________________
૪૧ ૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન द्विः। एकशब्दाद् “एकात् सकृञ्चास्य" (७.२.१११) इति सुचि सकृदादेशे च सकृत्, ततः “क्रियाविशेषणाद्" (२.१.४१) इत्यमि "अव्ययस्य" (३.२.७) इति तल्लपि “पदस्य" (२.१.८९) इति सलोपे सकृत्। बहुशब्दाद् “बहोर्धासने" (७.२.११२) इति धाप्रत्यये बहुधा। प्राचशब्दात् “दिक्शब्दाद् दिग्देशकालेषु प्रथमा-पञ्चमी-सप्तम्या:" (७.२.११३) इति घाप्रत्ययः, तस्य “लुबञ्चः" (७.२.१२३) इति लुपि च प्राक् । दक्षिणाशब्दाद् दिगादिवृत्तेः प्रथमाद्यन्ताद् “दक्षिणोत्तराञ्चातस्" (७.२.११७) इति अतसि अवर्णलोपे च दक्षिणतः। एवमपरशब्दस्य “अधराऽपराञ्चाऽऽत्" (७.२.१३१) इति आति प्रत्यये “पश्चोऽपरस्य दिक्पूर्वस्य चाति" (७.२.११४) इति पश्चादेशे च पश्चात्। पूर्वशब्दात् "पूर्वाऽवराऽधरेभ्योऽसस्तातौ पुरवधश्चैषाम्" (७.२.११५) इत्यसि अस्ताति च पुरादेशे च पुरः, पुरस्तात्। तथा ऊर्ध्वशब्दात् “ऊर्ध्वादिरिष्टातावुपश्चास्य" (७.२.११४) इति रौ रिष्टाति च उपादेव (उपादेशे) उपरि, उपरिष्टात्। दक्षिणाशब्दाद् “वा दक्षिणात् प्रथमा-सप्तम्या:०" (७.२.११९) इत्याप्रत्यये, दूरार्थाद् “आही दूरे" (७.२.१२०) इत्याहिप्रत्यये च, अदूरार्थाद् “अदूरे एनः" (७.२.१२२) इति एनप्रत्यये च दक्षिणा, दक्षिणाहि, दक्षिणेन। द्वितीयशब्दात् करोतिना योगे “तीयशम्बबीजात् कृगा कृषौ डाच्” (७.२.१३५) इति डाचि अन्तलोपे च द्वितीया करोति क्षेत्रम्। शुक्लशब्दात् "कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्विः" (७.२.१२६) इति च्वौ “ईश्वाववर्णाऽनव्ययस्य" (४.३.१११) इतीत्वे शुक्लीकरोति। अग्निशब्दाद् “जातेः सम्पदा च” (७.२.१३१) इति साति अग्निसात् संपद्यते। देवशब्दाद् “देये त्रा च” (७.२.१३३) इति त्राप्रत्यये देवत्रा करोति। बहुशब्दाद् “बह्वल्पार्थात् कारकादिष्टाऽनिष्टे शस्" (७.२.१५०) इति शसि बहुशः। अत्र तस्वादयः शसन्ताः प्रत्यया दर्शिताः तदन्तानां चाव्ययत्वेऽव्ययकार्य स्यादिलुबादिकं विज्ञेयम्। तस्वादिषु धण् पर्युदस्तः, स किमर्थः? इत्याह -अधणिति किमिति। पथिद्वैधानि, संशयत्रैधानीति प्रयोगदर्शनेन प्रतिब्रूते, द्वौ प्रकारौ येषाम्, त्रयः प्रकाराः येषामित्यर्थे द्वित्रिशब्दाभ्याम् “तद्वति धण्" (७.२.१०८) इति धणि वृद्धौ च 'वैध, त्रैध' इति; ततः पथो द्वैधानि, संशयस्य त्रैधानि “षष्ठ्ययनाच्छेषे" (३.१.७६) इति समासे “एकार्थे" (३.२.८) इति षष्ठीलुपि पथिद्वैधानि, संशयत्रैधानि। अत्र यद्यव्ययसंज्ञाऽभविष्यत् तदा 'अव्ययस्य' (३.२.७) इति स्यादेर्लुप्, “तृप्तार्थपूरणाव्यया०" (३.१.८५) इति षष्ठीसमासप्रतिषेधश्चाभविष्यताम् ।।३२।।
ल.न्यास- अधणित्यादि-तस्वादयः प्रत्ययाः, ते च प्रकृत्यविनाभाविन इति तैः प्रकृतिरनुमीयते, तस्याश्चैते विशेषणत्वेनाऽऽश्रीयन्ते, ततः, “विशेषणमन्तः" (७.४.११३) इति तदन्तविज्ञानं भवतीत्याह-तदन्तमिति। किञ्च प्रत्ययस्यैवाव्ययत्वे अर्जुनत इत्यादौ प्रत्ययमात्रादव्ययादर्थवत्त्वेन नामत्वे स्याद्युत्पत्तौ “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति वचनात् प्रत्ययमात्रस्यैव प्रकृतित्वेन तदन्तत्वे पूर्वस्य च “नाम सिद०" (१.१.२१) इति पदत्वे “सपूर्वात् प्रथमान्ताद् वा” (२.१.३२) इति विकल्पप्रसङ्गः, तस्मात् तदन्तः समुदाय एवाव्ययम्, न प्रत्ययमात्रमिति। अर्जुनत इति-अत्र सप्तम्येकवचनस्य लुप् ।।३२।।
विभक्तिथमन्ततसाद्याभाः ।११।३३।। बृन्यास-विभक्तीत्यादि-तस् आदिर्येषां ते तसादयः, थम् अन्ते येषां ते थमन्ताः, थमन्ताश्च ते तसादयश्चेत्यत्र बहुव्रीहिगर्भः कर्मधारयः, तदनु विभक्तयश्च थमन्त-तसादयश्चेति द्वन्द्वः, ततश्चाभाशब्देनोष्ट्रमुखादित्वात् बहुव्रीहिः, तदन्तविधिरत्र पूर्ववत्। “स्त्यादिविभक्तिः” (१.१.१९) इति वचनादुभयी विभक्तिः-स्यादिः-त्यादिश्च, अतस्तदन्तप्रतिरूपकं क्रमेण दर्शयतिअहंयुरित्यादि-अहमस्यास्ति, शुभमस्यास्ति "ऊर्णाऽहं-शुभमो युस्” (७.२.१७) इति युसि अहंयुः, शुभंयुः। यदीदं विभक्तिप्रतिरूपकं नाभविष्यदव्ययं तदा विभक्त्यन्तरानुत्पत्तौ सत्यैकाक्षं पूर्वविभक्तेलुपि अहं पुत्रोऽस्य ‘मत्पुत्रः' इत्यादिवद् वैरूप्यमापत्स्यत। एवम् ‘अस्तिक्षीरा ब्राह्मणी' इत्यत्रास्तिशब्दस्य त्यादिविभक्त्यन्तप्रतिरूपकाव्ययत्वाभावे नामत्वाभावात् समासाभावे आब् न स्यात्। कृतमि(कुत इ)त्यादयस्तसादिप्रतिनिभाः। अहमिति प्रथमैकवचनान्तप्रतिरूपकम्। शुभमादयस्त्रयो द्वितीयान्तप्रतिरूपकाः।