________________
परिशिष्ट - २
૪૧૭ तत्रोपलभ्यमानस्य रूपद्वयदर्शनाद् वृक्षे शाखा- बलाकयोरिव, वृक्षस्य हि शाखाऽवयवो बलाका (उप) लक्षणम्, उच्यते-उभयथाऽऽचायेणा(चार्याणां) प्रवृत्तेरुभयं भवति, यस्तत्रैवोपलभ्यते सोऽवयवः, तत्रैवोपलभ्यतेऽयमिति, अनवयवस्तु तत्र चान्यत्र च बलाकावत्। न च वकारस्य वनव्रण-वृक्षादिषु बहुषूपलभ्यमानस्याप्यवयवत्वादनेकान्तत्वाशङ्का, भिन्नसमुदायविषयवर्णान्तरत्वाद् वकारस्य, सादृश्यात् तु प्रत्यभिज्ञानम् । तत्रास्वरूपप्रत्ययविधौ दोषः, "कर्मणोऽण्” (५.१.७२) “आतो डोऽह्वावामः” (५.१.७६) इति विषये वैरूप्याद् अणोऽपि समावेशप्रसङ्गः, “निजां शित्येत्" (४.१.५७) इत्येतो ऽनेकवर्णत्वात् सर्वादेशप्रसङ्गश्च प्राप्नोति । दैवो वित्करणमनर्थकम्, तद्धि दासंज्ञाप्रतिषेधार्थं क्रियते, अनाकार (रान्त)त्वात् प्रसङ्ग एव नास्ति । नन्वात्वे कृते भविष्यति, तद्धि आत्वं न प्राप्नोति, असन्ध्यक्षरान्तत्वात् । अनवयवत्वे तूभावप्यकारौ इति सारूप्यादसमावेशः, एकवर्णत्वादन्तादेशश्च सिध्यति, ऐकारान्तत्वादात्वं च। अस्तु तर्हि अनवयवः । कार्यलक्षणाय (कार्यप्रवृत्तये ) हि केवलमनुबन्ध उपादीयते, न तु तस्यावयवः । तत्राप्यनेकान्तत्वे क इद् यस्येति संबन्धाभावाद् बहुव्रीह्यभावः । किं हि स ( इत्) तस्य भवति ? येन तत्कृतानि तस्य किति ङितीति कार्याणि स्युः। अनुबन्धानन्तरं कार्यभावादानन्तर्यसंबन्धश्चेत्, नैवम्-आनन्तर्यार्थे बहुव्रीहेरभावात्, नहि तस्मादानन्तर्यं प्रतीयते इत्यर्थासामर्थ्याद् बहुव्रीह्यभावः। वचनसामर्थ्याद् (सौत्रत्वाद्) भविष्यतीति चेत्, यद्येवं पूर्व-परयोरित्कृतं प्राप्नोति “भवतोरिकणीयसौ" (६.३.३०) इत्युभयपाठानन्तरमित्त्वात्, नैष दोषः - व्याख्यानाद् इकण् ईयस् इति विच्छिन्नयोः पाठः कर्तव्यः, ततः पूर्वस्यैवा (साव) नन्तरो न तु परस्य, कालव्यवायात्, तथा परस्यैवानन्तरो न पूर्वस्येति । स चावश्यं कर्तव्यः, इतरथा अक्रियमाणे विच्छिन्नपाठे एकान्तेऽपि सन्देहः स्यात्-(तत्र) न ज्ञायते पूर्वस्य भवत्याहोस्वित् परस्येति, सन्देहमात्रमेतद् भवति । सर्व(त्र) सन्देहेषु चेदमुपतिष्ठते *व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति पूर्वस्येति व्याख्यास्यामः, यत एकान्तपक्षे एकोऽवयवो द्वयोर्न संभवतीति सन्देहे व्याख्यानान्निश्चयः । अनेकान्तेष्वानन्तर्यस्योभयापेक्षस्य विरोधाभावाद् व्यवस्थित पाठ एव कर्तव्य इति । प्रयोगज्ञत्वाद् वाचार्याणां तं तं प्रयोगं दृष्ट्वा