Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 448
________________ पिनियनयोममाहार इति परिशिष्ट-२ ૪૨૫ न च एका द्वे तिस्रो मात्रा येषामित्यर्थे बहुव्रीहिर्न युक्त: “एकार्थं चानेकं च" (३.१.२२) इत्यनेनाभेदेनान्वयी योऽर्थस्तद्वाचकस्यैकार्थपदस्यैव समासविधानेन प्रकृते तदभावात् सूत्रान्तरेण अप्राप्तत्वाञ्चेति वाच्यम्, समस्यमानपदसमूहघटकेन केनापि पदेन ऐकायें जाग्रति समासस्य भाष्यकारेणाङ्गीकृतत्वेन 'मात्रा' शब्देन सर्वेषां समस्यमानानामेकादिपदानां प्रकृतेऽपि ऐकार्यमस्त्येवेति समासस्य सुलभत्वात्। एवञ्च सङ्ख्यापरत्वे द्वन्द्वादिर्भवतीति स्थितम्। सङ्घयेयपराणां तु तुल्यरूपाणां द्वन्द्वैकशेषो न भवत इति स्वयमेवाचार्येण भगवता "स्यादावसङ्घयेयः" (३.१.११५) इत्यत्र व्याख्यातम्। ___न चैकादिदशान्तानां द्वन्द्वाभावे एकश्च दश च एकादश, द्वौ च दश च इति द्वादश, एवं त्रयोदशादयोऽपि न सिद्धयेयुरिति वाच्यम्, एकादिनवान्तानामेव सङ्खयेयपराणां सङ्कलनतात्पर्येण द्वन्द्वो न भवतीत्येव कल्पनात्। अत एव "त्यदादीनि सर्वैः०" (पाणि० १.२.७२) इति सूत्रे नागेशेन स्पष्टं तथैव प्रतिपादितम्। “सरूपाणामे०" (पाणि० १.२.६४) इति सूत्रे एकादिदशान्तानां द्वन्द्वैकशेषौ न भवत इति नागेशोक्तिस्तु भ्रममूला। यद्वा एकाधिका दश एकादश, व्यधिका दश द्वादश इति रीत्या “सिद्धं त्वधिकान्ता सङ्ख्या सङ्ख्यया समानाधिकरणाधिकारेऽधिकलोपश्च" इति चार्थे (पाणि० २.२.२९) इत्येतत्सूत्रस्थवार्तिकेन पाणिनीयैरिव एकाधिका दश इत्याद्यर्थ एव "मयूरव्यंसकादयः" (३.१.११६) इत्यनेन हैमशब्दानुशासनानुसारिभिरस्माभिरपि शाकपार्थिवादिवत् एकादशद्वादश-प्रभृतिशब्दानां साधनीयत्वात्। एवम् 'एकविंशतिः' इत्यादावपि एकाधिका विंशतिरित्येवंरीत्या समासो विधेयः । यद्वा एकादिनवा-न्तानामेव द्वन्द्वो न भवतीति ‘एकविंशतिः' इत्यादौ द्वन्द्वकरणेऽपि न क्षतिः, तत्र एकश्च विंशतिश्चेतीतरेतरद्वन्द्वपक्षे सङ्ख्यासमूहगतै-कत्वानुरोधेनैकवचनान्तता, न तु सङ्ख्याद्वयगतद्वित्वप्रयुक्तद्विवचनान्तता, एकश्च विंशति समाहारद्वन्द्वपक्षेऽपि “विंशत्याद्याः शताद् द्वन्द्वे सा चैक्ये द्वन्द्वमेययोः” (लिङ्गानुशासनस्त्रीलिङ्गप्रकरणे श्लो० ८) इति वचनाद् एकवचनान्तस्य स्त्रीलिङ्गता, न तु समाहारप्रयुक्तं नपुंसकत्वमिति विशेषः। एकविंशत्यादयः सङ्ख्यायां सङ्खयेये च वर्तन्ते। सङ्घयेयपराणां सङ्घच्याशब्दानां