Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
४२४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 'द्वः' इत्येवमेव सङ्ख्यापरत्वपक्षेऽपि प्रकृते विग्रहो युक्तः; न तु एकश्च द्वौ च इति विग्रहीयं 'द्वौ' इति द्विवचनं युक्तमिति वाच्यमसङ्ख्यापरत्वेऽपि सङ्घयेयगतसङ्ख्यां द्विशब्दादिप्रतिपाद्यद्वित्वादावारोप्य द्विवचनान्तस्यैव साधुत्वाभ्युपगमात्। अत एव महाभाष्यकार: सङ्ख्यापरतायामपि 'कयोर्द्वयोः', “केषां बहुषु" इत्यत्र 'द्वयोः', 'बहुषु' इति द्विवचन-बहुवचनाभ्यामेव प्रयोगं कृतवान्, न तु एकवचनत इति।
यद्यपि एकवचन-द्विवचनाद्येव कुर्वत आचार्यस्य “नाम्नः प्रथमैक-द्वि-बहौ" (२.२.३१) इत्यत्रैकादिशब्दानां सङ्घच्यापरत्वेन प्रयोगो न दृश्यते, अत एव स्वोपज्ञबृहद्वत्तौ “एकत्व-द्वित्व-बहुत्वविशिष्टेऽर्थे वर्तमानान्नाम्नः......" इति रीत्या व्याख्यानेन सङ्घयेयपरतैव सूचिता, तथाऽपि सङ्ख्या-सङ्खयेयोभयपरतया शास्त्रे प्रयोगार्हाणामेकादिशब्दानां क्वचिदाचार्येण सङ्घयेयपरतया तेषां प्रयोगः कृत इत्येतावताऽऽचार्यान्तरेण क्वचित् सङ्ख्यापरतया क्रियमाणस्तेषां प्रयोगो न विरुद्ध्यते।
___यद्वा एकत्वविशिष्टेऽर्थे वर्तमानान्नाम्न एकत्वेऽर्थे सिलक्षणा प्रथमा, द्वित्वविशिष्टेऽर्थे वर्तमानानाम्नो द्वित्वेऽर्थे औलक्षणा प्रथमा, बहुत्वविशिष्टेऽर्थे वर्तमानानाम्नो बहुत्वेऽर्थे जस्लक्षणा प्रथमेत्येवमभिप्रायेणैव तथाभूतां बृहद्वृत्तिमुपन्यासदाचार्य इति कल्प्यतां ततः काऽस्माकं दुर्घटना?।
____ अथ “सरूपाणामेकशेष एकविभक्तौ” (पाणि० १.२.६४) इति सूत्रभाष्ये “सङ्ख्याया अर्थासम्प्रत्ययादन्यपदार्थत्वाज्ञानेकशेषः” इति सङ्ख्याशब्दानामेकशेषाभावसूचकं वार्तिकमादाय कैयटेन 'द्वन्द्वोऽपि न' इति व्याख्यातम्। अन्यैरपि तुल्ययुक्त्या एकशेषवद् द्वन्द्वोऽपि सङ्ख्याशब्दानां न भवति' इत्यर्थः प्रतिपादित इति एकश्च द्वौ च इति एक-द्वौ इत्येवं द्वन्द्वगर्भितत्वेन ‘एकट्यादिका' इति शब्दस्य वर्णनं न युक्तमिति चेत्, मैवम्-सङ्खयेयपरत्वे एव तेषामेकशेषस्य द्वन्द्वस्य वाऽनिष्टत्वम्, न तु सङ्ख्यापरत्वे, अत एव भगवानाचार्य: "स्यादावसङ्घयेयः" (३.१.११९) इत्यत्र द्वन्द्वोऽपि न भवत्यनभिधानात् इत्युक्त्वापि पुनराह-'सङ्खयेय' इति कर्मनिर्देशात् सङ्ख्यावाचिनो भवत्येव" इति। अत एव विंशत्यादेः सङ्ख्यापरत्वे 'गवां विंशती' 'गवां विंशतयः' इत्येकशेषतः प्रयोगाः साधवो भवन्ति, 'विंशती' इत्यस्य चत्वारिंशदित्यर्थः, 'विंशतयः' इत्यस्य षष्टिरशीत्यादिर्वाऽर्थः, सङ्घयेयार्थे तु 'गावो विंशतिः' इतिवद् ‘गावो विंशती' 'गावो विंशतयः' इति नैव साधवः। अत एव कोषकार:-“विंशत्याद्याः सदैकत्वे सर्वाः सङ्ख्येयसङ्ख्ययोः"।
___ "सङ्ख्यार्थे द्विबहुत्वे स्तः०" इति सङ्ख्यापरत्वे एव एकशेषलभ्यं द्वि-बहुत्वादि प्रतिपादितवान्। एवमेव “ध्येकयोः" (पाणि० १.४.२२) इत्यत्र सङ्ख्यापरत्वे द्वन्द्वोऽपि साधुः। प्रकृतेऽपि एकश्च द्वौ चेति विग्रहे सङ्ख्यापरतायां द्वन्द्वः साधुरेव। सङ्ख्येयपरत्वे तु
"एकद्विकरणे हेतू महापातकपञ्चके।।
तृणवन्मन्यते कोप-कामौ य: पञ्च कारयन्" ।।१।। इति नैषधीयपद्ये एक-द्वीति न द्वन्द्वः, किन्तु एको वा द्वौ वा इत्यर्थे "सुज्-वाऽर्थ सङ्ख्या०" (३.१.१९) इत्यनेन बहुव्रीहौ 'प्रमाणी०" (७.३.१२८) इति डे “एक-द्वकरणे" इत्येव पाठो रमणीयः, द्वन्द्वस्वीकारेऽसाधुता बद्धमूला न हीयेत । वैयाकरणनागेशभट्टेन “सरूपाणाम्०" (पाणि० १.२.६४) इति सूत्रे शेखरे “एकादिदशान्तानां द्वन्द्वकशेषावनभिधानान्न भवतः" इति स्वयं प्रतिज्ञात्रा “ऊकालोऽज्झस्व०" (पाणि० १.२.२८) इति सूत्रे शेखरे ‘एक-द्वि-त्रिमात्राणाम्' इति प्रयुक्तं तु प्रकारद्वयेन समाधेयम्, सङ्कलित-सङ्ख्यातात्पर्यण एकादिदशान्तानां द्वन्द्वैकशेषो न भवतः, यथा-त्रित्वविशिष्टार्थे प्रतिपादनीये एकत्व-द्वित्वसङ्घये सङ्कलय्य 'एक-द्वि' इति, एकत्वद्वित्वत्रित्वसंकलनेन षट्त्वविशिष्टबुभुत्सया 'एक-द्वि-त्रि' इत्यादि च न भवति, इत्येकः समाधानपथः । द्वितीयस्तु-एका द्वे तिस्रो मात्रा येषामित्यनेकपदबहुव्रीहिर्भविष्यतीति। इत्थमेव वाक् च त्वक् च प्रिया यस्य इति विग्रहे 'वाक्त्वप्रियः' इति बहुव्रीहिः सिद्ध्यति, द्वन्दं कृत्वा बहुव्रीहिकरणे तु “चवर्गदषह:०" (७.३.९८) इति समासान्तेऽति कृते 'वाक्त्वचप्रियः' इति स्यात्।
Loading... Page Navigation 1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484