________________
४२१
परिशिष्ट-२ इत्यनेन ह्रस्वः स्याद् इति। तथाऽन्तग्रहणाभावे पञ्चम्यर्थाद् विधीयमानत्वेनाऽऽगमस्यापि *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* इति न्यायात् 'प्रेण्वनम्' इत्यादावेव “वोत्तरपदान्त०" (२.३.७५) इत्यनेन णत्वं स्यात्, न तु 'भद्रबाहुना कुलेन' इत्यादौ "अनाम् स्वरे०" (१.४.६४) इति षष्ठ्यन्ताद् विधीयमानस्य प्रत्ययत्वाभावात्। अपरञ्च-"ऋत्तृष-मृष०" (४.३.२४) इत्यत्र "श्रथुङ् शैथिल्ये" इत्यस्य *प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव* इति न्यायेन नाऽऽगमस्य प्रत्ययत्वे सत्येव ग्रहणं स्यात्, न तु “श्रन्थश् मोचन-प्रतिहर्षयोः" इत्यस्य तस्मादन्तग्रहणं विधेयम्। उभयथाऽपि पञ्चम्यां सम्भवन्त्याम् “परः" (७.४.११८) इति परिभाषया प्रत्ययो नियन्त्र्यते-प्रकृतेः पर एवेति। तर्हि स्वरात् पूर्वो नोऽन्त इत्यपि कथं न लभ्यते? इति चेत्, सत्यम्-“नो व्यञ्जनस्या०" (४.२.४५) इत्यत्रानुदित इति भणनात्, अन्यथोपान्त्यत्वाभावात् प्राप्तिरेव नास्तीति ।।३८ ।।
प्रथमाध्याये प्रथमपादीयचरमसूत्रचतुष्कस्य द्वितीयपादस्य च
सकलस्य शब्दमहार्णवन्यासस्त्रुटितः।।
श्रीसिद्धहेमचन्द्रमशब्दमहार्णवन्यासस्य त्रुटिताऽत्रुटितविभागोपदर्शकं
: स्थूलयन्त्रम् ::
अध्यायाङ्कन
पादाङ्कः
अध्यायाङ्क
पादाङ्क:
न्या० | न्या० | न्या० | न्या०
न्या०
न्या० । न्या०
* एतचिह्नाङ्कितपादोपरि बृहन्यास उपलभ्यते। न्या० त्रुटितसूत्रपादाः श्रीलावण्यसूरिभिः त्रुटितन्यासानुसन्धाननाम्ना न्यासेन संपूरिताः।
एतचिह्नस्थलीयपादानां बृहन्यासः सर्वथा त्रुटितः। * एतचिह्राङ्कितपादयोद्धृहन्न्यासः हस्तलिखितप्रतिष्वेवोपलभ्यते।
(A)
अत्र चतुर्णां सूत्राणां बृहन्न्यासस्त्रुटितः, तेषां न्यासानुसन्धान उपलभ्यते।