________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
“उपादायापि ये हेयास्तान् योगान् प्रचक्षते" (तानुपायान् प्रचक्षते ) इति हि तल्लक्षणम् । यदि वा एकशेषस्य निर्देशाद् लोपस्य सिद्धिः, तथाहि-एत्यपगच्छति कार्यं विधायाभावं प्राप्नोतीति इत्, ततोऽयमर्थः योऽप्रयोगी स इत्संज्ञो भवति, स चापगच्छतीति लोपस्यापि सिद्धिः, अत एव वृत्तावुक्तम् - एत्यपगच्छतीति । अथवा, अयनमपगमनमभावः, स च भावोपाधित्वादित्संज्ञकस्यैव (दर्शनाभावरूपो लोपः, दर्शनस्य च सविषयत्वात् शब्दशास्त्रत्वात् शब्द एव विषयः । किञ्च - 'भावविरोधी' इत्यभावपदस्यार्थः, एवं भावोपाधिरेव स भावप्रतियोगिक एव स इति भावः) । प्रथमानिर्देशाच्च सर्वस्यैव नाऽन्तस्येति “त्रिमिदाच् स्नेहने" इत्यादीनामप्यभावः । (येऽनेकवर्णा इत्संज्ञकास्तेषां लोपः सर्वादेशो भवतीति ज्यादादीनामप्यभावः) । तन्त्रेण चोभयस्वीकारः, यदेकमावृत्तिभेदमन्तरेण नैकस्योपकारं करोति प्रदीप इव सुप्रज्वलितश्छात्राणां तत् तन्त्रम् ; इह तु प्रयत्नविशेषस्तन्त्रशब्देन विवक्षितः, एतेन तन्त्रेण द्वितीयमिहेद्ग्रहणमुपात्तं वेदितव्यम्, यथा- 'श्वेतो धावति' इत्येकेनैवं प्रयत्नेन द्वे वाक्ये उच्चारिते, एवमिहाप्येकप्रयत्नेन द्वाविच्छब्दावुपात्ताविति । अथवा यो यस्यानवयवः स तस्येत्संज्ञः, स चाप्रयोगी भवतीत्युभयसिद्धिः । न च सूत्रे भेदः, एवं हि वक्ष्यामि-'अप्रयोगीदनन्तः' ( १.१.३७) ततः “पञ्चम्याः प्रत्ययः " (१.१.३८) इति, अत्र चानन्त इति वर्तते, तत्र चायमर्थः - अम्यते आश्रीयतेऽसौ धर्मिणेत्यन्तोऽवयवः, तत्प्रतिषेधेन अनवयवः अनेकान्ता अनुबन्धाः इत्युक्तत्वात्; संबन्धिशब्दाविमौ - अवयवोऽनवयवश्च ततोऽन्यैः संबन्धिशब्देस्तुल्यमेतद्, यथा संबन्धिशब्दाः - 'मातरि वर्तितव्यम्', 'पितरि शुश्रूषितव्यम्' इति, न चोच्यते 'स्वस्यां मातरि', ‘स्वस्मिन् पितरि' इति, संबन्धिशब्दत्वाद् गम्यते- 'या यस्य माता', 'यश्च यस्य पिता' इति, एवमिहापि यं प्रति योऽनवयवस्तं प्रति स इत्संज्ञ इति ‘यस्य तस्य' इति लाभ इत्यनवयवत्वादेव तस्याभावः सिद्धः । यद्येवमितो लोपे णव् - क्त्वा - क्त- क्तवतुषु लोपाप्रसङ्गः; अहं पपच, देवित्वा, शयितः, शयितवान् ; प्रतिषिध्यते ह्यत्रेत्संज्ञा, “णिद् वाऽन्त्यो णव्" (४.३.५८) इति (अन्त्यो णव्) द् िवा भवति, “क्त्वा" (४.३.२९) (इति) सेट् (क्त्वा) न किद् वद् भवति, "न डी- शीङ् ०" (४.३.