________________
परिशिष्ट-२
૪૧૧ अधण्तस्वाद्या शसः ।१।१।३२।। बृन्यास-अधणित्यादि-तसुरादिर्यस्य तत् तस्वादि, न धण अधण, अधण् च तत् तस्वादि च अधण्तस्वादि, अत्र सामान्याभिधानानपुंसकत्वे "अनतो लुप्" (१.४.५९) इति सेलृपि। आशब्दाद् “अव्ययस्य" (३.२.७) इति सेर्लुपि। "आङाऽवधौ” (२.२.७) इति शसः पञ्चमी। तस्वादय: प्रत्ययाः, ते प्रकृत्यविनाभाविन इति तैः प्रकृतिरनुमीयते-'अस्त्यत्र प्रकृतिः' इति, तस्याश्चैते विशेषणत्वेनाऽऽश्रीयन्ते, ततो "विशेषणमन्तः" (७.४.११३) इति तदन्तविज्ञानं भवतीत्याह-ये प्रत्ययास्तदन्तं शब्दरूपमिति। अथ प्रत्ययमात्रस्य संज्ञायां को दोषः स्यात्, येन तदन्तमित्युच्यते? सत्यम्-'अर्जुनतस्' इत्यादेः समुदायस्यानव्ययत्वे तत्संबन्धिनः स्यादेस्तदवयवाव्ययासंबन्धित्वाद् “अव्ययस्य" (३.२.७) इति लुब् न स्यात्। न च संज्ञाकरणसामर्थ्यात् परमात्रस्य लुप् स्यादिति वाच्यम्, अगर्थं संज्ञाकरणं स्यादिति, "अव्ययस्य" (३.२.७) इति वा(चा)ऽव्ययसंबन्धिनः स्यादे बुच्यते। किञ्च–'अर्जुनतः' इत्यादौ प्रत्ययमात्रादर्थवत्त्वेन नामत्वे स्याद्युत्पत्तौ "प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति वचनात् प्रत्ययमात्रस्य प्रकृतित्वेन तदन्तत्वे पूर्वस्य च “नामसिदय्व्यञ्जने" (१.१.२१) इति पदत्वात् “सपूर्वात् प्रथमान्ताद् वा" (२.१.२२) इति विकल्पप्रसङ्गः स्यात्, तस्मात् तदन्तसमुदायोऽव्ययमिति। दीव्यतेरचि गुणे प्रथमाबहुवचने “अत आः स्यादौ जस्०" (१.४.१) इत्यात्वे समानदीर्घत्वे सस्य “सो रुः" (२.१.७२) इति रुत्वे "रोर्यः” (१.३.२६) इति ये "स्वरे वा” (१.३. २४) इति तस्य लुकि च देवा इति। (अर्जुनतोऽभवनिति)-"अर्ज अर्जने" अत: "यम्यजिशक्यजि०" (उणा० २८८) इत्युने अर्जुनः, तस्य पक्षः (इति) षष्ठ्यन्ताद् "व्याश्रये तसुः" (७.२.८१) इति तसुः। तदन्तस्याव्ययत्वे "अव्ययस्य" (३.२.७) इत्यधिकरणसप्तम्येकवचनस्य लप. स्थानिवद्भावेन "तदन्तं पदम" (१.१.२०) इति पदत्वे "सो रुः" (२.१.७२) इति रुत्वे "अतोऽतिरो रुः" (१.३.२०) इत्युत्वे “अवर्णस्येवर्णादिना०" (१.२.६) इत्योत्वे “एदोत: पदान्तेऽस्य लुग्" (१.२.२७) इति अभवन्शब्दस्याकारलोपः । तसुरित्युकारस्तसोऽपरिग्रहार्थम्, अन्यथा “किमद्व्यादि०" (७.२.८९) इति विहितस्य तसो ग्रहणं स्यादित्याह-अत्रेति -('ततः' इति प्रयोगे) तच्छब्दात् पञ्चम्येकवचनान्तात् “किमव्यादि०" (७.२.८९) इति पित्तसि “ऐकायें" (३.२.८) इति विभक्ते पि “आ द्वेरः" (२.१.४१) इति दस्यात्वे "लुगस्यादेत्यपदे" (२.१.११३) इति तकाराकारलोपे च तसन्तस्याव्ययत्वे "अव्ययस्य" (३.२.७) इति से पि रुत्वादि पूर्ववत्। एवं तच्छब्दात् सप्तम्यन्तात् “सप्तम्या:" (७.२.९४) इति त्रपि तत्र। तथा इदम्शब्दस्य किम्शब्दस्य च त्रपि “क्व-कुत्रात्रेह" (७.२.९३) इति निपातनाद् इह, क्व। किम्शब्दात् कालेऽधिकरणे "किं-यत्तत्०" (७.२.९५) इति दाप्रत्यये किमः काऽऽदेशे कदा। तथा इदम्शब्दस्य सप्तम्यन्तस्य “सदाऽधुना०" (७.२.९६) इति निपातनाद् एतर्हि, अधुना, इदानीम्। समानशब्दस्य परशब्दस्य च अयधिकरणे "सद्योऽद्य-परेद्यव्यह्नि" (७.२.९७) इति निपातनात् सद्यः, परेद्यवि। एवं पूर्वशब्दादुभयशब्दाञ्च "पूर्वापराऽधरोत्तराऽन्याऽन्यतरेतरादेद्युस्" (७.२.९८) इति एद्युसि "उभयाद् धुश्च" (७.२.९९) इति द्युसि च पूर्वेद्युः, उभयद्युः। पूर्वशब्दस्य परशब्दस्य वा पूर्वतरशब्दस्य परतरशब्दस्य वा इदम्शब्दस्य च वर्षेऽधिकरणे “ऐषमः परुत् परारि वर्षे" (७.२.१००) इति निपातनात् परुत्, परारि, ऐषमः। किम्शब्दस्य अनद्यतनकालाधिकरणे "अनद्यतने हिः” (७.२.१०१) इति हो “किमः कस्तसादौ च" (२.१.४०) इति कादेशे च कहि। यच्छब्दात् तृतीयान्तात् “प्रकारे था" (७.२.१०२) इति थाप्रत्यये पूर्ववदत्वादौ यथा। एवं किम्शब्दस्य “कथमित्थम्" (७.२.१०३) (इति) निपातनात् कथम्। पञ्चन्शब्दात् तृतीयान्तात् प्रकारे “संख्याया धा" (७.२.१०४) इति धाप्रत्यये नलोपे च पञ्चधा। एवमेकशब्दाद् “वैकाध्यमञ्" (७.२.१०६) इति ध्यमजि “वृद्धिः स्वरेष्वादेफ्रिति तद्धिते" (६.४.१) इति वृद्धौ च ऐकध्यम्। द्विशब्दाद् "द्विवेर्धमजेधौ वा" (७.२.१०७) इति धमनि वृद्धौ, एधाप्रत्यये “अवर्णेवर्णस्य" (७.४.१) इति इकारलोपे च द्वैधम्, द्वेधा। पञ्चन्शब्दाद् वारे वर्तमानाद् वारवत्यर्थे “वारे कृत्वस्” (७.२.१०९) इति कृत्वसि पञ्चकृत्वः । एवं द्विशब्दाद् “द्वि-त्रि-चतुरः सुच्" (७.२.११०) इति सुचि