________________
४१८
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન सिद्ध्यति, कृतकार्यत्वाच्च स्वयं निवर्तते, अत एव वकारः पठितः, प्रविरलप्रयोगविषयत्वादस्य, अन्तस्थानां पदान्तानां प्रायः प्रयोगानिष्टेः, यदाह
___ "नहि यणः पदान्ताः सन्ति" इति। वृक्षव् करोतीति व्यावृत्तिविषयोपदर्शनार्थमिति। टुडुजीनामादिभूतानामित्संज्ञा वक्तव्या, अन्यथा हुडु-पिडुङादीनामपि प्रसङ्गः, न वक्तव्या, कथम्? डान्तेषु पाठात्, शैलीयं शास्त्रकर्तृणाम्-यत् तज्जातीयाँस्तज्जातीयेषु पठन्ति। टुडुजीनां समुदाय एवानुबध्यते, समुदायस्य च संज्ञासंबन्धेऽवयवः पारतन्त्र्यादित्संज्ञां न लभत इत्युकारेकारयोरित्त्वाभावाद् “उदितः स्वरान्नोऽन्तः" (४.४.९८) इति नोऽन्तः (नोऽन्तः इत्यधिकमाभाति) “इडितः कर्तरि" (३.३.२२) इति टुवेपृङ्-वेपिता, जिफला-फलतीत्यादौ नागमात्मनेपदाभावः सिद्धः, अन्यथाऽत्रापि नागमाऽऽत्मनेपदे प्रसज्येते इति। न चायमु(दि)द्विधिः *कुम्भीधान्य* न्यायेन शक्यो वक्तुम्, तथाहि-यस्य हि कुम्भ्यामेव धान्यं नान्यत्रः स कुम्भीधान्य उच्यते धार्मिकः, यस्य तु तत्र चान्यत्र च नासावनेन शब्देनोच्यते; एवमत्रापि यस्य उदेवेद् नान्य इति, अन्यथा कम्पत इत्यत्राप्यप्रसङ्गः स्यात्; नह्यस्योदेवेदिति। एवं तर्हि नैवं तत्र विज्ञायते-उकार इद् यस्य सोऽयमुदित् तस्य उदित इति, किं तर्हि ? उकार इत् (उकार एव इत् उदित्) उदिता च धातुर्विशिष्यत इति तदन्तविधिः, उदिदन्तस्य धातोरित्यप्रसङ्गः; तात्मनेपदविधौ दोषः-अर्थणि अर्थयते, नह्यत्रेदिदन्तो धातुः, किं तर्हि ? णकारः, न चात्र धातुः संनिहितोऽस्ति। समुदायानुबन्धे च लिङ्गम्-टुनद उदित्करणम्, टुनदु नन्दथुः, जित्वरिष इकारकरणम्, जित्वरिष् त्वरते इति; अन्यथा पृथगुदित्करणं(ण)वैयर्थ्यप्रसङ्ग इति। तत्र डुलभिष् १, डुकुंग् २, डुपचीष् ३, डुयाग् ४, डुवपी ५, डुदांग्क् ६, दुधांग्क् ७, डुटु ग्क् ८, डुमिंग्ट् ९, डुक्रींग्श् १०-एते दश ड्वितः । ट्वोस्फूर्जा १, टुवेपृङ् २, टुभ्रासि ३, टुभ्लासृङ् ४, टुभ्राजि ५, टुवमू ६, ट्वोश्वि ७, टुक्षुक् ८, टुभृग्क् (टुडु,ग्क्) ९, टुडेंट् १०, टुमस्जोंत् ११-एते एकादश ट्वितः। शिक्ष्विदा १, त्रिफला २, जिमिदाङ् ३, जिक्ष्विदाड् ४, निष्विदाङ् ५, जित्वरिष् ६, जिष्वपंक् ७, जिभीक् ८, जिमिदाच् ९, जिष्विदाच् १०, जितृषच् ११, त्रिधृषाट् १२, जिइन्धैपि १३-एते त्रयोदश जीतः। ओवै १, ट्वोस्फूर्जा २, ओप्यायैङ् ३, ट्वोश्वि ४, ओहांक ५, ओहांगक् ६, ओव्रस्चौत् ७, ओविजैति ८, ओलजैति ९, ओलस्नैति १०, ओविजैप् ११, ओलडुण् १२-इत्येके, एते द्वादश ओदितः। औस्वृ १, औदित्। ऊबुन्दृग् १, ऊच्छ्रद्दपी २, ऊतृदृपी ३-एते ऊदितः। ट्धे १-टित्। एते चादीतः, अन्ये त्वन्त (त्वन्तेत) एव धातवः। दरिद्राक् १, जागृक् २, चकासृक् ३, ऊर्गुग्क् ४, ओलडुण् ५-एतान् चुराद्यदन्ताँश्च वर्जयित्वा शेषा एकस्वरा एव धातव इति। तेषां च वर्णक्रमेण पाठादतिरिक्ताऽवयवस्यानुबन्धत्वं विज्ञेयमिति नास्त्यतिप्रसङ्ग इति। दीधीकि १, वेवीकि २, चिरिट ३, जिरिट ४-एतानप्यनेकस्वरानिच्छन्त्येके। तकारादी(तकादी)नामकार इत्त्वपरित्राणार्थ इति ।।३७ ।।
__ ल.न्यास-अप्रयोगीत्यादि-प्रयोगः शब्दस्योच्चारणम्, सोऽस्यास्तीति प्रयोगी, न प्रयोगी अप्रयोगी इति संज्ञिनिर्देशः, इदिति च संज्ञेति। लौकिक इति-लोकस्य ज्ञाते “लोकसर्वलोकाज्ज्ञाते" (६.४.१५७) इतीकण् ।।३७।।
अनन्तः पञ्चम्याः प्रत्ययः ।१।११३८।। बृन्यास-अनन्त इत्यादि-पञ्चमीति प्रत्यय उच्यते, स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते, तया चार्थस्तद्विधिश्चेत्याह-पञ्चम्यर्थाद् विधीयमान इति। अत एव क्वचिद् “अजादे:” (२.४.१६) इत्यादौ षष्ठीनिर्देशेऽपि पञ्चम्याविरोधात् प्रत्ययत्वाविरोधः। स च वर्णस्तत्समुदायो वा भवतीति शब्द्यत इति कृत्वा शब्दशब्देनोच्यत इत्याह-शब्द इति। न चेदन्तेतियथा “उदितः स्वरानोऽन्तः" (४.४.९८) इत्यत्र हि नकारोऽन्तशब्दोच्चारणेन विधीयमानो न प्रत्ययसंज्ञां लभते। तत्रान्तग्रहणमन्तरेण प्रत्ययत्वं स्यात्, ततश्च प्रत्ययत्वात् ततः प्रत्ययोत्पत्तेरभावाद् 'नन्दन्त' (अनन्दत्) इत्याद्यसिद्धिः। ननु यद्येवं पञ्चम्यन्तात् परो