________________
परिशिष्ट-२
४०८ स्पर्द्धायाम्-आह्वयते मल्लो मल्लम्। आभिमुख्ये-आगच्छति। ऊर्ध्वकर्मणि-आरोहति वृक्षम्। भृशार्थे-आधूता शाखा, आपीनानीव धेनूनां जघनानि प्रसुस्रुवुः । प्रादुर्भावे-आपन्नसत्त्वा स्त्री। समवाये-आसेवा, आकुलम्। स्मरणे-आभवतु विज्ञानम्। विस्मयेआश्चर्यम् । प्रतिष्ठायाम्-आस्पदम्। निर्देशे-आदिष्टम्। शक्ती-आधर्षयति। अप्रसादे-आविलमुदकम्। विवृते-आकाशम्। अनुबन्धे -आयाति। पुनर्वचने-आनेडितम्।
नि-लेश-राशि-भृशार्था-ऽधोभाव-प्रसाद-संन्यासा-ऽर्था-ऽर्थगत्यादेश-दारकर्मोपदर्शन-केतनोपरमणा-ऽऽवृत्ति-बन्धन-दर्शनाऽवसान-कौशला-ऽऽसेवा-नियम-समीपा-ऽन्तर्भाव-मोक्ष-तमस्ताप-साना-ऽऽश्रय-ग्रहण-वर्ण-वृक्षा-ऽभावा-ऽतिशयेषु। लेशे-लेशेन हसति-निहसति, निहासः, निघर्षः। राशौ-धान्यनिकरः, यवनिकरः। भृशार्थे-भृशं गृहीतः-निगृहीतः। अधोभावे-अध: पततिनिपतति। प्रसादे-प्रसन्नं पानम्-निपानम्, निगता आपः । संन्यासे-निक्षेपः, निश्रेणी। अर्थे-निधानम्। अर्थगतौ-गतार्थानि वाक्यानि -निगतानि वाक्यानि। आदेशे-आदिष्टः कर्तुम्-नियुक्तः कर्तुम्। दारकर्माणि-निविशते। उपदर्शने-अर्थं निदर्शयति। केतनेनिमन्त्रयते। उपरमणे-निवृत्तः पापात्। आवृत्ती-निवृत्तः सूर्यः । बन्धने-निगलम्। दर्शने-निध्यायति, निशामयति(ते) अवसानेनिष्ठितम्, नितिष्ठति। कौशले-विद्यासु निष्णातः-निपुणः। आसेवायाम्-नियतः पन्थाः, नियतो रथः । नियम-नियमः। समीपेनिपार्श्वः। अन्तर्भावे-निपीतमुदकम्, निहितं द्रव्यम्। मोक्षे-निसृष्टम्। तमसि-निहारः । तापसाने-निहारो व्रीहिः। आश्रये-निलयः, निवासः । ग्रहणे-निग्रहः । वर्णे-नीलः। वृक्षे-नीपः । अभावे-निद्रव्यः। अतिशये-न्यूनः, निपीडितः।
___प्रति-पुनःक्रिया-ऽऽदान-सादृश्य-हनन-निर्यातन-तद्योग-विनिमया-ऽऽभिमुख्य-वाम-दिग्योग-व्याप्त्याध्यान-मात्रार्थ-संभावनतत्त्वाख्या-भाग-लक्षण-वारण-संबन्ध-वीप्सा-व्याधि-स्थानेषु। पुनः-क्रियायाम्-पुनरुक्तम्-प्रत्युक्तम्। आदाने-प्रतिगृह्णाति, प्रतियाचते। सादृश्ये-प्रतिरूपकम्। हनने-प्रतिहतं पापम्। निर्यातने-प्रतिकृतम्, प्रतीकारः। तद्योगे-प्रतिपन्नः प्रेष्यः। विनिमये तैलार्थी घृतं प्रतिददाति। अभिमुख्ये-प्रत्यग्नि शलभाः पतन्ति। वामे-प्रतिलोमं करोति। दिग्योगे-प्रतीची दिक् । व्याप्तौ-प्रतिकीर्णं