इति।
___नन्वतिदेशसूत्रत्वाङ्गीकारेऽपि “डत्यतु सङ्ख्या" इत्याकारकं वद्रहितमेव सूत्रमस्तु, भवति हि वत्प्रत्ययमन्तरेणाप्यतिदेशावगतिः यथा-ब्रह्मदत्तभिन्ने ब्रह्मदत्तगतगुणसदृशगुणानालोक्य 'एष ब्रह्मदत्तः' इति यदा कश्चित् प्रयुङ्क्ते तदा अब्रह्मदत्तं ब्रह्मदत्त इत्ययमाह तेन मन्यामहे-ब्रह्मदत्तवदयं भवतीति श्रोता निश्चिनोति, तथा इहापि नियतविषयपरिच्छेदहेतुरूपसङ्खयाभिन्ने त्रित्वादिसङ्ख्याव्यापकाखण्डोपाधिरूपबहुत्वविशिष्टादिवाचकबह्वादौ सङ्ख्याप्रयुक्तकार्यभाक्त्वरूपसादृश्यप्रतिसन्धानेन “डत्यतु सङ्ख्या" इति प्रतिपादनात् सद्ध्यावदिति प्रत्ययो भविष्यतीति चेत्, न-एवं सति शक्यार्थबाधेन लक्षणाऽभ्युपगन्तव्या, सा च द्विधा-निरूढा आधुनिकी चेति, तत्रानादितात्पर्यिका निरूढा, प्रयोजनवती चाधुनिकी, यदीदानी सङ्ख्याशब्दे लक्षणा स्वीक्रियते तदेयमाधुनिकीति कृत्वा प्रयोजनेन केनचिद् भाव्यम्, न चात्रासाधारणं प्रयोजनं किमप्युत्पश्यामः, 'सङ्घच्यावत्' इत्यनेनैव विवक्षितार्थसिद्धेः, 'एष ब्रह्मदत्तः' इत्यादौ तु ब्रह्मदत्तगताऽसाधारणधर्मबोधनरूपं प्रयोजनमुपलभ्यते, न च तद् ब्रह्मदत्तसदृशादिशब्देन निश्चेतुं शक्यम्, रूपान्तरेणापि सादृश्योपपत्तेः । अयं भावः-आधुनिकलक्षणास्थले व्यञ्जनाद्वारा शक्यगतासाधारणधर्मबोधनरूपं प्रयोजनं भवति, व्यञ्जनाजन्यबोधोऽपि चमत्कारविशेषाधायकः, यथा-'गङ्गायां घोषः' इत्यत्र प्रवाहरूपशक्यार्थबाधेन लक्षणया तीरार्थे प्रत्याय्यमाने व्यञ्जनया गङ्गागतशैत्यपावनत्वादिबोधः, नहि चैत्रो बलीवर्दः' इति प्रतिपादने यश्चमत्कारश्चकास्ति स चैत्रो मूर्ख इति वचने। इत्थं च प्रयोजनाऽनुरूपमब्रह्मदत्ते लक्षणया ब्रह्मदत्तस्य प्रयोगेऽपि प्रकृते वद्धटितं "डत्यतु सङ्ख्यावत्" इति सूत्रकरणमेव युक्तम् ।।३९।। ल.न्यास-डत्यत्वित्यादि-वत्करणाभावे *कृत्रिमाकृत्रिमयोः* इति न्यायाद् एक-व्यादीनामकृत्रिमाणां न स्यादिति ।।३९।।
बहु-गणं भेदे ।१।१।४०।। बृन्यासानु०-बहुगणमित्यादि-"वहीं प्रापणे” इत्यतो वहतीति “मि-वहि-चरि-चटिभ्यो वा” (उणा० ७२६) इति उप्रत्यये ब-वयोरैक्येन बत्वे च बहुरिति “गणण संख्याने" अतो गण्यत इत्यलि गण इति, बहुश्च गणश्चेत्यनयोः समाहार इति बहुगणम्, अत्र “चार्थे द्वन्द्वः सहोक्तौ” (३.१.११७) इति समासः, "लघ्वक्षर०" (३.१.१६०) इति बहुशब्दस्य प्राग्निपातः, लाघवार्थं समाहारविवक्षया एकत्वम्, "द्वन्द्वैकत्व०" (लिङ्गानुशासने नपुंसकलिङ्गे श्लो० ९) इति नपुंसकत्वम्, “अतः स्यमोऽम्" (१.४.५७) इति सेरमादेशः, “समानादमोऽतः” (१.४.४६) इति पूर्वाकारलोपश्च विज्ञेयः। 'बहुगणम्' इत्येकवचनान्तत्वेऽपि द्वौ शब्दावत्र ग्राह्याविति स्पष्टमवबोधयितुमाह-बहु गण इत्येतौ शब्दाविति। इमावनेकार्थकाविति कीदृशावार्थावत्र विवक्षिताविति जिज्ञासायामाहभेदे वर्तमानाविति। बहुगणमित्युपादानेनोद्देश्याऽऽकाङ्क्षाया निवर्तनात् पूर्वसूत्रतो 'डत्यतु' इत्युद्देश्यबोधकशब्दाऽननुवर्तनेऽपि विधेयाऽऽकाङ्क्षा न यथास्थितसूत्राद् निवर्तत इति तदर्थ सङ्घयावदित्यनुवर्तत एवेत्याह-सङ्ख्यावदिति। शाब्दबोधस्य
Loading... Page Navigation 1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484