________________
परिशिष्ट - २
13
૪૦૫ च भोस्, भगोस्, अघोस्, अङ्गरेव "द्यु-गमिभ्यां डोः " ( उणा० ८६७) इति बाहुलकाद् डोप्रत्यये परे अन्त्यस्वरादिलोपाभावे च अङ्घे, हंपूर्वात् केवलाद् नञ्पूर्वाद् आङ्पूर्वाद् उत्तापूर्वाच्च जहातेः पूर्ववद् डोप्रत्यय: हंहो, हो, अहो, आहो, उताहो नवाप्येते संबुद्धौ। जहाते: “डित्” (उणा० ६०५ ) इति डित्याप्रत्यये हा विषाद- शोकार्तिषु । जहातेः "वातात् प्रमः कित्" ( उणा० ७१३) इति बाहुलकादीकारे ही विस्मये । हिनोतेर्विचि गुणे च हे, हिनोतेरेव बाहुलकाद् डैप्रत्यये है, एकारे प्रत्यये गुणे च हये, एतेः "स्वरेभ्य इ: " ( उणा० ६०६) इति इप्रत्यये अयि, अस्यैव बाहुलकादेकारे अये, अते: "ऋच्छि चटि वटि कुटि० " ( उणा० ३९७) इति सूत्रेण अरप्रत्यये गुणे बाहुलकादेकारान्तत्वे च अररे, अमेः " गम्यमिरम्यजि० " ( उणा० ९२) इति गे अङ्ग, रीयतेर्विचि रे, नञ्पूर्वस्यास्यैव विचि अरे, "वींक् प्रजनादौ” नञ्पूर्वादतो विचि अवे, दशैतेऽनुशय-संबोधनयोः । नञ्पूर्वान्नौतेः क्विपि निपातनात् तागमाभावे ननु विरोधोक्तौ अनन्वयादौ च । शुकम्, सुकम्, नुकम्, हिकम्, नहिकम् स्वादिपूर्वात् कमेः “गमि-जमि-क्षमि-कमिशमि-समिभ्यो डित् " ( उणा० ९३७) इति डिदम्, पञ्चैते प्रत्याख्याने । अवतेः " अवेर्मः " ( उणा० ९३३) इति मे "मव्यविश्रिवि० ' (४.१.१०९) इत्यूटि कृते निपातनाद् गुणाभावे ऊम् प्रश्ने । जुहोतेः क्विप् निपातनान्मान्तत्वम् हुम् भर्त्सने । कौतेः पूर्ववत् कुम् प्रश्ने । वयतेः क्विपि य्वृति निपातनाद् ञिद्योगे च उञ् अस्ति सत्त्वे रुषोक्तौ च । “सुं प्रसवैश्वर्ययोः" पूर्ववत् सुञ् । कम् इति स्वरा ज्ञातव्यम्। “हम्म गतौ” अतः क्विपि निपातनान्मलोपे च हम् रोषानुकम्पादौ । कौति (कौतेः) “कोर्डिम् " ( उणा० ९३९) इति डिमि किम् प्रश्ने वितर्के च । हिनोतेः "कोर्डिम्” इति बाहुलकाद् डिम् हिम् संभ्रम-भर्त्सनयोः। “अदंक् भक्षणे” क्विपि अद् 'विस्मये । "कदु रोदनाऽऽह्वानयोः” क्विपि निपातनाद् नलोपे च कद् कुत्सायाम् । “यजीं देवपूजादौ" "तनूयी विस्तारे" आभ्यां इदि प्रत्यये यद्, तद् हेत्वर्थ-वाक्योपन्यासयोः । एतेः क्विपि तागमे निपातनाद् दत्वे च इद् अपूर्व एवार्थे ईषदर्थे च । चिनोतेरिद्वत् चिद् प्रश्नाऽवधारणयोः। कुपूर्वादेतेः क्विपि तागमे गणपाठाद् दत्वे च क्विद् भर्त्सनपादपूरणयोः । “ष्विदांच् गात्रप्रक्षरणे" क्विपि स्विद् विमर्शप्रश्नयोः । वयते “शी-री-भू-दू-षु०” (उणा० २०१) इत्यत्र बहुवचनात् किति ते य्वृति च उत विकल्पे । "वनूयी याचने” अतोऽपि पूर्ववत् ते 'यमि-रमि-नमि०' (४.