________________
૪૧૦
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન शेते, उपपीडितः। मन्त्रक्रियायाम्-उपनयते, उपनयनम्। व्याप्ती-उपकीर्णं सर्वतः । दोषाऽऽख्याने-उपघातः। युक्तौ-लवणोपसृष्टम्, देवोपसष्टम। संज्ञायाम-उपधा, उपसर्गः । पूर्वकर्मणि-उपक्रयः, उपकारः। पूजायाम्-उपतिष्ठते देवम्, उपस्थानम्, उपचारः। दाने --उपहरत्यर्थम्, बलिमुपहरेत्। सामीप्ये-उपकुम्भम्, उपमणिकम्। अधिके-उपखा- द्रोणः । हीने-उपार्जुनं योद्धारः। लिप्सायाम् -उपयाचते, उपसादितोऽर्थः।
___ अधि-अधिकारा-ऽधिष्ठान-पाठोपर्यथैश्वर्य-बाधना-ऽऽधिक्य-स्मरण-सहयोग-स्ववशतासु। अधिकारे-अधिकारो राज्ञः, अधिकृतो ग्रामे। अधिष्ठाने-मय्यधिष्ठितम्, अध्यात्म कथा वर्तते। पाठे-अधीतं व्याकरणम्। उपर्यथे-अधिरोहति, अधिक्रान्तम्। ऐश्वर्य-अधिपतिर्देशस्य, अधि श्रेणिके मगधाः। बाधने-अधिकुरुते शत्रून्। आधिक्ये-अधि खार्यां द्रोणः। स्मरणे-मातुरध्येति, पितुरध्येति। सहयोगे-अधिवसति। स्ववशतायाम्-आत्माधीनः ।
अपि-पदार्था-ऽनुवृत्त्यपेक्षा-समुच्चया-ऽन्ववसर्ग-गर्हा-ऽऽशी:-संभावन-भूषण-संवरण-प्रश्ना-ऽवमर्शेषु। पदार्थे-सर्पिषोऽपि स्यात्, सर्पिषो मात्रापि स्यादित्यर्थः । अनुवृत्तौ-अपि मा योजय। अपेक्षायाम्-अयमपि विद्वान्। समुच्चये-अपि सिञ्च, अपि स्तुहि। अन्ववसर्गे-भवानपि च्छत्रं गृहातु। गर्हायाम्-अपि तत्रभवान् सावद्यं सेवते। आशिषि-अपि मे स्वस्ति पुत्राय, अपि शिवं गोभ्यः। संभावने-अपि पर्वतं शिरसा भिन्द्यात्। भूषणे-अपि नाति हारम्। संवरणे-अपिहितं द्वारम्। प्रश्ने-अपि कुशलम्?, अपि गच्छामि?। अवमर्श-अपि भज्येयं न नमेयम्, अपि काकः श्येनायते।
सु-पूजा-भृशार्था-ऽनुमति-समृद्धि-दृढाऽऽख्या-ऽकृच्छ्रेषु। पूजायाम-पूजितो राजा-सुराजा, सुगौः। भृशार्थे-सुषुप्तम्, सुषिक्तम्। अनुमतौ-सुकृतम्, सूक्तम्, सुदत्तम्। समृद्धौ-समृद्धो देशः, सुमगधं वर्तते, सुमद्रं वर्तते। दृढाख्यायाम्-सुबद्धम्, सुकृतम्। अकृच्छ्रे-सुकरः कटो भवता।
उत्-प्राबल्य-संभव-लाभोर्ध्वकर्म-प्रकाशा-ऽस्वस्थ-मोक्ष-दृश्य-समृद्ध्यत्ययाऽ-न्याय-प्राधान्य-शक्त्यवरपर-दिग्योग -निर्देशेषु । प्राबल्ये-उद्बला मूषिका, उद्बलं याति। संभवे-उद्गतो दर्पो नीचस्य। लाभे-उत्पन्नं द्रव्यम्, उदपादि भैक्षम्। उर्ध्वकर्मणिआसनादुत्तिष्ठति। प्रकाशे-प्रकाशं चरति-उच्चरति, उद्भवति। अस्वस्थे-उत्सुकः, उञ्चित्तः, उन्मत्तः। मोक्षे-उत्सृष्टः। दृश्येउत्सवः, उद्यानम्। समृद्धौ-उत्थितं कुटुम्बम्। अत्यये-अतीतमेघं नभ:-उन्मेघम्। अन्याये-उत्कुरुते कन्याम्, उत्कुरुते परदारान्। प्राधान्ये-उत्कृष्टोऽश्वः, उत्तमं कुलम्। शक्तौ-उत्सहते गन्तुम्। अवरपरे-उत्तरः। दिग्योगे-उदीची दिक् । निर्देशे-उद्दिशति, उद्देशः।
अति-पूजा-भृशार्था-ऽनुमत्यतिक्रमण-समृद्धि-भूताभावा-ऽवज्ञान-हीनार्थेषु । पूजायाम्-पूजितो राजा-अतिराजा, अतिगौः । भृशार्थे-अतिकृतम्, अतीसारः, अतिवृष्टिः। अनुमतौ-अतिचिन्तितम्। अतिक्रमणे-अतिक्रान्तोऽन्यान् रथानतिरथः, अतिरि कुलम्। समृद्धौ-समृद्धो देश:-अतिदेशः। भूताभावे-अतीतमेघं नभः। अवज्ञाने-अतिच्छिनत्ति, अतिहूतं धान्यम्। हीनार्थ-हीनं वाहयति-अतिवाहयति।
अभि-आभिमुख्य-संनिकृष्ट-वशीकरणोर्ध्वकर्म-पूजा-कुल-सान्त्व-व्याप्तीच्छा-दोषोल्वण-रूप-वचन-लक्ष्य-वीप्सा-नवप्रणयेषु। आभिमुख्ये-अभितः। वशीकरणे-अभिचरति मन्त्रैर्माणवकः कन्याम्। उर्ध्वकर्मणि-अभिरोहति वृक्षम्। पूजायाम्अभिवादये। कुले-अभिजातो माणवकः। सान्त्वे-अभिमन्यते कन्याम्। व्याप्तौ-अभिकीर्णाः पांशुभिः। इच्छायाम्-अभिलषति मैथुनम्। दोषोल्वणे-अभिस्यन्दः। रूपे-अभिरूपो माणवकः। वचने-अभिधेयः साधुः। लक्ष्ये-अभिविध्यति। वीप्सायाम्-वृक्षं वृक्षमभि सिञ्चति। नवे-अभिनवं माल्यम्। प्रणये-अभिमन्त्रितोऽग्निः ।।३१।।
ल.न्यास- चादय इत्यादि। अनुकार्यादाविति-आदिशब्दादत्युच्चैसावित्यत्र वाचकस्यातिशब्दस्य, चिनोतीति 'चः' इत्येवंक्रियाप्रधानस्य च चशब्दस्य नाव्ययसंज्ञेति ।।३१।।