Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 440
________________ परिशिष्ट - २ ૪૧૭ तत्रोपलभ्यमानस्य रूपद्वयदर्शनाद् वृक्षे शाखा- बलाकयोरिव, वृक्षस्य हि शाखाऽवयवो बलाका (उप) लक्षणम्, उच्यते-उभयथाऽऽचायेणा(चार्याणां) प्रवृत्तेरुभयं भवति, यस्तत्रैवोपलभ्यते सोऽवयवः, तत्रैवोपलभ्यतेऽयमिति, अनवयवस्तु तत्र चान्यत्र च बलाकावत्। न च वकारस्य वनव्रण-वृक्षादिषु बहुषूपलभ्यमानस्याप्यवयवत्वादनेकान्तत्वाशङ्का, भिन्नसमुदायविषयवर्णान्तरत्वाद् वकारस्य, सादृश्यात् तु प्रत्यभिज्ञानम् । तत्रास्वरूपप्रत्ययविधौ दोषः, "कर्मणोऽण्” (५.१.७२) “आतो डोऽह्वावामः” (५.१.७६) इति विषये वैरूप्याद् अणोऽपि समावेशप्रसङ्गः, “निजां शित्येत्" (४.१.५७) इत्येतो ऽनेकवर्णत्वात् सर्वादेशप्रसङ्गश्च प्राप्नोति । दैवो वित्करणमनर्थकम्, तद्धि दासंज्ञाप्रतिषेधार्थं क्रियते, अनाकार (रान्त)त्वात् प्रसङ्ग एव नास्ति । नन्वात्वे कृते भविष्यति, तद्धि आत्वं न प्राप्नोति, असन्ध्यक्षरान्तत्वात् । अनवयवत्वे तूभावप्यकारौ इति सारूप्यादसमावेशः, एकवर्णत्वादन्तादेशश्च सिध्यति, ऐकारान्तत्वादात्वं च। अस्तु तर्हि अनवयवः । कार्यलक्षणाय (कार्यप्रवृत्तये ) हि केवलमनुबन्ध उपादीयते, न तु तस्यावयवः । तत्राप्यनेकान्तत्वे क इद् यस्येति संबन्धाभावाद् बहुव्रीह्यभावः । किं हि स ( इत्) तस्य भवति ? येन तत्कृतानि तस्य किति ङितीति कार्याणि स्युः। अनुबन्धानन्तरं कार्यभावादानन्तर्यसंबन्धश्चेत्, नैवम्-आनन्तर्यार्थे बहुव्रीहेरभावात्, नहि तस्मादानन्तर्यं प्रतीयते इत्यर्थासामर्थ्याद् बहुव्रीह्यभावः। वचनसामर्थ्याद् (सौत्रत्वाद्) भविष्यतीति चेत्, यद्येवं पूर्व-परयोरित्कृतं प्राप्नोति “भवतोरिकणीयसौ" (६.३.३०) इत्युभयपाठानन्तरमित्त्वात्, नैष दोषः - व्याख्यानाद् इकण् ईयस् इति विच्छिन्नयोः पाठः कर्तव्यः, ततः पूर्वस्यैवा (साव) नन्तरो न तु परस्य, कालव्यवायात्, तथा परस्यैवानन्तरो न पूर्वस्येति । स चावश्यं कर्तव्यः, इतरथा अक्रियमाणे विच्छिन्नपाठे एकान्तेऽपि सन्देहः स्यात्-(तत्र) न ज्ञायते पूर्वस्य भवत्याहोस्वित् परस्येति, सन्देहमात्रमेतद् भवति । सर्व(त्र) सन्देहेषु चेदमुपतिष्ठते *व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति पूर्वस्येति व्याख्यास्यामः, यत एकान्तपक्षे एकोऽवयवो द्वयोर्न संभवतीति सन्देहे व्याख्यानान्निश्चयः । अनेकान्तेष्वानन्तर्यस्योभयापेक्षस्य विरोधाभावाद् व्यवस्थित पाठ एव कर्तव्य इति । प्रयोगज्ञत्वाद् वाचार्याणां तं तं प्रयोगं दृष्ट्वा