________________
परिशिष्ट-२
४१५ योऽनन्तो विधीयते, न चान्यस्य स्थाने स प्रत्यय इति स्पष्टं सूत्रं विधेयम्, अन्यथा युष्मदस्मदादेशलुगादयोऽपि पञ्चम्यन्ताद् विधीयन्त इति तेषामपि प्रत्ययसंज्ञा प्राप्नोति। यदि संज्ञिन एकीकृत्य संज्ञा क्रियेत, न स्यादि(द)तिप्रसङ्गः। यदि पुनगौरवपरिहाराय प्रत्यय इति अधिकारेण प्रत्ययविधानं क्रियते, तदा प्रकृत्युपपदोपाधिष्वपि प्रसङ्गः । न च, अधिकारे प्रतियोगं प्रत्ययोपस्थाने वाक्यभेदप्रसङ्गात् प्रकृत्यादीनां प्रत्ययत्वप्रसङ्गाभाव इति, तथाहि-हरतेर्धातोति-नाथाभ्यां कर्मभ्यां परात् पशौ कर्त्तरि इकारो भवतीत्येकं वाक्यम्, ते च ह-दृति-नाथ-पशवः प्रत्ययसंज्ञा इति द्वितीयं वाक्यम्; न चैकवाक्यतायां संभवन्त्यां वाक्यभेदो युक्त इति वाच्यम्, यतः सन्नादीनामपि वाक्यभेदेनैव संज्ञा विधेया, नह्यसतः संज्ञिनः संज्ञाविधानमुपपद्यते, तत्रैकेन वाक्येन सन्नादीनां विधिः, अपरेण तेषामेव संज्ञाविधिः, ततो यथा सन्नादीनां वाक्यभेदेन संज्ञाविधिस्तथा प्रकृत्यादीनामपि, प्रतिसंज्ञि प्रत्ययसंज्ञोपस्थानसामर्थ्याच्च संज्ञा-संज्ञिसंबन्धप्रतिपादनवाक्ये संज्ञासंबन्धप्रतिपत्तौ स्वार्थता स्यात्। यथा च वतण्डात् “स्त्रियां लुप्" (६.१.४६) इति प्रथमानिर्दिष्टस्य (यो) वाक्यभेदेन षष्ठ्यां सत्यां लुबुत्पत्तिस्तथा प्रत्ययसंज्ञाऽपि प्राप्नोति। उपाधिशब्देन चेह तुल्यन्यायात् (प्रत्ययनिमित्तत्वेन प्रकृत्या तुल्यन्यायत्वमित्यर्थः । एवं चोपाधिषु तदुद्भावनेनैव विशेषणेऽप्युद्भावितैवेति भावः।) विशेषणमप्युच्यते, क्वचित् तयोर्भेदेन व्यवहारो दृश्यते-*नोपाधिरुपाधेर्भवति विशेषणस्य वा विशेषणम् इति। यदाह
__अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः।
अनुपाधिरतोऽन्यः स्याच्छ्लाघादिविशेषणं यद्वद्" ।। इति। ननु भवतु प्रकृत्यादीनां प्रत्ययत्वं को दोषः? नहि संज्ञाप्रवृत्तिमात्रादेव दोषा भवन्ति, किन्तु तन्निमित्तकार्यप्रवर्तनात्, न च प्रकृत्यादीनां किञ्चित् तन्निमित्तं कार्य संभवति, परत्वं तावदवधिविशेषोपादानेन सन्नादिभिरेव प्रतिपन्नम्। न च सन्नादीनां गुपादीनां च परस्परापेक्षि परत्वं युज्यते विरोधात्। उपपदं चात्र “कर्मणोऽण्” (५.१.