Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 429
________________ ४०६ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इत्यत्र बहुवचनात् तुप्रत्यये जातु अवधारण-पादपूरणयोः। यदि इति यदिनाम इत्यत्र साधितः, अर्थोऽपि स एव। यथाकथापूर्वादञ्चते: "मूलविभुजादयः" (५.१.१४४) इति के यथाकथाच अनादरेणेत्यर्थे। यमे: “पथ-यूथ०" (उणा० २३१) इत्यादिनिपातनाद् ये आत्वे च यथा योग्यता-वीप्साऽ-नतिवृत्ति-सादृश्येषु। तनेर्यथावत् तथा साम्ये। पुनःशब्दस्यं दत्वे नलोपे च पुद् कुत्सायाम्। हन्तेः "क्वचिद्" (५.१.१७१) इति डे निपातनाद् द्यादेशे च द्य हिंसाप्रातिलोम्ययोः । पूर्वमप्येष पुरा शब्दः पठितः, तत्र किल स्वरादिवत् सत्त्वभूते काले, अयं त्वसत्त्वभूते इति। “यांक प्रापणे" "यतैङ् प्रयत्ने" वा अत: “संश्चद्वेहद्०" (उणा० ८८२) इति कित्यति निपातनाद् यावत् मर्यादा-ऽवधारणपरिमाणेषु। “तनूयी विस्तारे" अस्य पूर्ववन्निपातनात् तावत् अर्थः पूर्वक एव। “दिशीत् अतिसर्जने" "वृ-मिथि०" (उणा० ६०१) इत्याप्रत्यये ट्यागमे च दिष्ट्या प्रीति-सेवनयोः, सभाजन-प्रातिलोम्ययोर्वा। "मृत् प्राणत्यागे" अत: "स्वरेभ्यः” (उणा० ६०६) इति इप्रत्यये मरि, तत्पूर्वादटते: “क्वचिद्” (५.१.१७१) इति डे आकारे मर्या सीमबन्धे। “अमण रोगे" अतोऽलि आम पीडायाम्। नमेञि नाम प्रकाश्य-संभाव्य-क्रोधोपगम-कुत्सनेषु। “असूच क्षेपणे" अतः “रुक्मग्रीष्म०" (उणा० ३४६) इति निपातनान्मेऽकारलोपे च स्म अतीते पादपूरणे च। इतिपूर्वाज्जहाते: “आतो डोऽहावामः" (५.१.७६) इति डे इतिह पुराश्रुतौ। सहे: “अः" (उणा० २) इत्यकारे सह तुल्ययोग-विद्यमानयोः। नपूर्वान्माते: “डित्" (उणा० ६०५) इत्याकारे अमा सहार्थे समीपे च। संपूर्वादविचि समम् समन्ततोऽर्थे। “सत्रणि संदानक्रियायाम्" अतः “डित्" (उणा० ६०५) इत्यकारे सत्रा, स्यतेर्विचि तत्पूर्वात् कमेर्विचि साकम्, सापूर्वाद् ऋध्यते: “सोरेतेरम्” (उणा० ९३४) इति बाहुलकादमि गुणे च सार्द्धम् एते त्रयोऽपि सहार्थे। "ईंच् गतौ," "कमूङ् कान्तौ," “षम वैक्लव्ये" एभ्य: “ईङ्-कमि-शमि-समिभ्यो डित्" (उणा० ६०५) इति डिदीम्प्रत्यये ईम्, कीम्, सीम् निर्देश-निवेदन-वाक्यपादपूरणेषु। ईम् अव्यक्ते, कीम् संशय-प्रश्नानुमानेषु, सीम् अभिनयव्याहरणा-ऽमर्ष-पादपूरणेष्चित्येके। आपूर्वादमेर्विचि आम् प्रतिवचना-ऽवधारणयोः। आस्तेः क्विपि आस् स्मृति-खेदयोः कोपे च। एतेः "दृ-मुषि०" (उणा० ६५१) इति किति तौ इति एवमर्थे आद्यर्थे हेत्वर्थे प्रकारार्थ शब्दप्रादुर्भावे ग्रन्थसमाप्तौ पदार्थविपर्यासादौ च। अवे: “अः" (उणा० २) इत्यप्रत्यये अव, “अड उद्यमे," "अट गतौ" आभ्यां पूर्ववद् अः, अड, अट, एते त्रयोऽपि भर्त्सने। बाह्यशब्दस्य निपातनादाकारः बाह्या निष्पत्तौ। अनुषजेः क्विपि अनुषक् अनुमाने, केचित् तान्तम्, अन्ये दान्तम्, अपरे दीर्घादि च मन्यन्ते। खनेर्बाहुलकाद् डोसि खोस् कुत्सायाम्। “अट गतौ” "क्वचिद्” (५.१.१७१) इति डे अ, अस्मादेव डित्याकारे आ, एति-ईयतिभ्यां क्विपि अनित्यत्वात् तागमाभावे इ, ई, "उङ् शब्दे" "ऊयैङ् तन्तुसन्ताने" इत्याभ्यां क्विपि यलोपे च उ, ऊ, “ऋक् गतौ" "ऋश् गतौ" उभयोरेव ऋ, ऋ, अनयोरेव "ऋफिडादीनां०" (२.३.१०४) इति लत्वे ल, लु, इण उडश्च विचि गुणे ए, ओ, निपातनाद् वृद्धौ च ऐ, औ, एते चतुर्दशापि पूरण-भर्त्सनाऽऽमन्त्रण-निषेधेषु। ____ "प्रांक् पूरणे" अत: “क्वचिद्" (५.१.१७१) इति डे प्र। "पृश् पालन-पूरणयोः" अतः “समिण-निकषिभ्यामाः" (उणा० ५९८) इति बहुलवचनादाप्रत्यये गुणे च परा। अवतेः “उभ्यवेर्लुक्च" (उणा० ३०३) इति पप्रत्यये वलोपे च अप। “षम वैक्लव्ये" अत: "गमि-जमि०" (उणा० ९३७) इति डित्यमि सम्। “अन, श्वसक् प्राणने" अतः "भृ-मृ-तृत्सरि०" (उणा० ७१६) इत्युप्रत्यये अनु। अवतेरप्रत्यये अव। नयतेः “नियो डित्” (उणा० ९९४) इति डिदिसि निस्, “दुषंच वैकृत्ये" अतः “दुषेडिंत्" (उणा० ९९९) डित्युसि दुस्, निपादनाद् हस्वत्वं (रेफत्वं) च निर्, दुर्, इत्याह-एतौ रान्तावपि। “वींक् प्रजननादौ" "नी-वीप्रहभ्यो डित्" (उणा० ६१६) इति डितीकारेऽन्तलोपे वि। अनितेर्डित्याप्रत्यये डिद्योगे च आङ्। नयते: “नी-वी-प्रहभ्यो डित्" (उणा० ६१६) इति इकारे नि। “प्रथिष् प्रख्याने” अतः "प्रथेनुंक्च" (उणा० ६४६) इति तिप्रत्यये थलोपे च प्रति। पृणातेः "स्वरेभ्यः" (उणा० ६०६) इति इप्रत्यये गुणे च परि। “उभत् पूरणे" अत: "उभ्यवेलुंक्च" (उणा० ३०३) इति पप्रत्यये उप। “अदंक भक्षणे" अत: “तृ-भ्रम्वद्यापी०" (उणा० ६११) इति इप्रत्यये अधादेशे च अधि। “आप्लँट् व्याप्तौ" अतः पूर्वसूत्रेण इप्रत्यये

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484