२.५५ ) इति नलोपे च बत खेदा - ऽनुकम्पा - संतोष-विस्मया-ऽऽमन्त्रणेषु । एते: “निर्घृषी० " ( उणा० ५११) इत्यत्र बहुवचनाद् वप्रत्यये इव उपमा-ऽवधारणयोः । तौतेः क्विपि निपातनात् तागमाभावे तु विशेषण-पादपूरणयोः । नौतेः पूर्ववत् नु वितर्के पादपूरणे च। यत्पूर्वाञ्चिनोतेः “क्वचिद्” (५.१.१७१) इति डे यच वाक्यान्तरोपक्रमे । “कचि दीप्तौ " अतः “विदन-गगनगहनादयः” (उणा० २७५) इति निपातनादने कञ्चन क्वचिदर्थे । किंपूर्वाद् वयतेः पूर्ववत् किति ते किमुत विकल्पे । “किल श्वैत्यक्रीडनयोः” “नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः " (५.१.५४) इति के किल संप्रश्न - वार्तयोः । किंपूर्वात् किलेः किङ्किल किलार्थे। किंस्वित्, उदस्वित्, आहोस्वित् किमादिपूर्वात् स्विदेः क्विपि उदोऽकारागमश्च, त्रयोऽप्येते प्रश्नवितर्क-विकल्पेषु । अहपूर्वाज्जहातेः "क्वचिद्” (५.१.१७१) इति डे अहह अद्भुत खेदयोः । नहपूर्वाद् वातेः "रातेर्डेः " ( उणा० ८६६) इति बाहुलकाडु: नहवै, वातेरेव नञ्पूर्वात् पूर्ववद्धैः नवै द्वावपि प्रत्याख्याने । नञ्पूर्वाद् वाते: “डत्” (उणा० ६०५ ) इत्याप्रत्यये नवा विभाषायाम् । “अन श्वसक् प्राणने” अतः “स्था-च्छा-मा-सा० " ( उणा० ३५७ ) इति ये निपातनात् तकारे अन्यत् अन्यार्थः । अन्यपूर्वात् त्रायतेः " आतो डोऽह्वावामः” (५.१.७६) इति डे अन्यत्र अन्याधिकरणे काले । शपतेः क्विपि "जपादीनां पो वः " (२.३.१०५) इति पस्यैकत्र वत्वे शव्, शप् द्वावपि प्रतिग्रहे। अथपूर्वात् कौतेः "कोर्डिम् " ( उणा० ९३९) इति डिमि अथकिम् अङ्गीकारे । “विष्टंकी व्याप्तौ " अतः "पृ-का- हषि - धृषि० " ( उणा० ७२९) इत्यत्र बहुवचनात् कित्युकारे विषु नानात्वे । पटेः क्विपि पट् पाटवे । स्पशेः सौत्रात् "स्पशिभ्रस्जेः स्लुक्च” (उणा० ७३१) इत्युप्रत्यये सकारलोपे च पशु दृश्यर्थे। “खल संचये” इत्यतः “भृ-मृ-तृ-त्सरि०” (उणा० ७१६) इत्यत्र बहुवचनादुप्रत्यये खलु निषेध - वाक्यालङ्कार- जिज्ञासा ऽनुनयेषु । यत्पूर्वादेतेः क्विपि अनित्यत्वात् तागमाभावे यदि, तत्पूर्वाञ्च नमेर्घञ यदिनाम पक्षान्तरे । यत्पूर्वात् प्रतिपूर्वा वयतेः किति ते प्रत्यये य्वृति च यदुत पराशयप्रकाशनादौ प्रत्युत उक्तवैपरीत्ये । यत्पूर्वादतेः "डित् " ( उणा० ६०५ ) इति डाप्रत्यये यदा देशाद्यधिकरणे । “जैं क्षये" अतः “कृ-सि-कम्यमि-गमि० " ( उणा० ७७३)