७२) इत्यादिरूपं गृह्यते पूर्वैः, तस्य च समासे सति पूर्वनिपातेन भाव्यमिति परत्वाभावः। उपाधि(धे)रपि पौर्वापर्यस्य लौकिके प्रयोगे नियमाभावात्, स्थितस्यैव हि परत्वस्य शास्त्रेणानुवादात्, शास्त्रस्य विधायकत्वाभावादनुवादकत्वादर्थस्य चोपाधित्वात् तस्य च परत्वासंभवात् परत्वाभावः, नैवम्-प्रकृत्यादीनां प्रत्ययत्वे परत्वादिदोषः, तथाहि-प्रकृति-प्रत्यययोः (पर्यायेण) परस्परापेक्षं परत्वं स्यात्, यदि वा शब्दान्तरापेक्षं प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्येति, उपपदस्यापि परत्वात् “प्रथमोक्तं प्राक्" (३.१.१४८) इति राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, (भोक्तुं व्रजतीत्येव च नित्यं स्यात्, न तु व्रजति भोक्तुमिति) उपाधिवाचिनोऽप्यनियमे प्राप्तेऽयं नियमः (प्राप्ते 'परः' इति नियमः) स्याद्*यः प्रत्ययः स परः* इति परिभाषणात्। विधानापेक्षायां तु प्रत्ययसंज्ञायां न दोषः, प्रकृत्यादीनामविधीयमानत्वात्। अधिकारेऽपि तर्हि न भविष्यति, प्रकृत्यादीनां भूतविभक्त्या (सिद्धत्वबोधकविभक्त्या) निर्देशात् सन्नाद्युत्पत्तौ निमित्तभावेनोपादानात् पारार्थ्यात् स्वसंस्कार प्रति प्रयोजकत्वाभावाद् दोषाभावः, यतो निमित्तानि निमित्तकार्यार्थानि भवन्ति। तत्र वाक्यभेदेनापि विधीयमाना प्रत्ययसंज्ञा सन्नादिभिरेव संबध्यते, तेषामेव निमित्तत्वात् तां प्रति प्रयोजकत्वात् संज्ञासंबन्धप्रतिपत्तियोग्यविभक्तिनिर्देशाद् द्वयोश्च परस्पराकाङ्क्षायां संबन्धाद्, न त्वन्यतराकाङ्क्षायां सीता-रावणयोरिवेति सत्यामपि संज्ञाया आकाङ्क्षायां प्रकृत्यादीनां शेषत्वाद् (विशेषणत्वाद्) अनाकाङ्क्षत्वात् संज्ञासंबन्धाभावः। नित्यत्वाच्छब्दानां निमित्त-निमित्तिभावो न संभवतीति न वाच्यम्, प्रतिपादकानां शब्दानामुपायभावेन शास्त्रेण व्यवस्थापनात् तदनुगुणविभक्तिनिर्देशादस्ति निमित्त-निमित्तिभावः। लोकेऽपि बहुष्वासीनेषु कश्चित् कञ्चित् पृच्छति-कतरो देवदत्तः? कतमो यज्ञदत्तः? इति, स आह-(योऽश्वे यः पीठ इति) 'योऽश्वे यश्च पीठे' इत्युक्ते निमित्तस्य निमित्तिकार्यार्थत्वादध्यवस्यति-अयं देवदत्तोऽयं यज्ञदत्त इति, नेदानीमश्वस्य पीठस्य वा देवदत्त इति संज्ञा भवति, प्रधाने कार्यसंप्रत्ययाद् वा, प्रत्ययसंज्ञा स्वविषयप्रक्लृप्तये प्रधानमपेक्षते, न तु पारनन्त्र्यादप्रधानमिति, यथा लोके बहुषु यात्सु कश्चित् कञ्चित् पृच्छति को यातीति?, स आह-'राजा' (इति, 'राजा') इत्युक्ते प्रधाने कार्यसंप्रत्ययाद् यश्च पृच्छति यश्च कथयति उभयो राज्ञि संप्रत्ययो भवति। भवतु राज्ञः प्राधान्यं तदधीनस्थितित्वादन्येषाम्, इह तु किंकृतं शब्दस्य प्राधान्यम्? प्रयोजनकृतमिति ब्रूमः, यस्यापूर्वोपदेशस्तस्यैव