Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 431
________________ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન अनु - देशा- ऽधीष्ट-सामीप्य स्वाध्याय-साम्या ऽर्थाभावाऽऽयति- निसर्ग-भृशार्थ सादृश्या - ऽनुवृत्ति- हितार्थ लक्षण- हीनार्थतृतीयार्थ-स्वाध्यायाधिक्य-वीप्सासु । देशे - अनूपो देशः । अधीष्टे - इन्द्रानुब्रूहि । सामीप्ये - अनुशोणं पाटलिपुत्रम् । स्वाध्याये - अनुपदम्, अनुवाक्यम्। साम्ये-अनुमतम्, अनुवदति । अर्थाभावे- अनुतपति । आयत्याम् - अनुशयः, अनुबन्धः । निसर्गे- अनुज्ञातोऽसि । भृशार्थे-अनुरक्तः, अनुस्मरति । सादृश्ये - अनुकरोति, अनुरूपम्। अनुवृत्तौ - सुवर्चला आदित्यमनुपर्येति । हितार्थे - अनुलोममनुक्रोशं करोति, अनुगृह्णाति। लक्षणे - वृक्षमनु विद्योतते । हीने- अनु जिनभद्रगणि व्याख्यातारः । तृतीयार्थे - नदीमन्ववसिता सेना, नद्या सहाऽ-वबद्धेत्यर्थः। स्वाध्यायाधिक्ये - अनूचान उपाध्यायः । वीप्सायाम् वृक्षमनु सिञ्चति । ४०८ अव-विज्ञाना-ऽधोभाव-स्पर्द्धा ऽऽलम्बन सामीप्य-शुद्धि-स्वादुकारेषदर्थ-व्याप्ति-भृशार्थ- निश्चय- परिभव-प्राप्ति- गाम्भीर्य वृत्तान्तवियोग-वर्चस्क-देशाख्या-ऽहितक्रिया - ऽऽश्रयस्पर्शेषु । विज्ञाने- अवगच्छति । अधोभावे - अधः क्षेपणम्-अवक्षेपणम् । स्पर्द्धायाम्अवक्षिपति मल्लो मल्ल। आलम्वने अवष्टभ्य यष्टिं गच्छति । सामीप्ये अवष्टब्धा शरत् । शुद्धौ अवदातं मुखम् । स्वादुकारे - अवदंशः पानस्य। ईषदर्थे ईषल्लोढम् - अवलीढम् । व्याप्तौ अवकीर्ण पांशुभिः । भृशार्थे- अवगाढो दोषः । निश्चये - अवधृतं कार्यम् । परिभवे-अवमन्यते। प्राप्तौ-अवाप्तोऽर्थः । गाम्भीर्ये - अवस्थितः । वृत्तान्ते - काऽवस्था । वियोगे - अवमुक्तनूपुरा कन्या। वर्चस्केअवस्करः। देशाख्यायाम्-अवकाशः। अहितक्रियायाम् अवदृष्यन्ते कार्यम् । आश्रये - अवलीनो वायसः । स्पर्शे- अवगाहसुखं तोयम् । निर्-वियोग-भृशार्थाऽभावा-ऽत्यय-प्रादुर्भाव हेत्ववधारणाऽऽदेशा-ऽतिक्रमणाऽभिनिःसरणेषु । वियोगे - वियुक्तः शल्येन - निःशल्यः । भृशार्थे - भृशं दग्धः - निर्दग्धः । अभावे - मक्षिकाणामभावः-निर्मक्षिकम्, निर्मशकम् । अत्यये अतीतमेघं नभःनिमेघम् । प्रादुर्भावे-निर्मितम्, निष्पन्नम् । हेतौ हेतुनोक्तम् निरुक्तम् । अवधारणे-निश्चयः । आदेशे-निर्देशः । अतिक्रमणे- अतिक्रान्तः कौशाम्ब्याः-निष्कौशाम्बिः। अभिनिःसरणे - अभिनिःसृतजिह्वः - निर्जिह्नः । - दुर्-ईषदर्थ-कुत्सा-वैकृत-व्यृद्धि-कृच्छ्राऽप्रतिनन्दना-ऽनीप्सासु । ईषदर्थे- दुर्बलः, दुर्गृहीतः । कुत्सायाम्-दुर्गन्धः, दुरन्तः। वैकृते-दुर्वर्णः, दुश्चर्म्मा। व्यृद्धी - कम्बोजानां व्यृद्धिः - दुष्कम्बोजम् । कृच्छ्रे-कृच्छ्रेण क्रियते दुष्करम् । अप्रतिनन्दने- असम्यगुक्तम्दुरुक्तम्। अनीप्सायाम्-अनीप्सितभगादुर्भगा । -- वि-नानार्था-ऽपाया-ऽत्यय-भय-दूर-भृशार्थ- कलहैश्वर्य-वियोग- मोह-हर्ष-कुत्सा प्रादुर्भावा-ऽनाभिमुख्या-ऽनवस्थान-प्राधान्यभोजन-संज्ञा-दाक्ष्य-व्यय-कृत्स्नाप्तिषु। नानार्थे नाना चित्रम् - विचित्रम् । अपाये - विदुःखः, विशोकः । अत्यये - व्यृक्षं नभः, विहिमः कालः । भये - विषण्णः, बिभीतः । दूरे - विकृष्टोऽध्वा । भृशार्थे - भृशं वृद्धा-विवृद्धा नद्यः, भृशं रोति विरौति । कलहे - विग्रहः, विषादः। ऐश्वर्ये-विभुर्देशस्य। वियोगे-विपुत्रः, विभूषणः, विशिरस्कः । मोहे - विचित्तः, विमनाः। हर्षे-विस्मितमुखः। कुत्सायाम्कुत्सितमङ्गं यस्य स व्यङ्गः, विरूपः । प्रादुर्भावे - प्रादुर्भूतो लोहितः - विलोहितः । अनाभिमुख्ये - विमुखः । अनवस्थाने - विभ्रान्तः । प्राधान्ये - विशिष्टः । भोजने - विपक्वम् । संज्ञायाम् - विष्किरः शकुनिः, विकिरो वा । दाक्ष्ये- - दक्षः-१ :- विक्रान्तः । व्यये शतं विनयते, सहस्रं विनयते। व्याप्तौ-कृत्स्नमस्याप्तं शरीरं दोषैर्व्याप्तम् । आङ्-मर्यादा-प्राप्ति-स्पर्श-लिप्सा-भय-श्लेष-कृच्छ्राऽऽदिकर्म्म-ग्रहणं-नीड- समीप - विक्रिया-ऽर्हणा-ऽऽवृत्त्या ऽऽशीः- स्वीकरणेपदर्या-ऽभिविधि-क्रियायोगा-ऽन्तर्भाव-स्पर्द्धा ऽऽभिमुख्योर्ध्वकर्म-भृशार्थ- प्रादुर्भाव समवाय- स्मरण - विस्मय प्रतिष्ठा-निर्देश- शक्त्यप्रसादविवृता ऽनुबन्ध-पुनर्वचनेषु। मर्यादायाम् आ पाटलिपुत्राद् वृष्टो मेघः । प्राप्तौ - आसादितः । स्पर्शे - आलिप्तः, आलभते । लिप्सायाम् - आकाङ्क्षति। भये-आविग्नः। श्लेषे - आलिङ्गति । कृच्छ्रे - आपत् । आदिकर्मणि-आरब्धः कर्तुम् । ग्रहणे - आलम्बते यष्टिम् । नीडेआवसथः, आलयः, आवासः । समीपे - आसन्नो देवः । विक्रियायाम् - आवृक्तं सुवर्णम्, आक्रन्दति बालः । अर्हणे - आमन्त्रितः । आवृत्तौ- आवृत्ती दिवसः ! आशिषि - आयुराशास्ते, पुत्रमाशास्ते । स्वीकरणे आदत्ते फलानि, आदत्ते रसान् सूर्यः । ईषदर्थे - ईषत्कृतिराकृतिः, आताम्र, आच्छाया। अभिविधौ - आ कुमारं यशः शाकटायनस्य । क्रियायोगे - आयोगः, ऐ (ए) ष्टि: । अन्तर्भावे- आपानमुदकम् ।

Loading...

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484