Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 430
________________ परिशिष्ट-२ ४०७ पादेशे च अपि। “शुभि दीप्तौ" "शुभेः स च वा" (उणा० ७४३) इति डित्युकारे सादेशे च सु। “उन्दैप् क्लदने" अतो वदेर्वा क्विपि नलोपे च उद्। अततेः “जनि-मण्यादिभ्यः" (उणा० ६०७) इप्रत्यये अति। “अभुङ् शब्दे" इत्यतः “अम्भि-कुण्ठि-कम्प्यंहिभ्यो लुक्च" (उणा० ६१४) इति (“पदिपठि० जनिमण्यादिभ्यः" (उणा० ६०७) इत्यत्रादिग्रहणाद् बहुवचनाद्वा) इप्रत्यये नलोपे च अभि। ननु सर्वथाऽत्र स्वरादिषु चादिषु च प्रक्रियाकथनं स्वरूपनिर्ज्ञानार्थम्, स्वरूपं च स्वरूपेण पठ्यमानानां पाठादेव निर्ज्ञायते, यथा-प्रकृति-प्रत्यय-विकाराऽऽगमाणाम्, इत्यव्युत्पन्ना एवामी सन्तु, किमेषां प्रक्रियाकथनेन? उच्यते, कथ्यमाना प्रक्रिया पाठस्यैवानुग्रहं विदधती सुखप्रतिपत्त्यर्था भवतीति प्रदर्शिता। प्रादीनामर्थनिदर्शनमाचार्याः परानुग्रहार्थमारभन्ते, यथा-प्र आदिकर्मोदीरण-भृशाथैश्वर्य-संभव-नियोग-शुद्धीच्छा-प्रीति-शान्तिपूजा-दर्शन-तत्पर-प्रशंसा-संग-दिग्योगा-ऽवयव-वियोगाऽन्तर्भाव-हिंसा-बहुत्व-महत्त्व-स्थिति-दान-नानार्थ-दक्षिणानुवृत्त्यादिषु। आदिकर्मणि-कर्तुमारब्धः प्रकृतः कटो देवदत्तेन। उदीरणे-उदीर्णा मूषिकाः-प्रबला मूषिकाः। भृशार्थे-भृशं वृद्धाः-प्रवृद्धा नद्यः। ऐश्वर्ये-ईश्वरो गृहस्य-प्रभवति गृहस्य, प्रभुदेशस्य। संभवे-हिमवतो गङ्गा प्रभवति। नियोगे-नियुक्ते सैन्ये प्रकृतः। शुद्धौ-प्रसन्ना आपः, प्रसन्ना द्यौः, प्रसन्नेन्द्रियः । इच्छार्थे-इच्छति कन्याम्-प्रार्थयते कन्याम्, इच्छति परदारान्-प्रकुरुते परदारान्। प्रीती-प्रीणाति राजा-प्रसीदति राजा। शान्तौ-शान्तात्मा-प्रश्रितः प्रशान्तः, प्रश्रितं वाक्यमाह। पूजायाम्-प्राञ्जलिः प्रहः । दर्शने-प्रियां दृष्ट्वा क्रीडति-प्रक्रीडति। तत्परे-पितामहात पर:-प्रपितामहः। एवं प्रणप्ता, प्रपौत्रः। प्रशंसायाम-शोभनं शास्त्रम-प्रधानं शास्त्रम। सङ्ग-प्रसक्त:-प्रमत्त दिग्योगे-पूर्वा दिक्-प्राची दिक्। अवयवे-प्रघणोऽगारस्य, प्रघाणोऽगारस्य। वियोगे-वियुक्तो वसति-प्रवसति। अन्तर्भावे - अन्तर्भूतः-प्रविष्टः, अन्तः क्षिप्तः-प्रक्षिप्तः। हिंसायाम्-प्रहरणं, प्रहरति। बहुत्वे-बहुचौरो