________________
।।३।।
।।५।।
४२२
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન डत्यतु सङ्घयावत् ।१।१।३९।। :: अथ बृहन्यासानुसन्धानम् ::
अर्ह श्रीमत्तपोगच्छाधिपतिश्रीविजयनेमिसूरीश्वरपट्टालङ्कार-श्रीविजयलावण्यसूरिनिर्मितं
त्रुटितशब्दमहार्णवन्यासानुसन्धानम्प्रणम्य श्रीवीरं त्रिभुवननतं सार्ववचनं जयन्तं रागादीनधिगतसमस्तार्थनिकरम्। तथा जैनी वाणी निजगुरुवरं नेमिमतुलं क्षमापालालीभिर्महितचरणं सूरिप्रवरम् ।।१।। श्रीहेमचन्द्रप्रभुना प्रणीतं न्यासं निरीक्ष्य त्रुटितं महार्थम्।। त्रुटिस्थले सन्धिमितः परस्ताल्लावण्यसूरिविदधाति किञ्चित्
।२।। क्व हेमचन्द्रप्रभुवाग्विलासः? क्व मादृशो मन्दधियः प्रयासः? । विदन्तु विज्ञा गुरवस्तथाऽपि यैः प्रेरितः कार्यमिदं करोमि यद्वा न चास्तीह प्रगल्भता मे कुविन्दबालस्य यथैव वाने। आदाय तत्सूत्रविशेषलेशाँस्तदीयशिल्पेन वितन्वतोऽमुम्
।।४।। किं चन्द्रगुप्ताभिधराजमात्रा न पूरितो दोहद इन्दुपाने?।
आसाद्य चाणक्यप्रसादमत्र तथाऽनुगृह्णातु गुरुप्रसादः बृन्यास-डत्यत्वित्यादि। डत्यतु इति-डतिश्च अतुश्चेत्यनयोः समाहार इति द्वन्द्वे डत्यतु, यद्वा-डति अतु इति व्यस्तमेव, सौत्रत्वादुत्पन्नाया विभक्तेलुकि सन्धौ च डत्यतु। इमौ प्रत्ययौ, प्रत्ययस्य च प्रकृतिमाश्रित्यैवात्मलाभात् प्रकृत्यविनाभावित्वम्, तथा च प्रकृत्यविनाभाविना प्रत्ययेन प्रकृतिराक्षिप्यते ततश्च “प्रत्ययः प्रकृत्यादेः” (७.४.११५) इति तदन्तविधौ"अधातु०" (१.१.२७) इति नामत्वादाह-डतिप्रत्ययान्तमतुप्रत्ययान्तं च नामेति। डतौ डकारोऽनुबन्धः, स च खलतिप्रभृतीनामौणादिकाऽतिप्रत्ययान्तानामतिप्रसङ्गनिरासार्थः, अभ्युपेयते हि व्युत्पत्तिपक्षोऽप्युणादीनाम्। 'अतु' इत्यत्रोकारानुबन्धस्तु स्पष्टमिष्टप्रतिप्रत्त्यर्थः, तदनुबन्धविरहे शत्रन्तादावतिप्रसङ्गस्तु नोद्भावनीयः, डतिना साहचर्यात् तद्धितस्यैवाऽतो ग्रहणात्। तथा चानुबन्धमुक्तस्य 'अत्' इत्यस्य निर्देशे तकारे उच्चारणार्थकत्वमपि सम्भाव्येत, सम्भाव्येत च अप्रत्ययान्तं नाम सङ्घयावद् भवतीत्यर्थः, स चाव्याप्त्यतिव्याप्ती सृजेदिति तद्भूमावर्ते मा स्म कोऽपि परिपतदिति युक्तस्तदनुबन्धः ।
___ यद्वा-अनुबन्धविरहे तकारस्योञ्चारणार्थत्वाभावेऽपि अव्याप्तिः पदं मा निधात्, परं पञ्च परिमाणं यस्य स पञ्चत् वर्गः, एवं दशत् वर्ग इत्यादौ तद्धिताऽत्प्रत्ययान्तेऽतिव्याप्तिः कथङ्कारमवरुद्धयेतेति सफल एवोकारानुबन्धनिर्देशोऽपि।।
सङ्ख्यावदिति-संपूर्वात् ख्याते: “उपसर्गादातः” (५.३.११०) इत्यङि सङ्घयेति, सङ्ख्या इवेति सङ्ख्यावत्, “स्यादेरिवे" (७.१.५२) इति वति “वत्तस्याम्” (१.१.३४) इत्यव्ययत्वे “अव्ययस्य" (३.२.७) इति विभक्तिलुप्। *यत्रान्यत् क्रियावाचि पदं न श्रूयते तत्राऽस्तिर्भवन्तीपरः प्रयुज्यते* इति वचनात् क्रियापदमध्याहरति-भवतीति। सङ्ख्याशब्दो हि भावे कर्तृभिन्नकारके च व्युत्पादितः, तस्य च रूढिसंवलितयोगशक्त्या विचारणाद्यनेकार्थकत्वमस्तीति कीदृशार्थकस्यात्र ग्रहणमित्याकाङ्क्षायामाहएकट्यादिका लोकप्रसिद्धा सङ्घयेति-एक-व्यादिकेति बहुव्रीहिसमासः, सङ्ख्या च अन्यपदार्थः, सङ्ख्याशब्दोऽत्र एकत्व-द्वित्वादिरूपसङ्ख्यापरः, लक्षणया सङ्ख्यावाचकपरो वा। “सङ्ख्या त्वेकादिका भवेत्" (अभिधानचिन्ता० का०३, श्लो० ५३६) इत्यादावनेकत्र भगवता हेमचन्द्राचार्येण, “सङ्ख्याः सङ्खयेये ह्यादश त्रिषु" (अमरकोश द्वि० का० वै० वर्गे श्लो० ८३) इत्यत्र अमरसिंहेन,