________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ४०४ लभते, दृश्यर्थे यथा-'जना लोभं न यन्ति पशु मन्यमानाः' इति, अत्र दृश्यर्थन मननं विशेष्यते, दर्शनीयं ज्ञानं प्रतिपन्ना जना लोभं परित्यजन्तीत्यर्थः । “चिंग्ट चयने" अतो “नञः कमि-गमि०" (उणा० ४) इति बाहुलकाद् डित्यकारे च अन्वाचय-समाहारेतरेतरयोग-समुच्चयेषु। नञपूर्वाज्जहातेः पूर्ववद् डित्यकारे "नजत्" (३.२.१२५) इत्यत्वे अह निर्देश-विनियोग-किलार्थेषु । जहातेः पूर्ववद् डः, ह अवधारणे पादपूरणे च। “वन भक्तौ" अतः “डित्" (उणा० ६०५) इति डित्याकारे वा विकल्पोपमानयोः। “इंण्क् गतौ" अतः "लटि-खटि-खलि०" (उणा० ५०५) इति वे गुणे च एव अवधारण-पृथक्त्व-परिमाणेषु, अस्यैव निपातनाद् मान्तत्वे एवम् उपमानोपदेश-प्रश्नावधारण-प्रतिज्ञानेषु। “णूत् स्तवने" अतः “नशि-ब्रूभ्यां नक्तनूनौ च” (उणा० ९३५) इत्यम्प्रत्यये नूनादेशे च नूनम् तर्केऽर्थनिश्चये च। शश्वत् इति स्वरादावपि पठितः। सुपूर्वात् कुपूर्वाञ्च पतेः क्विपि बाहुलकाद् दीर्घत्वे च सूपत्, कूपत् द्वावपि प्रश्न-वितर्कप्रशंसासु। क्वचित् स्वरादावप्यधीतः। नयतेश्चिनोतेश्च विचि निपातनात् तागमे नेत्, चेत् द्वावपि प्रतिषेधविचारसमुञ्चयेषु। नञ्पूर्वात् चिनोतेरेव पूर्ववद् नचेत् निषेधे। चण्णिात-चशब्द एवायं णित् चेदर्थे पठ्यते, अयं च दास्यति, अयं चेद् दास्यतीत्यर्थः । केचित् तु “चण शब्दे" इत्यस्य विजन्तस्य रूपमिच्छन्ति, तत् तु न बुद्ध्यामहे । कुपूर्वाच्चिनोतेः क्विपि निपातनात् कन्द्रावे कञ्चित् इष्टप्रश्रे। “यतैङ् प्रयत्ने" अतः "त्रट्" (उणा० ४४६) इति त्रुटि यत्र कालेऽधिकरणे। "'णहींच् बन्धने' अतः "अः" (उणा० २) इत्यप्रत्यये नह प्रत्यारम्भ-विषाद-प्रतिविधिषु। नह्यते: मण्यादित्वादिकारे नहि अभावे। 'हनंक हिंसा-गत्योः' अत: “दम्यमि-तमि०" (उणा० २००) इत्यत्र बहुवचनात् ते हन्त प्रीति-विषाद-संप्रदानेषु। माङ्पूर्वान्नपूर्वाञ्च कायतेर्बाहुलकाद् डितीसि आकारलोपे “नञत्" (३.२.१२५) इत्यत्वाभावे च माकिस्, नकिस्, द्वावपि निषेधे वर्जने च। “मांक माने” अतः "डित्" (उणा० ६०५) इत्याप्रत्यये आकारलोपे च मा, ‘अङित् माशब्दो नास्ति' इत्यन्ये, ङिद्योगे माङ्, नह्यते हुलकाद् डकारे न, जिद्योगे च नञ्, एते सर्वेऽपि निषेधे। वाते: “लटि-खटि-खलि०" (उणा० ५०५) इत्यत्र बहुवचनाद् वे वाव