२७) इत्यादिना क्तौ सेटौ कितौ न भवतः, इत्संज्ञाप्रतिबद्धश्च लोप इति उच्यते-नैषामित्संज्ञा प्रतिषिध्यते, अपि तु तत्प्रतिबद्धं कार्यम्, अन्त्यो णव् णिद्ग्रहणेन (वा) न गृह्यते, क्त्वा-क्त-क्तवतवः किद्ग्रहणेन न गृह्यन्ते । अथवा, एकत्वान्निर्द्देशस्यैतदेव प्रयोजनम् - यस्येत्संज्ञा तस्य लोपो भवति सम्प्रति इत्त्वाभावेऽपि, अन्यथा सू(तु) भिन्नमेव सूत्रं कुर्यात् । न च वक्तव्यम् - यथा कश्चिद् वक्ति घटोऽस्तीति पुनश्च नास्तीति तथाऽनुबन्धानामुच्चारणाद् भावानुज्ञानं लोपाभ्यनुज्ञानाच्चाऽभावानुज्ञेति भावाऽभावयोर्विरोधादप्रामाण्यप्रसङ्गः, यतो न ज्ञायते केनाभिप्रायेण (प्रसजति केन) निवृत्तिं करोतीति; भावो हि कार्यार्थः, कार्यं करिष्यामीत्यनुबन्ध आसज्यते, अनन्यार्था च लोपाभ्यनुज्ञा, कार्यादन्यन्मा भूदिति लोपोऽभ्यनुज्ञायते इति । तत्र यथोत्सर्गापवादन्यायेनाऽणं को बाधते, एवं कार्ये चरितार्थमुच्चारणात् प्राप्तं भावमनन्यार्थं(था) लोपाभ्यनुज्ञा बाधत इति भिन्नविषयत्वान्न विरोधः, अत आह— अस्य प्रयोगाभावः सिद्ध इति । उपदेशफलमाहउपदेशस्त्वित्यादि-निगदसिद्धम् । “एधि वृद्धौ” इकारः “इङितः कर्त्तरि" (३.३.२२) इत्यात्मनेपदार्थः, तेप्रत्यये शवि च एधते । "शीङ्क् स्वप्ने” (ङकार आत्मनेपदार्थः । ते प्रत्यये) "शीङ ए: शिति" (४.३.१०४) इत्येकारे शेते । "यर्जी देवपूजा-सङ्गतिकरण-दानेषु” ईकारः “ईगितः " (३.३.९५) इति फलवत्यात्मनेपदार्थः, यजते, यजति । “चिंग्ट् चयने" (गकारः फलवत्यात्मनेपदार्थः) "स्वादेः श्रुः” (३.४.७५) इति श्रुविकरणात् तस्य च तिवि “उश्नोः" (४.३.२) इति गुणे चिनुते, चिनोति । ("कण्डूग् गात्रविघर्षणे” अतः) "धातोः कण्ड्वादेर्यक्" (३.४.८) इति यकि शवि " लुगस्यादेत्यपदे" (२.१.११३) इत्यकारलोपे च कण्डूयते, कण्डूयति। “टुदुंट् उपतापे” दवनम् “ट्वितोऽथुः” (५.३.८३) इति अथौ दवथुः । 'भू सत्तायाम्" तिवि प्रत्ययेऽस्य शित्त्वाच्छवि तस्य च वित्त्वात् “शिदवित्”" (४.३.२०) इति ङित्त्वाभावात् "नामिनोः०" (४.३.१) (इति) गुणे भवति । चक्षिकः - "चक्षो वाचि क्शांग् ख्यांग्” (४.४.४) इति ख्याऽऽदेशे तस्य च गित्त्वाद् “ईगित:" (३.३.९५) इति फलवत्यात्मनेपदे (व्याख्यातासे) व्याख्यातासि। “पां पाने” थवि “स्कसृ-वृ-भृ-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः " (४.४.८१) इति इटि द्वित्वे पूर्वस्य ह्रस्वत्वे इट् द्वित्वाद् (इटष्टित्वात्) "इडेत्पुसि चातो०" (४.३.९४) इत्याकारलोपे पपिथेति । ननु यस्यानुबन्ध आसज्यते तस्यासावयव उत उपलक्षणम् ?,
1
૪૧૬