तांस्ताननुबन्धानासजन्ति, युक्तं ह्येतद् यत् प्रयोगनिमित्तकेनानुबन्धेन भवितव्यम्, न पुनरनुबन्धनिमित्तकेन प्रयोगेणेति। ननु भवतु नामाचार्याः प्रयोगज्ञाः, शिष्यास्तु कथं प्रतिपद्यन्ते ? आचार्यप्रवृत्तेरेवेति । उभयमिदमनुबन्धेषूक्तम् *एकान्तः *अनेकान्तः इतिः *एकान्तः इति तु युक्ततरम्, अत्र हि हेतुरुपन्यस्तः; यत् तु नाम सहेतुकं तन्त्र्यायम् । तथा "मेङो वा मिद्" (४.३.८८) इति तदवयवं दृष्ट्वा आत्वं नाकार्षीत् । असरूपविधावपि न दोषः, आचार्यप्रवृत्तेरेव, तथाहि - यदयं “ वा ज्वलादि दु-नी-भू-ग्रहास्त्रोर्णः” (५.१.६२ ) इति वा ग्रहणं करोति, तद् ज्ञापयति-नानुबन्धकृतमसारूप्यं भवति समावेशे हि अचान च सिध्यति किं वाग्रहणेन? क्रियमाणं तु ज्ञापनाय भवति । सर्वादेशेऽपि न दोषः, यदयम् "अनक्” (२.१.३६) इति प्रथमया निर्द्दिशति तद् ज्ञापयति-नानुबन्धकृतमनेकवर्णत्वं भवति, अन्यथा षष्ठ्या अप्यनेकवर्णत्वात् सर्वादेशः सिद्ध्यति । असन्ध्यक्षरान्तत्वमपि नानुबन्धकृतं भवति, तत एव यदयम्- "नेर्मा-दा-पत-पद० " (२.३.७९) इत्यत्र मेङोऽपि ग्रहणार्थं ङकारं पठति, अन्यथा हि माङ एव ग्रहणं स्यात् । न च लोपे सति मेङ आत्वे सति प्राप्नोति, चेति (चे चेति) इतिवल्लाक्षणिकत्वेन तदभावाद् (?)। अथ विशेषानिर्देशाद् "भू सत्तायाम्" इत्यादीनां धातूनामपीत्त्वं कस्मान्न भवति ? कार्याभावादिति ब्रूमः । नन्वस्ति " ऊदितो वा " (४.४.४२) इत्यादि, नैवम्- 'एकस्वराद्' इति तत्रानुवृत्तेः, आचार्यप्रवृत्तेर्वा, तथाहि आचार्याः स्वरान्तान् स्वरान्तेषु पठन्ति व्यञ्जनान्तान् व्यञ्जनान्तेषु इति तेषां स्वरस्य व्यञ्जनस्य च नेत्त्वमिति । दरिद्रातेस्तर्हि प्राप्नोति, ननूक्तमित्कार्याभावान्न भविष्यति । नन्विदमप्युक्तम्-" आदितः” (४.४.७१ ) इत्यस्तीति, नन्विदमप्युक्तम्- 'एकस्वराद्' इति तत्र वर्त्ततेऽनेकस्वरश्चायमिति । जागर्तेस्तहिं ऋदित्त्वप्रसङ्गः, तदपि न-"जागुर्जि णवि० " (४.३.५२) इत्यत्र वृद्धिनियमाद्, ऋदित्त्वे हि वृद्धेः प्रसङ्ग एव नास्ति किं नियमेनेति ? । चकासोऽपि सकारस्य न भवति कार्याभावात् । आशासोऽपि तत एव न भवति । क्विबादीनां तु ककार पकारयोः कार्यार्थत्वेनेत्त्वादभावोऽस्तु, तदुच्चारणार्थमुपात्तस्य कृतकार्यत्वान्निवृत्तिः, यतोऽप्रयोगशब्देन शास्त्रमभिधीयते; वकाराभावे तु कस्यायमित् स्यादित्यप्रयोगिशब्दाभिधेय एव न स्यादिति क्विबादीनां च वकारोऽनुबन्धसंज्ञानार्थम्, तस्याभावे कस्यासावित स्यात्, प्रत्ययत्वमप्यस्यैवं