________________
४२०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન प्राधान्यं तदर्थत्वात् प्रकृत्यादीनाम् ; उपदिष्टाश्च प्रकृत्युपपदोपाधयो धातूपदेशे नामोपदेशे च। यद्येवं निमित्तस्य निमित्तिकार्यार्थत्वाद अथापि (यद्वा) प्रधाने कार्यसंप्रत्ययात् प्रकृत्यादीनां न भवति, विकारागमानां तु प्राप्नोति "त्रपुजतोः षोन्तश्च" (६.२.३३) इति। अपूर्वश्चैषामुपदेशो निमित्तिनश्चै(वै)त इति, ननु ये तावत् प्रकृतेर्विकारागमास्ते प्रकृत्यनुप्रवेशात् प्रकृतिवत् संज्ञया (न) संभन्त्स्यन्ते, ये तु प्रत्ययस्य ते तद्ग्रहणेन गृह्यन्ते एवं (एवेति) नास्त्यनिष्टप्रसङ्गः। नैतदस्ति-प्रकृति-विकारा-ऽऽगमाणां तत्संबन्धेऽपि प्रयोजकत्वात् (प्रयुज्यत इति प्रयोजक: प्रयोज्यस्तस्मात् निमित्तित्वादित्यर्थः) प्रधानत्वात् तु(च) स्यादेव प्रत्ययसंज्ञा। प्रत्ययसंबन्धिनामपि तदवयवत्वे सिद्धे पृथक् प्रत्ययसंज्ञा स्यादेव योग्यतासद्भावात्। न च यः परः स प्रत्ययः, न च विकारागमाः परे, तेन तेषां प्रत्ययसंज्ञा न भविष्यतीति वाच्यम्, यतो न परत्वनिमित्ता प्रत्ययसंज्ञा, अपि तु प्रत्ययसंज्ञानिमित्तं परत्वम्, तथा च श्रबहकानां प्रत्ययसंज्ञा भवति, नैवम्-विकारागमाणां प्रयोजनाभावात् प्रत्ययसंज्ञा न भविष्यति, तथाहि-परविज्ञानं संज्ञायाः फलम्, तत् तेषां न संभवति, षष्ठ्या अन्तग्रहणेन च स्थानसंबन्धस्यावयवसंबन्धस्य च प्रतिपादनात्। भवतु वा परत्वमेव प्रत्ययसंज्ञायाः प्रयोजनम्, तथापि तयोः स्थाननिर्देशेन विधानाद् विरोधात् परत्वाभावः, पञ्चमीनिर्दिष्टाद् वा प्रत्ययो विधीयते, पञ्चमीनिर्देशे पर्यायेण पूर्वत्वपरत्वयोः प्राप्तयोः, “परः" (७.४.११८) इत्यनेन परत्वं नियम्यत इति नास्ति कश्चिद् विरोधः। अथवा, अन्वर्थसंज्ञाश्रयेणार्थवतः संज्ञाविधानाद् विकाराऽऽगमयोश्चानर्थकत्वात्, प्रत्ययसंज्ञाया अभावः, लघ्वर्थं हि संज्ञाकरणम्, 'प्रत्ययः' इति महती संज्ञा क्रियते, तत्करणे एतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत-प्रत्याययतीति प्रत्ययः, महत्त्वात् प्रत्ययशब्दस्याऽऽवृत्तिरनुमीयते, तेन यः प्रत्यायक: स प्रत्यय इत्यर्थः सिद्ध्यति। यद्येवं कादीनां प्रत्ययसंज्ञा न प्राप्नोति, नहि ते किञ्चित् प्रत्याययन्ति, अन्वय-व्यतिरेकाभ्यां कादिप्रत्ययवाच्यस्यार्थस्यानवधारणात्, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमाद्, नापि तरत्वादिवत् कश्चिद् द्योत्योऽर्थः। यदप्युच्यते *अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति* इति