पुष्पैः। आध्याने -प्रतिवेदयति मन्त्रम्। मात्रार्थे-सूपोऽल्पः सूपप्रति। संभावने-प्रत्ययः, प्रतिपत्तिः। तत्त्वाख्यायाम्-शोभनो देवदत्तो धर्म प्रति। भागे -यदत्र मां प्रति स्यात्। लक्षणे-वृक्षं प्रति विद्योतते। वारणे-प्रतिषिद्धः। संबन्धे-अक्षसम्बद्धं प्रत्यक्षम्। वीप्सायाम्-वृक्षं वृक्ष प्रति सिञ्चति। व्याधौ-प्रतिश्यायः । स्थाने-प्रतिष्ठितः ।
परि-ईषदर्थ-व्याप्त्युपर्यर्थ-भृश-सान्त्व-समन्ताद्भाव-भूषण-पूजा-रामवाय-वर्जनाऽऽलिङ्गन-निवसन-शोक-भोजन-लङ्घनवीप्सा-ऽवज्ञान-तत्त्वाख्या-स्पर्श-लक्षणा-ऽभ्यावृत्ति-नियमेषु। ईषदर्थे-पर्यग्निकृतम्, परिषेवितम्। व्याप्तौ-परिगतोऽग्निः, परिवातम्। उपर्यर्थे परिपूर्णः, परिधानम्। अभ्यासे-गत्वा गत्वा आगच्छति-परिगच्छति। सान्त्वे-परिगृह्णाति । समन्ताद्भावे-परिधावति, परिवृत्तम्। भूषणे-सुवर्णपरिष्कृतमासनम्। पूजायाम्-परिचरति। समवाये-परिषत्, परिस्तरः। वर्जने-परि त्रिगर्तेभ्यो वृष्टो देवः, वर्जयित्वा स्नाति-परिस्नाति। आलिङ्गने-परिष्वजते कन्यां माणवकः। निवसने-परिधत्ते वासः । शोके-कृतं परिदेवयते। भोजने-प्राघूर्णान् परिवेषयति। लङ्घने-परिस्कन्दति। वीप्सायाम्-वृक्षं वृक्षं परि सिञ्चति। अवज्ञाने-परिभवति। तत्त्वाख्यायाम्-परिसंख्यातम्। स्पर्श -परिपक्वम्। लक्षणे-देवलक्षणेन परिज्ञातश्चारः। अभ्यावृत्तौ-परिवृतः संवत्सरः। नियमे-परिसमाप्तम्।
उप-वर्जन-प्रतियत्न-वैकृत-वाक्याऽध्याहार-लवन-परीक्षा-संपत्सर्पण-गुह्या-ऽऽग:-क्षय-सामर्थ्या-ऽऽचार्यकरण-सादृश्यस्वीकरण-पीडा-मन्त्रक्रिया-व्याप्ति-दोषाख्यान-युक्ति-संज्ञा-पूर्वकर्म-पूजा-दान-सामीप्या-ऽधिक-हीन-लिप्सासु। वर्जने-उपवासः, उपवसति -अशनवर्जनं करोति। प्रतियत्ने-एधोदकस्योपस्कुरुते। वैकृते-उपस्कृतं भुङ्क्ते, उपस्कृतं सहते। वाक्याऽध्याहारे-सोपस्कार वाक्यमाह। लवने-उपस्कीर्य मद्रका लुनन्ति। परीक्षायाम्-उपेक्षितव्यम्। संपदि-उपपन्नस्य, उपपन्ना शरद्, उपपन्नवाक्यसाधुः । सर्पणे-उपसर्पति, उपतिष्ठते कर्मकरः । गुह्ये-उपह्वरः, उपांशुः, उपगूर्णम्। आगसि-उपालम्भः, उपाघातः। क्षये-उपक्षीणः, उपयुक्तं द्रव्यम्। सामर्थ्य-उपचितः। आचार्यकरणे-उपदिशति उपाध्यायः । सादृश्ये-उपमानम्। स्वीकरणे-उपगृह्णाति। पीडायाम्-स्तनोपपीडं