Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 428
________________ परिशिष्ट - २ 13 ૪૦૫ च भोस्, भगोस्, अघोस्, अङ्गरेव "द्यु-गमिभ्यां डोः " ( उणा० ८६७) इति बाहुलकाद् डोप्रत्यये परे अन्त्यस्वरादिलोपाभावे च अङ्घे, हंपूर्वात् केवलाद् नञ्पूर्वाद् आङ्पूर्वाद् उत्तापूर्वाच्च जहातेः पूर्ववद् डोप्रत्यय: हंहो, हो, अहो, आहो, उताहो नवाप्येते संबुद्धौ। जहाते: “डित्” (उणा० ६०५ ) इति डित्याप्रत्यये हा विषाद- शोकार्तिषु । जहातेः "वातात् प्रमः कित्" ( उणा० ७१३) इति बाहुलकादीकारे ही विस्मये । हिनोतेर्विचि गुणे च हे, हिनोतेरेव बाहुलकाद् डैप्रत्यये है, एकारे प्रत्यये गुणे च हये, एतेः "स्वरेभ्य इ: " ( उणा० ६०६) इति इप्रत्यये अयि, अस्यैव बाहुलकादेकारे अये, अते: "ऋच्छि चटि वटि कुटि० " ( उणा० ३९७) इति सूत्रेण अरप्रत्यये गुणे बाहुलकादेकारान्तत्वे च अररे, अमेः " गम्यमिरम्यजि० " ( उणा० ९२) इति गे अङ्ग, रीयतेर्विचि रे, नञ्पूर्वस्यास्यैव विचि अरे, "वींक् प्रजनादौ” नञ्पूर्वादतो विचि अवे, दशैतेऽनुशय-संबोधनयोः । नञ्पूर्वान्नौतेः क्विपि निपातनात् तागमाभावे ननु विरोधोक्तौ अनन्वयादौ च । शुकम्, सुकम्, नुकम्, हिकम्, नहिकम् स्वादिपूर्वात् कमेः “गमि-जमि-क्षमि-कमिशमि-समिभ्यो डित् " ( उणा० ९३७) इति डिदम्, पञ्चैते प्रत्याख्याने । अवतेः " अवेर्मः " ( उणा० ९३३) इति मे "मव्यविश्रिवि० ' (४.१.१०९) इत्यूटि कृते निपातनाद् गुणाभावे ऊम् प्रश्ने । जुहोतेः क्विप् निपातनान्मान्तत्वम् हुम् भर्त्सने । कौतेः पूर्ववत् कुम् प्रश्ने । वयतेः क्विपि य्वृति निपातनाद् ञिद्योगे च उञ् अस्ति सत्त्वे रुषोक्तौ च । “सुं प्रसवैश्वर्ययोः" पूर्ववत् सुञ् । कम् इति स्वरा ज्ञातव्यम्। “हम्म गतौ” अतः क्विपि निपातनान्मलोपे च हम् रोषानुकम्पादौ । कौति (कौतेः) “कोर्डिम् " ( उणा० ९३९) इति डिमि किम् प्रश्ने वितर्के च । हिनोतेः "कोर्डिम्” इति बाहुलकाद् डिम् हिम् संभ्रम-भर्त्सनयोः। “अदंक् भक्षणे” क्विपि अद् 'विस्मये । "कदु रोदनाऽऽह्वानयोः” क्विपि निपातनाद् नलोपे च कद् कुत्सायाम् । “यजीं देवपूजादौ" "तनूयी विस्तारे" आभ्यां इदि प्रत्यये यद्, तद् हेत्वर्थ-वाक्योपन्यासयोः । एतेः क्विपि तागमे निपातनाद् दत्वे च इद् अपूर्व एवार्थे ईषदर्थे च । चिनोतेरिद्वत् चिद् प्रश्नाऽवधारणयोः। कुपूर्वादेतेः क्विपि तागमे गणपाठाद् दत्वे च क्विद् भर्त्सनपादपूरणयोः । “ष्विदांच् गात्रप्रक्षरणे" क्विपि स्विद् विमर्शप्रश्नयोः । वयते “शी-री-भू-दू-षु०” (उणा० २०१) इत्यत्र बहुवचनात् किति ते य्वृति च उत विकल्पे । "वनूयी याचने” अतोऽपि पूर्ववत् ते 'यमि-रमि-नमि०' (४.