Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 441
________________ ४१८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सिद्ध्यति, कृतकार्यत्वाच्च स्वयं निवर्तते, अत एव वकारः पठितः, प्रविरलप्रयोगविषयत्वादस्य, अन्तस्थानां पदान्तानां प्रायः प्रयोगानिष्टेः, यदाह ___ "नहि यणः पदान्ताः सन्ति" इति। वृक्षव् करोतीति व्यावृत्तिविषयोपदर्शनार्थमिति। टुडुजीनामादिभूतानामित्संज्ञा वक्तव्या, अन्यथा हुडु-पिडुङादीनामपि प्रसङ्गः, न वक्तव्या, कथम्? डान्तेषु पाठात्, शैलीयं शास्त्रकर्तृणाम्-यत् तज्जातीयाँस्तज्जातीयेषु पठन्ति। टुडुजीनां समुदाय एवानुबध्यते, समुदायस्य च संज्ञासंबन्धेऽवयवः पारतन्त्र्यादित्संज्ञां न लभत इत्युकारेकारयोरित्त्वाभावाद् “उदितः स्वरान्नोऽन्तः" (४.४.९८) इति नोऽन्तः (नोऽन्तः इत्यधिकमाभाति) “इडितः कर्तरि" (३.३.२२) इति टुवेपृङ्-वेपिता, जिफला-फलतीत्यादौ नागमात्मनेपदाभावः सिद्धः, अन्यथाऽत्रापि नागमाऽऽत्मनेपदे प्रसज्येते इति। न चायमु(दि)द्विधिः *कुम्भीधान्य* न्यायेन शक्यो वक्तुम्, तथाहि-यस्य हि कुम्भ्यामेव धान्यं नान्यत्रः स कुम्भीधान्य उच्यते धार्मिकः, यस्य तु तत्र चान्यत्र च नासावनेन शब्देनोच्यते; एवमत्रापि यस्य उदेवेद् नान्य इति, अन्यथा कम्पत इत्यत्राप्यप्रसङ्गः स्यात्; नह्यस्योदेवेदिति। एवं तर्हि नैवं तत्र विज्ञायते-उकार इद् यस्य सोऽयमुदित् तस्य उदित इति, किं तर्हि ? उकार इत् (उकार एव इत् उदित्) उदिता च धातुर्विशिष्यत इति तदन्तविधिः, उदिदन्तस्य धातोरित्यप्रसङ्गः; तात्मनेपदविधौ दोषः-अर्थणि अर्थयते, नह्यत्रेदिदन्तो धातुः, किं तर्हि ? णकारः, न चात्र धातुः संनिहितोऽस्ति। समुदायानुबन्धे च लिङ्गम्-टुनद उदित्करणम्, टुनदु नन्दथुः, जित्वरिष इकारकरणम्, जित्वरिष् त्वरते इति; अन्यथा पृथगुदित्करणं(ण)वैयर्थ्यप्रसङ्ग इति। तत्र डुलभिष् १, डुकुंग् २, डुपचीष् ३, डुयाग् ४, डुवपी ५, डुदांग्क् ६, दुधांग्क् ७, डुटु ग्क् ८, डुमिंग्ट् ९, डुक्रींग्श् १०-एते दश ड्वितः । ट्वोस्फूर्जा १, टुवेपृङ् २, टुभ्रासि ३, टुभ्लासृङ् ४, टुभ्राजि ५, टुवमू ६, ट्वोश्वि ७, टुक्षुक् ८, टुभृग्क् (टुडु,ग्क्) ९, टुडेंट् १०, टुमस्जोंत् ११-एते एकादश ट्वितः। शिक्ष्विदा १, त्रिफला २, जिमिदाङ् ३, जिक्ष्विदाड् ४, निष्विदाङ् ५, जित्वरिष् ६, जिष्वपंक् ७, जिभीक् ८, जिमिदाच् ९, जिष्विदाच् १०, जितृषच् ११, त्रिधृषाट् १२, जिइन्धैपि १३-एते त्रयोदश जीतः। ओवै १, ट्वोस्फूर्जा २, ओप्यायैङ् ३, ट्वोश्वि ४, ओहांक ५, ओहांगक् ६, ओव्रस्चौत् ७, ओविजैति ८, ओलजैति ९, ओलस्नैति १०, ओविजैप् ११, ओलडुण् १२-इत्येके, एते द्वादश ओदितः। औस्वृ १, औदित्। ऊबुन्दृग् १, ऊच्छ्रद्दपी २, ऊतृदृपी ३-एते ऊदितः। ट्धे १-टित्। एते चादीतः, अन्ये त्वन्त (त्वन्तेत) एव धातवः। दरिद्राक् १, जागृक् २, चकासृक् ३, ऊर्गुग्क् ४, ओलडुण् ५-एतान् चुराद्यदन्ताँश्च वर्जयित्वा शेषा एकस्वरा एव धातव इति। तेषां च वर्णक्रमेण पाठादतिरिक्ताऽवयवस्यानुबन्धत्वं विज्ञेयमिति नास्त्यतिप्रसङ्ग इति। दीधीकि १, वेवीकि २, चिरिट ३, जिरिट ४-एतानप्यनेकस्वरानिच्छन्त्येके। तकारादी(तकादी)नामकार इत्त्वपरित्राणार्थ इति ।।३७ ।। __ ल.न्यास-अप्रयोगीत्यादि-प्रयोगः शब्दस्योच्चारणम्, सोऽस्यास्तीति प्रयोगी, न प्रयोगी अप्रयोगी इति संज्ञिनिर्देशः, इदिति च संज्ञेति। लौकिक इति-लोकस्य ज्ञाते “लोकसर्वलोकाज्ज्ञाते" (६.४.१५७) इतीकण् ।।३७।। अनन्तः पञ्चम्याः प्रत्ययः ।१।११३८।। बृन्यास-अनन्त इत्यादि-पञ्चमीति प्रत्यय उच्यते, स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते, तया चार्थस्तद्विधिश्चेत्याह-पञ्चम्यर्थाद् विधीयमान इति। अत एव क्वचिद् “अजादे:” (२.४.१६) इत्यादौ षष्ठीनिर्देशेऽपि पञ्चम्याविरोधात् प्रत्ययत्वाविरोधः। स च वर्णस्तत्समुदायो वा भवतीति शब्द्यत इति कृत्वा शब्दशब्देनोच्यत इत्याह-शब्द इति। न चेदन्तेतियथा “उदितः स्वरानोऽन्तः" (४.४.९८) इत्यत्र हि नकारोऽन्तशब्दोच्चारणेन विधीयमानो न प्रत्ययसंज्ञां लभते। तत्रान्तग्रहणमन्तरेण प्रत्ययत्वं स्यात्, ततश्च प्रत्ययत्वात् ततः प्रत्ययोत्पत्तेरभावाद् 'नन्दन्त' (अनन्दत्) इत्याद्यसिद्धिः। ननु यद्येवं पञ्चम्यन्तात् परो

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484