________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
अनु - देशा- ऽधीष्ट-सामीप्य स्वाध्याय-साम्या ऽर्थाभावाऽऽयति- निसर्ग-भृशार्थ सादृश्या - ऽनुवृत्ति- हितार्थ लक्षण- हीनार्थतृतीयार्थ-स्वाध्यायाधिक्य-वीप्सासु । देशे - अनूपो देशः । अधीष्टे - इन्द्रानुब्रूहि । सामीप्ये - अनुशोणं पाटलिपुत्रम् । स्वाध्याये - अनुपदम्, अनुवाक्यम्। साम्ये-अनुमतम्, अनुवदति । अर्थाभावे- अनुतपति । आयत्याम् - अनुशयः, अनुबन्धः । निसर्गे- अनुज्ञातोऽसि । भृशार्थे-अनुरक्तः, अनुस्मरति । सादृश्ये - अनुकरोति, अनुरूपम्। अनुवृत्तौ - सुवर्चला आदित्यमनुपर्येति । हितार्थे - अनुलोममनुक्रोशं करोति, अनुगृह्णाति। लक्षणे - वृक्षमनु विद्योतते । हीने- अनु जिनभद्रगणि व्याख्यातारः । तृतीयार्थे - नदीमन्ववसिता सेना, नद्या सहाऽ-वबद्धेत्यर्थः। स्वाध्यायाधिक्ये - अनूचान उपाध्यायः । वीप्सायाम् वृक्षमनु सिञ्चति ।
४०८
अव-विज्ञाना-ऽधोभाव-स्पर्द्धा ऽऽलम्बन सामीप्य-शुद्धि-स्वादुकारेषदर्थ-व्याप्ति-भृशार्थ- निश्चय- परिभव-प्राप्ति- गाम्भीर्य वृत्तान्तवियोग-वर्चस्क-देशाख्या-ऽहितक्रिया - ऽऽश्रयस्पर्शेषु । विज्ञाने- अवगच्छति । अधोभावे - अधः क्षेपणम्-अवक्षेपणम् । स्पर्द्धायाम्अवक्षिपति मल्लो मल्ल। आलम्वने अवष्टभ्य यष्टिं गच्छति । सामीप्ये अवष्टब्धा शरत् । शुद्धौ अवदातं मुखम् । स्वादुकारे - अवदंशः पानस्य। ईषदर्थे ईषल्लोढम् - अवलीढम् । व्याप्तौ अवकीर्ण पांशुभिः । भृशार्थे- अवगाढो दोषः । निश्चये - अवधृतं कार्यम् । परिभवे-अवमन्यते। प्राप्तौ-अवाप्तोऽर्थः । गाम्भीर्ये - अवस्थितः । वृत्तान्ते - काऽवस्था । वियोगे - अवमुक्तनूपुरा कन्या। वर्चस्केअवस्करः। देशाख्यायाम्-अवकाशः। अहितक्रियायाम् अवदृष्यन्ते कार्यम् । आश्रये - अवलीनो वायसः । स्पर्शे- अवगाहसुखं तोयम् । निर्-वियोग-भृशार्थाऽभावा-ऽत्यय-प्रादुर्भाव हेत्ववधारणाऽऽदेशा-ऽतिक्रमणाऽभिनिःसरणेषु । वियोगे - वियुक्तः शल्येन - निःशल्यः । भृशार्थे - भृशं दग्धः - निर्दग्धः । अभावे - मक्षिकाणामभावः-निर्मक्षिकम्, निर्मशकम् । अत्यये अतीतमेघं नभःनिमेघम् । प्रादुर्भावे-निर्मितम्, निष्पन्नम् । हेतौ हेतुनोक्तम् निरुक्तम् । अवधारणे-निश्चयः । आदेशे-निर्देशः । अतिक्रमणे- अतिक्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः। अभिनिःसरणे - अभिनिःसृतजिह्वः - निर्जिह्नः ।
-