संबोधने। "तुंक् वृत्ति-हिंसा-पूरणेषु” (“णुक् स्तुतौ") इत्याभ्याम् “प्रह्वाऽऽह्वा-यह्वा०" (उणा० ५१४) इति निपातनाद् वे आकारे गुणाभावे च त्वाव, न्वाव, वात-तौति-नौतिभ्यः “संश्चद्वेहत्साक्षादादयः" (उणा० ८८२) इति कति प्रत्यये आवागमे च वावत्, त्वावत्, न्वावत्, एते सर्वेऽपि अनुमान-प्रतिज्ञा-प्रेष-समाप्तिषु। तौतेर्बाहुलकाद् डितैकारे (ङित्यकारे) वत्वे तुवादेशे च त्वै तुवै, नौतेः पूर्ववत् न्वै नुवै चत्वारोऽप्येते वितर्के पादपूरणे च। "रांक दाने" अतः “रातेः" (उणा० ८८६) इति डिदैकारे अन्तलोपे रै दाने दीप्तौ च। वाते हुलकात् पूर्वेण डैप्रत्यये वै स्फुटार्थे। श्रृणोति-वाति-वष्टिभ्यो बाहुलकादटि प्रत्यये यथाक्रमं श्रौष्-वौष्-वषाऽऽदेशे च श्रौषट्, वौषट्, वषट् देवहविर्दानादौ। “वट वेष्टने" अतो विचि बाहुलकादुपान्त्यस्य विकल्पेन दीर्घत्वे वट वाट, "विट शब्दे" अतो विचिगुणे च वेट्, एते त्रयोऽपि वियोगे वाक्य-पादपूरणयोः। पटेणिगन्तात् क्विपि पाट, अपिपूर्वादटेणिगन्तात् क्विपि निपातनादपिशब्दस्याकारलोपे च प्याट् द्वावप्येतौ संबोधने। अत्र डकार केचित् पठन्ति। “स्फट विशरणे" अतो बाहुलकात् क्विपि सकारलोपे च फट, अस्पैव हुंपूर्वस्य हुंफट्, छमेर्विचि छम्, तत्पूर्वाद् वटेविचि छंवट, एते त्रयोऽपि भर्त्सनसंबोधने। नपूर्वाद् दधातेः "क्वचिद्" (५.१.१७१) इति डे नोऽत्वे च अध अधोऽर्थे। आपूर्वादततेः क्विपि आत् कोप-पीडयोः। “स्वदि आस्वादने" अतः "मुचि-स्वदेर्ध च" (उणा० ६०२) इत्याप्रत्यये दस्य धाऽऽदेशे च स्वधा पितृबलौ। सुपूर्वाद् “बॅग्क् व्यक्तायां वाचि" इत्यतः "सोबॅग आह च” (उणा० ६०३) इत्याकारे आहादेशे च स्वाहा हविर्दाने। अलम् इति स्वरादौ निरूपितम्। “चन शब्दे" "अ:" (उणा० २) इत्यकारे चन अप्यर्थे पादपूरणे च। हिनोतेः क्विपि *आगमशासनमनित्यम् इति तागमाभावे च हि हेताववधारणे च। “अम गतौ" अतः “पथ-यूथ-गूथ-कुथ-तिथनिथ-सूरथादयः" (उणा० २३१) इति थे निपातनान्मकाराभावे च अथ मङ्गलानन्तरारम्भ-प्रश्न-कात्रन्र्येषु। ओमिति स्वरादौ पठितम्। अथ शब्दस्यैव निपातनादोकारे अथो अन्वादेशादौ। “णुक् स्तुतौ" अतो विचि गुणे च नो निषेधे। नौतेः “त्रियो हिक्" (उणा० ७१०) इति बाहुलकाद् हौ गुणे च नोहि निषेधे। भातेर्भपूर्वाद् गमेः "अघुङ् गत्याक्षेपे" अतश्च “यमि-दमिभ्यां डोस्" (उणा० १००५) इति बहुलवचनाद् डोसि प्रत्यये अङघेस्त्वन्त्यस्वरादिलोपाभावे नलोपे