Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 432
________________ परिशिष्ट-२ ४०८ स्पर्द्धायाम्-आह्वयते मल्लो मल्लम्। आभिमुख्ये-आगच्छति। ऊर्ध्वकर्मणि-आरोहति वृक्षम्। भृशार्थे-आधूता शाखा, आपीनानीव धेनूनां जघनानि प्रसुस्रुवुः । प्रादुर्भावे-आपन्नसत्त्वा स्त्री। समवाये-आसेवा, आकुलम्। स्मरणे-आभवतु विज्ञानम्। विस्मयेआश्चर्यम् । प्रतिष्ठायाम्-आस्पदम्। निर्देशे-आदिष्टम्। शक्ती-आधर्षयति। अप्रसादे-आविलमुदकम्। विवृते-आकाशम्। अनुबन्धे -आयाति। पुनर्वचने-आनेडितम्। नि-लेश-राशि-भृशार्था-ऽधोभाव-प्रसाद-संन्यासा-ऽर्था-ऽर्थगत्यादेश-दारकर्मोपदर्शन-केतनोपरमणा-ऽऽवृत्ति-बन्धन-दर्शनाऽवसान-कौशला-ऽऽसेवा-नियम-समीपा-ऽन्तर्भाव-मोक्ष-तमस्ताप-साना-ऽऽश्रय-ग्रहण-वर्ण-वृक्षा-ऽभावा-ऽतिशयेषु। लेशे-लेशेन हसति-निहसति, निहासः, निघर्षः। राशौ-धान्यनिकरः, यवनिकरः। भृशार्थे-भृशं गृहीतः-निगृहीतः। अधोभावे-अध: पततिनिपतति। प्रसादे-प्रसन्नं पानम्-निपानम्, निगता आपः । संन्यासे-निक्षेपः, निश्रेणी। अर्थे-निधानम्। अर्थगतौ-गतार्थानि वाक्यानि -निगतानि वाक्यानि। आदेशे-आदिष्टः कर्तुम्-नियुक्तः कर्तुम्। दारकर्माणि-निविशते। उपदर्शने-अर्थं निदर्शयति। केतनेनिमन्त्रयते। उपरमणे-निवृत्तः पापात्। आवृत्ती-निवृत्तः सूर्यः । बन्धने-निगलम्। दर्शने-निध्यायति, निशामयति(ते) अवसानेनिष्ठितम्, नितिष्ठति। कौशले-विद्यासु निष्णातः-निपुणः। आसेवायाम्-नियतः पन्थाः, नियतो रथः । नियम-नियमः। समीपेनिपार्श्वः। अन्तर्भावे-निपीतमुदकम्, निहितं द्रव्यम्। मोक्षे-निसृष्टम्। तमसि-निहारः । तापसाने-निहारो व्रीहिः। आश्रये-निलयः, निवासः । ग्रहणे-निग्रहः । वर्णे-नीलः। वृक्षे-नीपः । अभावे-निद्रव्यः। अतिशये-न्यूनः, निपीडितः। ___प्रति-पुनःक्रिया-ऽऽदान-सादृश्य-हनन-निर्यातन-तद्योग-विनिमया-ऽऽभिमुख्य-वाम-दिग्योग-व्याप्त्याध्यान-मात्रार्थ-संभावनतत्त्वाख्या-भाग-लक्षण-वारण-संबन्ध-वीप्सा-व्याधि-स्थानेषु। पुनः-क्रियायाम्-पुनरुक्तम्-प्रत्युक्तम्। आदाने-प्रतिगृह्णाति, प्रतियाचते। सादृश्ये-प्रतिरूपकम्। हनने-प्रतिहतं पापम्। निर्यातने-प्रतिकृतम्, प्रतीकारः। तद्योगे-प्रतिपन्नः प्रेष्यः। विनिमये तैलार्थी घृतं प्रतिददाति। अभिमुख्ये-प्रत्यग्नि शलभाः पतन्ति। वामे-प्रतिलोमं करोति। दिग्योगे-प्रतीची दिक् । व्याप्तौ-प्रतिकीर्णं