Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 436
________________ परिशिष्ट - २ ૪૧૩ येनेत्यादयश्चत्वारस्तृतीयान्तसदृशाः । तेप्रभृतयश्चत्वारश्चतुर्थ्यन्तप्रतिरूपकाः । चिरादकस्मादित्येतौ पञ्चम्यन्ततुल्यौ । चिरस्यादयस्त्रयः षष्ठ्यन्तनिभाः । शेषा अष्टौ सप्तम्यन्ताकृतयः । न च वाच्यमेते स्वार्थे प्रथमादिविभक्त्यन्ता एव, 'अहंयुः, अर्थे(अग्रे)कृत्य' इत्यादौ "ऐकार्थ्य" (३.२.८) इति विभक्तिलोपे तदन्तश्रवणाप्रसङ्गादित्याह - एत इत्यादि । अस्त्यादीनां च तिवादिप्रतिरूपकत्वे प्रयोजनमुक्तमेव ।।३३।। ल. न्यास - विभक्तीत्यादि - आदङ्कति - अत्र “तकु कृच्छ्र-जीवने" इत्यस्य स्थाने दकुरिति पठन्ति ।। ३३ ।। वत्तस्याम् । १ । १ । ३४ ॥ बृ०न्यास—वत्-तस्यामिति - त्रिपदः समाहारो द्वन्द्वः, तदन्तविधिः पूर्ववत्। 'आम्' इति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थाननिष्पन्नस्य चाविशेषात् त्रयाणां ग्रहणं प्राप्नोति, द्वयोरेव चेष्यते, अतिव्याप्त्युपहतत्वादलक्षणमेतद् इत्याह- वत् - तसीत्यादि । अयमर्थः-वत्-तसी अविभक्ती, तत्साहचर्यादामोऽप्यविभक्तेरेव ग्रहणम्, 'दरिद्राञ्चकृवद्भिः' इत्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यस्य च ग्रहणं भवति, तावेव हि तयोर्वत्-तस्योरविभक्तित्वेन हितौ अत आह- तद्धितस्येत्यादि-रूपापेक्षया त्वेकवचनम्, अत एव “किंत्याद्येऽव्यय०" (७.३.८) (" इत्यादिना ") इत्यत्रादिशब्द आम्विधायकसूत्रपरिग्रहार्थं उक्तः । दरिद्राञ्चकृवद्भिरित्यत्रामोऽव्ययत्वेऽपि कुत्सितादौ " अव्ययस्य को द् च” (७.३.३१) इति अग् न भवति, अपरिसमाप्तार्थत्वाद् आमन्तस्य कुत्सितादिभिर्योगाभावादिति । अथवाऽऽमेव य आम्, स एवान्यत्र गृह्यते, षष्ठीबहुवचनं तु मनसामित्याम् च मुनीनामिति नाम् च इति तस्याग्रहणम्। “मनिंच् ज्ञाने” अतः "मनेरुदेतौ चास्य वा ” ( उणा० ६१२) इति इप्रत्यये मुनिः । क्षदेः सौत्राद् “हु-या-मा-श्रु- वसि० ' ( उणा० ४५१) इति त्रे क्षत्त्रम्, तस्यापत्यम् "क्षत्राद्०" (६.१.९३) इये क्षत्रियः । "पींच पाने" अतः "पीङः किद् " ( उणा० ८२१) इति लुप्रत्यये पीलुः, “मूङ् बन्धने” अतः “शुक-शीमूभ्यः कित् ” ( उणा० ४६३) इति ले मूलम्, पीलोर्मूलं पीलुमूलम् । “ऋक् गतौ” अतः “अर्त्तेरुराश च " ( उणा० ९६७) इत्यसि उरस् । उच्चैस्तरा (म्, उच्चैस्तमा) मिति - "क्वचित् स्वार्थे" (७.३. ७) इति तरपि “प्रकृष्टे तमप्" (७.३.५) इति तमपि च तयोरन्तस्यामादेशेऽव्ययत्वात् सर्वत्र “ अव्ययस्य" (३.२.७) इति स्यादेर्लुप् ।।३४।। " ल. न्यास - वत्तस्यामिति । आमिति षष्ठीबहुवचनस्य तद्धितस्य परोक्षास्थाननिष्पन्नस्य चाविशेषेण त्रयाणामपि ग्रहणं प्राप्नोति, द्वयोरेव चेष्यतेऽतोऽतिव्याप्त्युपहतत्वादलक्षणमेतद् इत्याह- वत्तसीति । तद्धितस्येत्युपलक्षणम्, ततः “धातोरनेकस्वरात्०" (३.४.४६) इत्यादिना विहितस्याप्यामो ग्रहणम्, तेन पाचयाञ्चक्रुषेत्यादौ टालोपे पदत्वादनुस्वारसिद्धिः । न चोपलक्षणात् षष्ठीबहुवचनस्यापि ग्रहणं किं न स्यादिति वाच्यम्, यतो य आम् आमेव भवति स एव गृह्यते, अयं तु नाम् साम् वा भवतीति । यद्वा वत्तसी अविभक्ती, तत्साहचर्यादामोऽपि अविभक्तेरेव ग्रहणम्, ततो दरिद्राञ्चकृवद्भिरित्यत्र क्वसुस्थाननिष्पन्नस्य पचतितरामित्यत्र “किंत्याद्येऽव्यय०" (७.३.८) इति विहितस्य च ग्रहणं भवति, यत एतावेव तयोर्वत्-तस्योरविभक्तित्वेन हिताविति व्युत्पत्त्या तद्धितावित्यभिधीयते । अस्मिंश्च व्याख्याने “किंत्याद्येऽव्यय० " (७.३.८) इत्यनेन इत्यन्तेन इदमेव सूत्रं संपूर्णं गृह्यते, आदिशब्देन तु "धातोरनेकस्वर०" (३.४.४६ ) इति विहितस्य क्वसु- कानस्थानस्येति । तथा दरिद्राञ्चकृवद्भिरित्यत्रामन्तस्याव्ययत्वेऽपि कुत्सिताद्यर्थे “ अव्ययस्य को द् च" (७.३.३१) इति अक् न भवति, अपरिसमाप्तार्थत्वेनामन्तस्य कुत्सितार्थासंभवाद् इति । उच्चैस्तरामिति - "क्वचित् स्वार्थे” (७.३.७) इति प्रकृष्टे चार्थे तरप् ।।३४।। क्त्वातुमम् | १|१| ३५ ।। बृ० न्यास — क्त्वातुममिति । "डुकुंग् करणे" "हंग् हरणे" अतः "प्राक्काले” (५.४.४७) इति क्त्वाप्रत्ययः । प्रकृत्य, प्रहृत्येत्यत्रापि स्थानिवद्भावेनाव्ययत्वम् । क्त्वेति-ककारोऽसंदेहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात् किमयं क्त्वाप्रत्ययस्य

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484