Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 437
________________ ૪૧૪ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન निर्देशः? उताहो विदितं गोत्वं यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्याऽऽबन्तस्य? इति। कर्तुं हर्तुमिति-कृगो हगश्च "क्रियायां क्रियार्थायामु०" (५.३.१३) इति तुम् यद्यप्यमिति सामान्यनिर्देशात् स्यादि-त्यादिसंबन्धिनोरप्यमोः प्रसक्तिस्तथाऽपि कृत्क्त्वा-तुम्साहचर्यात् कृदेव गृह्यत इत्याह-अमित्यादि-उत्सृष्टस्त्यक्तोऽनुबन्धो ययोरिति विग्रहः। न द्वितीयैकवचनस्येतिद्वितीयाया एकवचनमिति स्यादरम्, द्वितीयं ततोऽपरं च तदेकवचनं चेति त्यादरम्, इत्यावृत्त्या द्वयोरपि निषेधः सिद्धः । ननु भवतु साहचर्यव्याख्यानात् कृदमो ग्रहणम्, तथाऽपि केवलस्य प्रयोगासंभवात् प्रत्ययग्रहणे संज्ञाविधावपि तदन्तविधेरिष्टत्वात् कथं विशेषण-विशेष्यभावः? किममन्तग्रहणेन पूर्वं कृद् विशेष्यते पश्चात् कृता तदन्तविधिः? आहोस्वित् पूर्वं कृता तदन्तविधिः पश्चात् कृदन्तममन्तग्रहणेन? तत्राऽऽद्ये पक्षे "इणो दमक्" (उणा० ९३८) इति दमकि इदम्-शब्दस्याव्ययत्वं प्राप्नोति, अस्ति ह्यमाऽत्रामन्तकृदन्तं धातुरूपम्; द्वितीयपक्षे तु ‘प्रतामो, प्रतामः' इत्यत्र प्राप्नोति, अस्त्येवात्र क्विपो लोपेऽपि प्रत्ययलक्षणेन कृदन्तत्वं भूतपूर्वगत्या चामन्तत्वम्। उभयथाऽपि न दोषः, तथाहि-स्वरादौ स्वयम्शब्दस्य पाठरूपाया आचार्यप्रवृत्तेर्विज्ञायते-नोणाद्यमन्तस्यानेनाव्ययसंज्ञा, अन्यथा अनेनैव सिद्धत्वात् तस्य तत्र पाठो व्यर्थः स्यात्। 'प्रतामौ, प्रतामः' इत्यत्राप्यप्रसङ्गः स्वरादौ प्रशान्शब्दस्य पाठरूपाया आचार्यप्रवृत्तेरेव, तस्य हि “मो नो म्वोश्च" (२.१.६७) इति नत्वेऽपि भूतपुर्वगत्याऽमन्तत्वात् सिद्धमव्ययत्वमिति। "शानी तेजने" इत्यस्य तु प्रशानिति रूपं न भवति, तस्य क्विबन्तस्य प्रयोगादर्शनादिति। यावतो जीवे: "यावतो विन्दजीवः" (५.४.५५) इति णमि अमन्तत्वेनाव्ययत्वात् से पि यावजीवम्। ददातेरद्यतनीदौ “सिजद्यतन्याम्" (३.४.५३) इति सिचि "पिबैतिदा०" (४.३.६६) इति तल्लपि “अड् धातोरादिस्तिन्यां चामाङा" (४.४.२९) इत्यडागमे च अदात्। स्वदे: “कृ-वा-पाजि-स्वदि-साधि०" (उणा० १०) इत्युणि “णिति" (४.३.५०) इत्युपान्त्यवृद्धौ स्वादु, तत्पूर्वात् करोते: “स्वाद्वर्थाददीर्घाद्" (५.४. ५३) इति णमि वृद्धौ "खित्यनव्यया०" (३.२.११९) इति मागमेऽनुस्वारे च स्वादुंकारम्। भुजेर्वर्तमाना-तेप्रत्यये “रुधां स्वराच्छ्नो नलुक् च" (३.४.८२) इति श्रप्रत्यये "नाऽस्त्योलुंग" (४.२.९०) इति तदकारलोपे "चजः कगम्" (२.१.८६) इति गत्वे "अघोषे प्रथम:०" (१.३.५०) इति प्रथमत्वे "नाम्०" (१.३.३९) इति नस्य ङत्वे भुङ्क्ते ।।३५ ।। ल.न्यास-क्त्वा-तुमेत्यादि। क्त्वेति ककारोऽसंदेहार्थः, अन्यथा त्वा इति निर्देशे संदेहः स्यात्-किमयं क्त्वाप्रत्ययस्य निर्देशः? किं वा विदितं गोत्वं यकाभिस्ता विदितगोत्वा इति त्वप्रत्ययस्याबन्तस्य? इति, न द्वितीयैकवचनस्येति। द्वितीयैकवचनान्तस्याव्ययत्वे “अव्ययस्य को द् च” (७.३.३९) इति अक् स्यात्। तथा देवस्य दर्शनं कुर्वित्यादौ "तृनुदन्त०" (२.२.१०) इत्यनेन षष्ठी न स्यात्। नन्वेवं ह्यस्तन्यद्यतन्यमन्तस्याव्ययत्वं कथं निषिध्यते? सत्यम्-द्वितीयं च तदेकवचनं चेति विग्रहे तस्यापि संग्रहः, द्वितीयापेक्षया द्वितीयं चैकवचनं ह्यस्तन्यद्यतन्योरमिति ।।३५।। गतिः ।१।१३६॥ बृन्यास-गतिरिति-("अदंक् भक्षणे” अतः) “अदेरन्ध च वा" (उणा० ९६३) इत्यसि अदस् त्यदादि, “अग्रहानुपददेशे०" (३.१.५) (इति) अस्य गतिसंज्ञा वक्ष्यते, तत्पूर्वात् कृगः क्त्वाप्रत्ययस्य यबादेशे “हस्वस्य तः पित्कृति" (४.४.११३) इति तागमे अदःकृत्य ।।३६।। अप्रयोगीत् ।१।१३७॥ बृन्यास-अप्रयोगीत्यादि-प्रयोगः शब्दस्योञ्चारणम्, सोऽस्यास्तीति प्रयोगी, न प्रयोगी अप्रयोगी' इति संज्ञिनिर्देशः, 'इत्' इति संज्ञा। ननु यस्य सर्वथा प्रयोगाभावस्तस्येत्संज्ञायामतिप्रसङ्गः, उच्यते-यः शास्त्रे उच्चार्यते लौकिके च प्रयोगे न प्रयुज्यते

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484