दुर्-ईषदर्थ-कुत्सा-वैकृत-व्यृद्धि-कृच्छ्राऽप्रतिनन्दना-ऽनीप्सासु । ईषदर्थे- दुर्बलः, दुर्गृहीतः । कुत्सायाम्-दुर्गन्धः, दुरन्तः। वैकृते-दुर्वर्णः, दुश्चर्म्मा। व्यृद्धी - कम्बोजानां व्यृद्धिः - दुष्कम्बोजम् । कृच्छ्रे-कृच्छ्रेण क्रियते दुष्करम् । अप्रतिनन्दने- असम्यगुक्तम्दुरुक्तम्। अनीप्सायाम्-अनीप्सितभगादुर्भगा ।
--
वि-नानार्था-ऽपाया-ऽत्यय-भय-दूर-भृशार्थ- कलहैश्वर्य-वियोग- मोह-हर्ष-कुत्सा प्रादुर्भावा-ऽनाभिमुख्या-ऽनवस्थान-प्राधान्यभोजन-संज्ञा-दाक्ष्य-व्यय-कृत्स्नाप्तिषु। नानार्थे नाना चित्रम् - विचित्रम् । अपाये - विदुःखः, विशोकः । अत्यये - व्यृक्षं नभः, विहिमः कालः । भये - विषण्णः, बिभीतः । दूरे - विकृष्टोऽध्वा । भृशार्थे - भृशं वृद्धा-विवृद्धा नद्यः, भृशं रोति विरौति । कलहे - विग्रहः, विषादः। ऐश्वर्ये-विभुर्देशस्य। वियोगे-विपुत्रः, विभूषणः, विशिरस्कः । मोहे - विचित्तः, विमनाः। हर्षे-विस्मितमुखः। कुत्सायाम्कुत्सितमङ्गं यस्य स व्यङ्गः, विरूपः । प्रादुर्भावे - प्रादुर्भूतो लोहितः - विलोहितः । अनाभिमुख्ये - विमुखः । अनवस्थाने - विभ्रान्तः । प्राधान्ये - विशिष्टः । भोजने - विपक्वम् । संज्ञायाम् - विष्किरः शकुनिः, विकिरो वा । दाक्ष्ये- - दक्षः-१ :- विक्रान्तः । व्यये शतं विनयते, सहस्रं विनयते। व्याप्तौ-कृत्स्नमस्याप्तं शरीरं दोषैर्व्याप्तम् ।
आङ्-मर्यादा-प्राप्ति-स्पर्श-लिप्सा-भय-श्लेष-कृच्छ्राऽऽदिकर्म्म-ग्रहणं-नीड- समीप - विक्रिया-ऽर्हणा-ऽऽवृत्त्या ऽऽशीः- स्वीकरणेपदर्या-ऽभिविधि-क्रियायोगा-ऽन्तर्भाव-स्पर्द्धा ऽऽभिमुख्योर्ध्वकर्म-भृशार्थ- प्रादुर्भाव समवाय- स्मरण - विस्मय प्रतिष्ठा-निर्देश- शक्त्यप्रसादविवृता ऽनुबन्ध-पुनर्वचनेषु। मर्यादायाम् आ पाटलिपुत्राद् वृष्टो मेघः । प्राप्तौ - आसादितः । स्पर्शे - आलिप्तः, आलभते । लिप्सायाम् - आकाङ्क्षति। भये-आविग्नः। श्लेषे - आलिङ्गति । कृच्छ्रे - आपत् । आदिकर्मणि-आरब्धः कर्तुम् । ग्रहणे - आलम्बते यष्टिम् । नीडेआवसथः, आलयः, आवासः । समीपे - आसन्नो देवः । विक्रियायाम् - आवृक्तं सुवर्णम्, आक्रन्दति बालः । अर्हणे - आमन्त्रितः । आवृत्तौ- आवृत्ती दिवसः ! आशिषि - आयुराशास्ते, पुत्रमाशास्ते । स्वीकरणे आदत्ते फलानि, आदत्ते रसान् सूर्यः । ईषदर्थे - ईषत्कृतिराकृतिः, आताम्र, आच्छाया। अभिविधौ - आ कुमारं यशः शाकटायनस्य । क्रियायोगे - आयोगः, ऐ (ए) ष्टि: । अन्तर्भावे- आपानमुदकम् ।