२.५५ ) इति नलोपे च बत खेदा - ऽनुकम्पा - संतोष-विस्मया-ऽऽमन्त्रणेषु । एते: “निर्घृषी० " ( उणा० ५११) इत्यत्र बहुवचनाद् वप्रत्यये इव उपमा-ऽवधारणयोः । तौतेः क्विपि निपातनात् तागमाभावे तु विशेषण-पादपूरणयोः । नौतेः पूर्ववत् नु वितर्के पादपूरणे च। यत्पूर्वाञ्चिनोतेः “क्वचिद्” (५.१.१७१) इति डे यच वाक्यान्तरोपक्रमे । “कचि दीप्तौ " अतः “विदन-गगनगहनादयः” (उणा० २७५) इति निपातनादने कञ्चन क्वचिदर्थे । किंपूर्वाद् वयतेः पूर्ववत् किति ते किमुत विकल्पे । “किल श्वैत्यक्रीडनयोः” “नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः " (५.१.५४) इति के किल संप्रश्न - वार्तयोः । किंपूर्वात् किलेः किङ्किल किलार्थे। किंस्वित्, उदस्वित्, आहोस्वित् किमादिपूर्वात् स्विदेः क्विपि उदोऽकारागमश्च, त्रयोऽप्येते प्रश्नवितर्क-विकल्पेषु । अहपूर्वाज्जहातेः "क्वचिद्” (५.१.१७१) इति डे अहह अद्भुत खेदयोः । नहपूर्वाद् वातेः "रातेर्डेः " ( उणा० ८६६) इति बाहुलकाडु: नहवै, वातेरेव नञ्पूर्वात् पूर्ववद्धैः नवै द्वावपि प्रत्याख्याने । नञ्पूर्वाद् वाते: “डत्” (उणा० ६०५ ) इत्याप्रत्यये नवा विभाषायाम् । “अन श्वसक् प्राणने” अतः “स्था-च्छा-मा-सा० " ( उणा० ३५७ ) इति ये निपातनात् तकारे अन्यत् अन्यार्थः । अन्यपूर्वात् त्रायतेः " आतो डोऽह्वावामः” (५.१.७६) इति डे अन्यत्र अन्याधिकरणे काले । शपतेः क्विपि "जपादीनां पो वः " (२.३.१०५) इति पस्यैकत्र वत्वे शव्, शप् द्वावपि प्रतिग्रहे। अथपूर्वात् कौतेः "कोर्डिम् " ( उणा० ९३९) इति डिमि अथकिम् अङ्गीकारे । “विष्टंकी व्याप्तौ " अतः "पृ-का- हषि - धृषि० " ( उणा० ७२९) इत्यत्र बहुवचनात् कित्युकारे विषु नानात्वे । पटेः क्विपि पट् पाटवे । स्पशेः सौत्रात् "स्पशिभ्रस्जेः स्लुक्च” (उणा० ७३१) इत्युप्रत्यये सकारलोपे च पशु दृश्यर्थे। “खल संचये” इत्यतः “भृ-मृ-तृ-त्सरि०” (उणा० ७१६) इत्यत्र बहुवचनादुप्रत्यये खलु निषेध - वाक्यालङ्कार- जिज्ञासा ऽनुनयेषु । यत्पूर्वादेतेः क्विपि अनित्यत्वात् तागमाभावे यदि, तत्पूर्वाञ्च नमेर्घञ यदिनाम पक्षान्तरे । यत्पूर्वात् प्रतिपूर्वा वयतेः किति ते प्रत्यये य्वृति च यदुत पराशयप्रकाशनादौ प्रत्युत उक्तवैपरीत्ये । यत्पूर्वादतेः "डित् " ( उणा० ६०५ ) इति डाप्रत्यये यदा देशाद्यधिकरणे । “जैं क्षये" अतः “कृ-सि-कम्यमि-गमि० " ( उणा० ७७३)

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484