तांस्ताननुबन्धानासजन्ति, युक्तं ह्येतद् यत् प्रयोगनिमित्तकेनानुबन्धेन भवितव्यम्, न पुनरनुबन्धनिमित्तकेन प्रयोगेणेति। ननु भवतु नामाचार्याः प्रयोगज्ञाः, शिष्यास्तु कथं प्रतिपद्यन्ते ? आचार्यप्रवृत्तेरेवेति । उभयमिदमनुबन्धेषूक्तम् *एकान्तः *अनेकान्तः इतिः *एकान्तः इति तु युक्ततरम्, अत्र हि हेतुरुपन्यस्तः; यत् तु नाम सहेतुकं तन्त्र्यायम् । तथा "मेङो वा मिद्" (४.३.८८) इति तदवयवं दृष्ट्वा आत्वं नाकार्षीत् । असरूपविधावपि न दोषः, आचार्यप्रवृत्तेरेव, तथाहि - यदयं “ वा ज्वलादि दु-नी-भू-ग्रहास्त्रोर्णः” (५.१.६२ ) इति वा ग्रहणं करोति, तद् ज्ञापयति-नानुबन्धकृतमसारूप्यं भवति समावेशे हि अचान च सिध्यति किं वाग्रहणेन? क्रियमाणं तु ज्ञापनाय भवति । सर्वादेशेऽपि न दोषः, यदयम् "अनक्” (२.१.३६) इति प्रथमया निर्द्दिशति तद् ज्ञापयति-नानुबन्धकृतमनेकवर्णत्वं भवति, अन्यथा षष्ठ्या अप्यनेकवर्णत्वात् सर्वादेशः सिद्ध्यति । असन्ध्यक्षरान्तत्वमपि नानुबन्धकृतं भवति, तत एव यदयम्- "नेर्मा-दा-पत-पद० " (२.३.७९) इत्यत्र मेङोऽपि ग्रहणार्थं ङकारं पठति, अन्यथा हि माङ एव ग्रहणं स्यात् । न च लोपे सति मेङ आत्वे सति प्राप्नोति, चेति (चे चेति) इतिवल्लाक्षणिकत्वेन तदभावाद् (?)। अथ विशेषानिर्देशाद् "भू सत्तायाम्" इत्यादीनां धातूनामपीत्त्वं कस्मान्न भवति ? कार्याभावादिति ब्रूमः । नन्वस्ति " ऊदितो वा " (४.४.४२) इत्यादि, नैवम्- 'एकस्वराद्' इति तत्रानुवृत्तेः, आचार्यप्रवृत्तेर्वा, तथाहि आचार्याः स्वरान्तान् स्वरान्तेषु पठन्ति व्यञ्जनान्तान् व्यञ्जनान्तेषु इति तेषां स्वरस्य व्यञ्जनस्य च नेत्त्वमिति । दरिद्रातेस्तर्हि प्राप्नोति, ननूक्तमित्कार्याभावान्न भविष्यति । नन्विदमप्युक्तम्-" आदितः” (४.४.७१ ) इत्यस्तीति, नन्विदमप्युक्तम्- 'एकस्वराद्' इति तत्र वर्त्ततेऽनेकस्वरश्चायमिति । जागर्तेस्तहिं ऋदित्त्वप्रसङ्गः, तदपि न-"जागुर्जि णवि० " (४.३.५२) इत्यत्र वृद्धिनियमाद्, ऋदित्त्वे हि वृद्धेः प्रसङ्ग एव नास्ति किं नियमेनेति ? । चकासोऽपि सकारस्य न भवति कार्याभावात् । आशासोऽपि तत एव न भवति । क्विबादीनां तु ककार पकारयोः कार्यार्थत्वेनेत्त्वादभावोऽस्तु, तदुच्चारणार्थमुपात्तस्य कृतकार्यत्वान्निवृत्तिः, यतोऽप्रयोगशब्देन शास्त्रमभिधीयते; वकाराभावे तु कस्यायमित् स्यादित्यप्रयोगिशब्दाभिधेय एव न स्यादिति क्विबादीनां च वकारोऽनुबन्धसंज्ञानार्थम्, तस्याभावे कस्यासावित स्यात्, प्रत्ययत्वमप्यस्यैवं

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484