सरूपा-णामेकशेषो द्वन्द्वो वा न भवतीति एकश्चैकश्च ‘एको' 'एकैको' इति वा न भवति। सङ्ख्यापराणां सरूपाणां विंशत्यादीनामेकशेषो भवतीति प्रागवोचाम। विरूपाणां सङ्खयेयपराणां सङ्ख्याशब्दानां तु सङ्कलनतात्पर्येण द्वन्द्वो न भवति, यथा'एक-द्विमात्राः प्लताः' इति। असङ्कलनतात्पर्येण तु द्वन्द्वो भवत्येव, यथा-"एक-द्वि-त्रिमात्रा हस्व-दीर्घ-प्लुताः" इत्यादिसारार्थोऽनुसन्धेयः । विंशत्यादिशब्दा व्यादिशब्दाश्च धर्मशक्ता एव, न तु धर्मि (सङ्खयेय)शक्ता इत्याद्यपि मतान्तरं यद्यप्युपलभ्यते तथाऽपि प्रकृतानुपयोगितयेदानीं विचारनिकषे तन्नाऽऽनयामः। सेयमेकव्व्यादिका कुतो ज्ञातव्येत्यत आह-'लोकप्रसिद्धति', यथा-घटपटादयः शब्दा लोके घटाद्यर्थबोधने प्रसिद्धास्तथैव एकत्वादिसङ्ख्यार्थाभिधाने एकादयोऽपि प्रसिद्धा इत्यर्थः। इवार्थे जायमानो वत्प्रत्ययः सादृश्यं द्योतयति, सादृश्यं चात्र क्रियागतमभिप्रेतमिति सदृशक्रियां बोधयितुमाह-तत्कार्यं भजत इति-सङ्ख्याशब्दस्य प्रकृते सङ्ख्यापरत्वं सङ्ख्यावाचकपरत्वं च प्राक् प्रतिपादितम्, तत्र सङ्ख्यावाचकपरत्वे तच्छब्देन सङ्ख्यावाचकेत्यस्य परामर्शः, सङ्ख्यापरत्वे लक्षणया तच्छब्दस्य सङ्ख्यावाचकोऽर्थः, उभयथा 'तत्कार्यम्' इत्यस्य सङ्ख्यावाचककार्यमित्यर्थो लभ्यते। वद्धटितत्वादतिदेशसूत्रमिदम्। अतिदेशस्य च निमित्तव्यपदेश-तादात्म्य-शास्त्र-कार्य-रूपा-ऽर्थभेदेन सप्तविधत्वेऽपि रूपाद्यतिदेशानामनिष्टसम्पादकत्वेन प्रकृते नाश्रयणम्, शास्त्रातिदेशस्याश्रयणे क्षतिविरहेऽपि तदतिदेशस्य कार्यरूपपरमुखनिरीक्षकतया वरं कार्यातिदेश एवेति तथैव व्याचष्टे स्म। तथा च सङ्ख्याशब्दस्य सङ्ख्याकर्तृककार्याश्रयणे लाक्षणिकतया सङ्ख्याकर्तृककार्याश्रयणसदृशकार्याश्रयणं डत्यन्ताऽत्वन्तवृत्तीति वाक्यार्थः। *यथोद्देशं निर्देशः* इति पूर्व डतिप्रत्ययान्तस्यातिदेशप्रयोजनं दर्शयति-कतिभिरित्यादि-"कुंक् शब्दे" इत्यत: “कोडिम्" (उणा० ९३६) इति डिमि “डित्यन्त्य०" (२.१.११४) इत्यन्त्यस्वरादिलोपे किम्शब्दः, का सङ्घया मानमेषामिति “यत्तत्किम:०" (७.१.१५०) इति डतौ कतिशब्दः, स चायं स्वभावाद् बहुवचनविषय एव, ततः “हेतुकर्तृ०" (२.२.४४) इति भिसि “सो रुः" (२.१.७२) इति रुत्वे "र: पदान्ते०" (१.३.५३) इति विसर्गे च कतिभिरिति; क्रीयते स्मेति क्रीतः, “डुक्रींग्श् द्रव्यविनिमये” इत्यतः

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484