देशः, प्रचौरो देशः। महत्त्वे-महानध्वाप्रकृष्टोऽध्वा। स्थितौ-शास्त्रं प्रमाणम्, लोकः प्रमाणम्। दाने-देवेभ्यो ददाति-प्रयच्छति। नानार्थ-नाना कीर्णा:-प्रकीर्णाः, नाना दक्षिणा:-प्रदक्षिणम् (णाः)। अनुवृत्तौ-अनुवृत्तः शिष्यः-प्रशिष्य इति। __ परा-वध-घर्षण-स्वर्गति-विक्रमा-ऽप्रत्यक्षा-ऽनाभिमुख्य-भृशार्थ-मोह-प्रातिलोम्येषु । वधे-पराघातः। घर्षणे-परामर्शनम्। स्वर्गतौ-स्वर्गतः परेतः। विक्रमे-पराक्रमः। अप्रत्यक्षे-परोक्षम्। अनाभिमुख्ये-परावृत्तः, पराङ्मुखः। भृशार्थ पराजितः। मोहेपराभूतः। प्रातिलोम्ये-परावृत्तो युद्ध इति। अप-वर्जन-वियोगा-ऽऽलेखन-चौर्य-निर्देश-वैकृत-विधिविपर्ययर्णग्रहणाऽवयव-पूजा-निह्नव-सव्यवृत्तिषु। वर्जने-अप साकेताद् वृष्टो मेधः। वियोगे-अपयुक्ता गौर्वत्सेन। आलेखने-अपस्किरते वृषभः। चौर्य-अपहरति। निर्देशे-अपदिशति परम्। वैकृतेअपजल्पति। विधिविपर्यये-अपशब्दः, अपनयः । ऋणग्रहणे-अपमित्य याचते। अवयवे-अपस्करो रथाङ्गम्। पूजायाम्-अपचितो गुरुर्देवदत्तेन। निहवे-शतमपजानीते, सहस्रमपजानीते। सव्यवृत्तौ-अपसव्यं गच्छति। सम्-मूर्ति-वचनैक्य-प्रभव-समन्ताद्भाव-भूषण-समवायाऽऽभिमुख्य-योगपद्य-श्लेषण-भृशार्थ-दर्शनीयत्व-सादृश्याऽ-नास्थिताऽपिधान-क्रोध-मर्यादा-चीवरग्रहणा-ऽस्पष्ट-प्रीति-स्वीकरणाऽल्पार्था-ऽभ्यास-प्राधान्य-पुनः क्रियासु। मूर्ती-संहता मूर्तिघंटादीनाम्। वचनैक्ये-एकवादः-संवादः। प्रभवे-तिलेभ्यस्तैलं संभूतम्। समन्ताद्भावे-समन्ताद् गच्छति-संगच्छते। भूषणे-भूषिता कन्यासंस्कृता कन्या। समवाये-संकरः । आभिमुख्ये-समुत्तिष्ठति। यौगपद्ये-युगपत्कृतः-संकेतः (संकृतः)। श्लेषणे-सन्धिः। भृशार्थ - -सन्नह्यति। दर्शनीयत्वे-संस्थिता कन्या, दर्शनीयेत्यर्थः । सादृश्ये-गोसंस्थानं गवयस्य। अनास्थिते-रांस्थितः केतुः। अपिधानेसंवृतं द्वारम्। क्रोधे-संरम्भः । मादायाम-संस्था। ईर्ष्यायाम्-संलापः। चीवरग्रहणे-संचीवरयते भिक्षुः। अस्पष्टे-संशयः । प्रीतौ - -संभाषणम्। स्वीकरणे-संगृह्णाति। अल्पार्थ-समर्थ(घ)म्। अभ्यासे-समीपम्। प्राधान्ये-समर्थः, सम्राट्। पुनःक्रियायाम्-पुनर्धावति -संधावति, पुनस्तपति-संतपति।

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484