पुष्पैः। आध्याने -प्रतिवेदयति मन्त्रम्। मात्रार्थे-सूपोऽल्पः सूपप्रति। संभावने-प्रत्ययः, प्रतिपत्तिः। तत्त्वाख्यायाम्-शोभनो देवदत्तो धर्म प्रति। भागे -यदत्र मां प्रति स्यात्। लक्षणे-वृक्षं प्रति विद्योतते। वारणे-प्रतिषिद्धः। संबन्धे-अक्षसम्बद्धं प्रत्यक्षम्। वीप्सायाम्-वृक्षं वृक्ष प्रति सिञ्चति। व्याधौ-प्रतिश्यायः । स्थाने-प्रतिष्ठितः । परि-ईषदर्थ-व्याप्त्युपर्यर्थ-भृश-सान्त्व-समन्ताद्भाव-भूषण-पूजा-रामवाय-वर्जनाऽऽलिङ्गन-निवसन-शोक-भोजन-लङ्घनवीप्सा-ऽवज्ञान-तत्त्वाख्या-स्पर्श-लक्षणा-ऽभ्यावृत्ति-नियमेषु। ईषदर्थे-पर्यग्निकृतम्, परिषेवितम्। व्याप्तौ-परिगतोऽग्निः, परिवातम्। उपर्यर्थे परिपूर्णः, परिधानम्। अभ्यासे-गत्वा गत्वा आगच्छति-परिगच्छति। सान्त्वे-परिगृह्णाति । समन्ताद्भावे-परिधावति, परिवृत्तम्। भूषणे-सुवर्णपरिष्कृतमासनम्। पूजायाम्-परिचरति। समवाये-परिषत्, परिस्तरः। वर्जने-परि त्रिगर्तेभ्यो वृष्टो देवः, वर्जयित्वा स्नाति-परिस्नाति। आलिङ्गने-परिष्वजते कन्यां माणवकः। निवसने-परिधत्ते वासः । शोके-कृतं परिदेवयते। भोजने-प्राघूर्णान् परिवेषयति। लङ्घने-परिस्कन्दति। वीप्सायाम्-वृक्षं वृक्षं परि सिञ्चति। अवज्ञाने-परिभवति। तत्त्वाख्यायाम्-परिसंख्यातम्। स्पर्श -परिपक्वम्। लक्षणे-देवलक्षणेन परिज्ञातश्चारः। अभ्यावृत्तौ-परिवृतः संवत्सरः। नियमे-परिसमाप्तम्। उप-वर्जन-प्रतियत्न-वैकृत-वाक्याऽध्याहार-लवन-परीक्षा-संपत्सर्पण-गुह्या-ऽऽग:-क्षय-सामर्थ्या-ऽऽचार्यकरण-सादृश्यस्वीकरण-पीडा-मन्त्रक्रिया-व्याप्ति-दोषाख्यान-युक्ति-संज्ञा-पूर्वकर्म-पूजा-दान-सामीप्या-ऽधिक-हीन-लिप्सासु। वर्जने-उपवासः, उपवसति -अशनवर्जनं करोति। प्रतियत्ने-एधोदकस्योपस्कुरुते। वैकृते-उपस्कृतं भुङ्क्ते, उपस्कृतं सहते। वाक्याऽध्याहारे-सोपस्कार वाक्यमाह। लवने-उपस्कीर्य मद्रका लुनन्ति। परीक्षायाम्-उपेक्षितव्यम्। संपदि-उपपन्नस्य, उपपन्ना शरद्, उपपन्नवाक्यसाधुः । सर्पणे-उपसर्पति, उपतिष्ठते कर्मकरः । गुह्ये-उपह्वरः, उपांशुः, उपगूर्णम्। आगसि-उपालम्भः, उपाघातः। क्षये-उपक्षीणः, उपयुक्तं द्रव्यम्। सामर्थ्य-उपचितः। आचार्यकरणे-उपदिशति उपाध्यायः । सादृश्ये-उपमानम्। स्वीकरणे-उपगृह्णाति। पीडायाम्-स्तनोपपीडं

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484