प्रकृत्यर्थ एव तेषामर्थ इति, तदपि कल्पनामात्रम्-सत्यर्थवत्त्वे प्रत्ययसंज्ञया भवितव्यमित्यवि(भि)हिते तदभावेप्य(स्वार्थावगमादर्थवत्वं कादीनां नोपपद्यते इत्युक्तेऽस्य(क्तस्य) दुरुत्तरत्वात्। एवं तर्हि प्रत्याय्यते यः स प्रत्ययः, अभिधेयधर्मस्याभिधाने उपचारादेवमुच्यते, ततश्चायमर्थः-यस्यार्थः प्रकृत्या प्रत्याय्यते स प्रत्याय्यमानार्थत्वात् प्रत्याय्यमानः स्वार्थिकः प्रत्ययसंज्ञो भवति। एवमपीच्छार्थसनादीनां न प्राप्नोति, नहि ते इच्छायां विधीयमानाः सनादयः प्रकृत्या प्रत्याय्यमानार्थाः । एवं तर्हि प्रत्ययशब्दः कर्तृसाधन-कर्मसाधनश्च एक एव शब्दोऽनेकशक्तियोगादङ्गीकृतप्रवृत्तिनिमित्तद्वयोऽङ्गीक्रियते। तत्र यथासंभवं निमित्ताश्रयणेन सन्नादीनां कादीनां प्रत्ययसंज्ञा प्रवर्तते। ण्यन्तस्य च निपातनादचि णिलुप्। ननु समानेऽप्यपूर्वोपदेशे त्रापुषं जातुषमित्यत्र प्रत्ययस्तदर्थं प्रतिपादयति नागम इति कुतः?, उच्यते-प्रत्ययस्यागममन्तरेणापि अन्यत्र प्रयोगान्तरेऽर्थवत्त्वावगतिः, आगमस्य तु प्रत्ययमन्तरेण प्रयोगाभावादन्वय-व्यतिरेकाभ्यामर्थवत्त्वं नावधार्यत इत्यनर्थकत्वमुच्यत इत्यधिकारेऽपि सिध्यति, सत्यम्-पक्षत्रयेऽपि सिध्यति, केवलं गौरवं सूत्रभेदश्च स्यादिति यथान्यासमेवास्तु। अन्वर्थसंज्ञाश्रयणेष्वनन्त इत्यनुवादकम्। पञ्चमीनिर्देशाञ्च विधिशब्दाध्याहारः, निर्दिष्टशब्दाध्याहारे तु तृतीयया निर्देशः स्याद् यथा-"पञ्चम्या परस्य" इति ("पञ्चम्या निर्दिष्टे परस्य") (७.४.१०४) इति) युष्मदादेशास्तु स्थितस्य परस्य विधीयन्ते ।।३८।।
ल.न्यास-अनन्त इत्यादि-न विद्यतेऽन्तशब्दो वाचकोऽभिधायको यस्य स तथा। पञ्चमीति प्रत्ययोऽभिधीयते, स च प्रकृत्यविनाभावीति तेन प्रकृतिराक्षिप्यते, तथा चार्थ इत्याह-पञ्चम्यर्थादित्यादि। शब्द इत–स च शब्दो वर्णस्तत्समुदायो वा भवति, शब्द्यत इति कृत्वा शब्दशब्देनोच्यत इति। ननु नागमस्य प्रत्ययत्वे को दोष इति? सत्यम्-'अनन्दत्' इत्यादौ नागमेन धातोः खण्डितत्वाद् 'नन्द्' धातोः प्राक् "अड् धातो०" (४.४.२९) इत्यडागमो न स्यात्। अथ अरुणद्' इत्यादौ श्रप्रत्ययवत् *तन्मध्यपतितस्तद्ग्रहणेन गृह्यते* इति भविष्यति, तर्हि अस्य न्यायस्यानित्यत्वज्ञापनार्थमन्तग्रहणम्, तेन यका सका इत्यादौ इत्वप्रतिषेधः सार्थकः, कस्य प्रकृत्यवयवत्वे त्वित्वप्राप्तिप्रसङ्ग एव न स्यात्। तथाऽन्तग्रहणाभावे लाङ्काकायनिरित्यत्र “चमिवमि०" (६.१.११२) इत्यायनिजि कागमे तस्य प्रत्ययत्वे "डयादीदूतः के" (२.४.१०४)