________________
परिशिष्ट-२
४०3 चेत्यादि-न व्येति-न नानात्वं गच्छति सत्त्वधर्मान्न गृह्णाति इत्यन्वर्थसिद्धिः । अयमर्थ:-यदन्वर्थसंज्ञाकरणाद् द्वितीयमव्ययमित्युपस्थापितं तद् विशेष्यत्वेन विज्ञायते, तस्य स्वरादीति विशेषणत्वेन, ततश्च “विशेषणमन्तः" (७.४.११३) इति न्यायात् तदन्तविज्ञानम्, केवलस्य तु व्यपदेशिवद्भावात्, परमोच्चैरित्यादावप्यव्ययसंज्ञा विज्ञायत इत्यर्थः । यद् अव्ययम् अक्षयं शब्दरूपं किंविशिष्टम् ? स्वरादि स्वराद्यन्तं तदव्ययसंज्ञं भवतीति च सूत्रार्थः समजनि। इति स्वरादय इति-इतिशब्द एवंप्रकारार्थः, एवंप्रकाराः स्वरादयो गृह्यन्ते न त्वेतावन्त इत्यर्थः । यतः
"इयन्त इति संख्यानं निपातानां न विद्यते।
प्रयोजनवशादेते निपात्यन्ते पदे पदे" ।।१०।। आकृतिगणार्थमिति-आक्रियतेऽनयेति आकृतिर्वणिकाप्रकारः, तस्या गणस्तदर्थमिति। “अव्ययीभावस्य चाव्ययत्वं नाङ्गीकर्तव्यम्, तदङ्गीकारेण हि उच्चकैर्नीचकैरित्यादिवद्" 'उपाग्नि, प्रत्यग्नि' इत्यत्रापि “अव्ययस्य को द् च" (७.३.३१) इति अक् प्रसज्येत। तथा उपकुम्भंमन्यमित्यादौ ‘दोषामन्यमहः' इत्यादिवद् मागमप्रतिषेधः स्यात्। अथाव्ययीभावस्य "तृप्तार्थपूरणाव्यय०" (३.१.८५) इति षष्ठीसमासप्रतिषेधोऽव्ययसंज्ञाफलमिति चेत् ? न-तत्र समासकाण्डे बहुलाधिकारादेव सेत्स्यतीति। किञ्च, अव्ययीभाव इति महती संज्ञां यच्च कृतवान् आचार्यस्तज्ज्ञापयति-क्वचिदव्ययत्वमपीति, तेन चैत्रस्योपकुम्भमित्यत्र न समासः ।।३०।।।
चादयोऽसत्त्वे ।१।१।३१।। बृन्यास-चादय इत्यादि-अयं सत्त्वशब्दोऽस्ति द्रव्यपदार्थकः, सीदन्त्यस्मिन् जाति-गुण-क्रिया-लिङ्ग-संख्या-संबन्धा इति व्युत्पत्त्या, यथा-सत्त्वमयं मुनिः, सत्त्वमियं ब्राह्मणीति। अस्त्येव क्रियापदार्थकः, सतो भावः सत्त्वमिति, तदा हि साध्यमानतया क्रियारूपापन्ना सत्तैव सत्त्वशब्दाभिधेया। तत्रार्थद्वयेऽपि सत्त्वशब्दप्रयोगदर्शनाद् विशेषावगतौ प्रमाणानुपलम्भात् कस्येदं ग्रहणम्?, उच्यते-विधि-प्रतिषेधयोर्द्रव्यहेतुत्वाद् द्रव्यपदार्थकस्यैवेदं ग्रहणम्। यदि तु सत्त्वशब्देन सत्तोच्येत तदा प्रतिषेधोऽनर्थकः स्यात्, नहि चादिषु सत्तावाची कश्चिच्छब्दोऽस्ति यदर्थो निषेधः स्यात्। 'पशुवै पुरुषः' इत्यत्र च पशुशब्दस्य चादिषु पठितत्वादसत्तावाचित्वादव्ययसंज्ञाप्रसङ्गः, तथा 'चः पठितः' 'हि यस्मादर्थे' इत्यादिचाद्यनुकरणानां चेति विधि-प्रतिषेधावभिमतविषयौ न व्यवतिष्ठेयाताम्, द्रव्यवचने तु व्यवतिष्ठेते। द्रव्यशब्देन चात्र इदम्-तदितिसर्वनाम-प्रत्यवमर्शयोग्यं जात्यादिभिरवच्छिद्यमानं विशेष्यस्वरूपं वस्त्वभिधीयते, तदुक्तम्
__"वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः ॥२३।। भेद्यत्वेन जात्यादिभिर्विशेष्यत्वेनेत्यर्थ इत्याह सीदत इति-विशेषणभावेनेति शेषः। नन्वसत्त्वे इति पर्युदासो वाऽयं स्याद्-यदन्यत् सत्त्ववचनादिति? प्रसज्यप्रतिषेधो वा-सत्त्ववचने नेति? तत्र यद्ययं पर्युदासः स्यात् तदा 'सत्त्वादन्यत्र वर्तमानाश्चादयोऽव्ययसंज्ञा भवन्ति' इत्येष सूत्रार्थः स्यात्। तत्र विप्रशब्दस्यापि विप्रातीति डप्रत्ययान्तस्य क्रियोपसर्जनद्रव्यवाचित्वात् केवलाद् द्रव्यात् क्रियाद्रव्यसमुदायस्यान्यत्वाद् द्रव्यादन्यस्मिन्नर्थे वर्तमानत्वाद् विधेः प्राधान्यात् क्रमपाठादव्ययमितिविशेष्यसंनिधापिततदन्तविधिष्विष्टत्वादव्ययसंज्ञया भाव्यम्, अस्ति च प्रादिभिरस्य सारूप्यमित्यविभक्त्यन्तश्रवणप्रसङ्गः। चादिषु पठितस्य वा पशुशब्दस्य जातिव्यवच्छिन्नद्रव्ये वर्तमानस्य संज्ञा स्यात्, या हि जातिविशिष्टे द्रव्ये वर्त्तते सा जातिद्रव्यसमुदायात्मकमर्थमाह, यश्चैवंविधोऽर्थः स केवलाद् द्रव्यादन्यो भवति, सत्त्वं चेत् त(सत्यां चैत)स्याव्ययसंज्ञायामयं पशुरिति विभक्तिश्रवणं न स्यात्। अथ प्रसज्यप्रतिषेधः, न दोषो भवति। यथा न दोषस्तथाऽस्तु। तत्र हि यत्र द्रव्यगन्धोप्यस्ति तत्र सर्वत्र प्रतिषेधेन भाव्यम्, निषेधप्राधान्याद्, अस्ति चेह द्रव्यगन्धः, विप्रत्व-पशुत्वजात्याश्रयस्य द्रव्यस्य विप्रपशुशब्दाभ्यामभिधानादिति प्रसज्यप्रतिषेध एव ज्यायानिति। अत एवाहततोऽन्यत्रेति। अन्यत्रेति-सत्त्वाभावे, सत्त्वे चेन वर्त्तन्ते इत्यर्थः । क्व तर्हि वर्तमानः पशुशब्दोऽसत्त्ववचनो भवति? यत्र वृत्तोऽव्ययसंज्ञां