________________
४०६
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इत्यत्र बहुवचनात् तुप्रत्यये जातु अवधारण-पादपूरणयोः। यदि इति यदिनाम इत्यत्र साधितः, अर्थोऽपि स एव। यथाकथापूर्वादञ्चते: "मूलविभुजादयः" (५.१.१४४) इति के यथाकथाच अनादरेणेत्यर्थे। यमे: “पथ-यूथ०" (उणा० २३१) इत्यादिनिपातनाद् ये आत्वे च यथा योग्यता-वीप्साऽ-नतिवृत्ति-सादृश्येषु। तनेर्यथावत् तथा साम्ये। पुनःशब्दस्यं दत्वे नलोपे च पुद् कुत्सायाम्। हन्तेः "क्वचिद्" (५.१.१७१) इति डे निपातनाद् द्यादेशे च द्य हिंसाप्रातिलोम्ययोः । पूर्वमप्येष पुरा शब्दः पठितः, तत्र किल स्वरादिवत् सत्त्वभूते काले, अयं त्वसत्त्वभूते इति। “यांक प्रापणे" "यतैङ् प्रयत्ने" वा अत: “संश्चद्वेहद्०" (उणा० ८८२) इति कित्यति निपातनाद् यावत् मर्यादा-ऽवधारणपरिमाणेषु। “तनूयी विस्तारे" अस्य पूर्ववन्निपातनात् तावत् अर्थः पूर्वक एव। “दिशीत् अतिसर्जने" "वृ-मिथि०" (उणा० ६०१) इत्याप्रत्यये ट्यागमे च दिष्ट्या प्रीति-सेवनयोः, सभाजन-प्रातिलोम्ययोर्वा। "मृत् प्राणत्यागे" अत: "स्वरेभ्यः” (उणा० ६०६) इति इप्रत्यये मरि, तत्पूर्वादटते: “क्वचिद्” (५.१.१७१) इति डे आकारे मर्या सीमबन्धे। “अमण रोगे" अतोऽलि आम पीडायाम्। नमेञि नाम प्रकाश्य-संभाव्य-क्रोधोपगम-कुत्सनेषु। “असूच क्षेपणे" अतः “रुक्मग्रीष्म०" (उणा० ३४६) इति निपातनान्मेऽकारलोपे च स्म अतीते पादपूरणे च। इतिपूर्वाज्जहाते: “आतो डोऽहावामः" (५.१.७६) इति डे इतिह पुराश्रुतौ। सहे: “अः" (उणा० २) इत्यकारे सह तुल्ययोग-विद्यमानयोः। नपूर्वान्माते: “डित्" (उणा० ६०५) इत्याकारे अमा सहार्थे समीपे च। संपूर्वादविचि समम् समन्ततोऽर्थे। “सत्रणि संदानक्रियायाम्" अतः “डित्" (उणा० ६०५) इत्यकारे सत्रा, स्यतेर्विचि तत्पूर्वात् कमेर्विचि साकम्, सापूर्वाद् ऋध्यते: “सोरेतेरम्” (उणा० ९३४) इति बाहुलकादमि गुणे च सार्द्धम् एते त्रयोऽपि सहार्थे। "ईंच् गतौ," "कमूङ् कान्तौ," “षम वैक्लव्ये" एभ्य: “ईङ्-कमि-शमि-समिभ्यो डित्" (उणा० ६०५) इति डिदीम्प्रत्यये ईम्, कीम्, सीम् निर्देश-निवेदन-वाक्यपादपूरणेषु। ईम् अव्यक्ते, कीम् संशय-प्रश्नानुमानेषु, सीम् अभिनयव्याहरणा-ऽमर्ष-पादपूरणेष्चित्येके। आपूर्वादमेर्विचि आम् प्रतिवचना-ऽवधारणयोः। आस्तेः क्विपि आस् स्मृति-खेदयोः कोपे च। एतेः "दृ-मुषि०" (उणा० ६५१) इति किति तौ इति एवमर्थे आद्यर्थे हेत्वर्थे प्रकारार्थ शब्दप्रादुर्भावे ग्रन्थसमाप्तौ पदार्थविपर्यासादौ च। अवे: “अः" (उणा० २) इत्यप्रत्यये अव, “अड उद्यमे," "अट गतौ" आभ्यां पूर्ववद् अः, अड, अट, एते त्रयोऽपि भर्त्सने। बाह्यशब्दस्य निपातनादाकारः बाह्या निष्पत्तौ। अनुषजेः क्विपि अनुषक् अनुमाने, केचित् तान्तम्, अन्ये दान्तम्, अपरे दीर्घादि च मन्यन्ते। खनेर्बाहुलकाद् डोसि खोस् कुत्सायाम्।
“अट गतौ” "क्वचिद्” (५.१.१७१) इति डे अ, अस्मादेव डित्याकारे आ, एति-ईयतिभ्यां क्विपि अनित्यत्वात् तागमाभावे इ, ई, "उङ् शब्दे" "ऊयैङ् तन्तुसन्ताने" इत्याभ्यां क्विपि यलोपे च उ, ऊ, “ऋक् गतौ" "ऋश् गतौ" उभयोरेव ऋ, ऋ, अनयोरेव "ऋफिडादीनां०" (२.३.१०४) इति लत्वे ल, लु, इण उडश्च विचि गुणे ए, ओ, निपातनाद् वृद्धौ च ऐ, औ, एते चतुर्दशापि पूरण-भर्त्सनाऽऽमन्त्रण-निषेधेषु।
____ "प्रांक् पूरणे" अत: “क्वचिद्" (५.१.१७१) इति डे प्र। "पृश् पालन-पूरणयोः" अतः “समिण-निकषिभ्यामाः" (उणा० ५९८) इति बहुलवचनादाप्रत्यये गुणे च परा। अवतेः “उभ्यवेर्लुक्च" (उणा० ३०३) इति पप्रत्यये वलोपे च अप। “षम वैक्लव्ये" अत: "गमि-जमि०" (उणा० ९३७) इति डित्यमि सम्। “अन, श्वसक् प्राणने" अतः "भृ-मृ-तृत्सरि०" (उणा० ७१६) इत्युप्रत्यये अनु। अवतेरप्रत्यये अव। नयतेः “नियो डित्” (उणा० ९९४) इति डिदिसि निस्, “दुषंच वैकृत्ये" अतः “दुषेडिंत्" (उणा० ९९९) डित्युसि दुस्, निपादनाद् हस्वत्वं (रेफत्वं) च निर्, दुर्, इत्याह-एतौ रान्तावपि। “वींक् प्रजननादौ" "नी-वीप्रहभ्यो डित्" (उणा० ६१६) इति डितीकारेऽन्तलोपे वि। अनितेर्डित्याप्रत्यये डिद्योगे च आङ्। नयते: “नी-वी-प्रहभ्यो डित्" (उणा० ६१६) इति इकारे नि। “प्रथिष् प्रख्याने” अतः "प्रथेनुंक्च" (उणा० ६४६) इति तिप्रत्यये थलोपे च प्रति। पृणातेः "स्वरेभ्यः" (उणा० ६०६) इति इप्रत्यये गुणे च परि। “उभत् पूरणे" अत: "उभ्यवेलुंक्च" (उणा० ३०३) इति पप्रत्यये उप। “अदंक भक्षणे" अत: “तृ-भ्रम्वद्यापी०" (उणा० ६११) इति इप्रत्यये अधादेशे च अधि। “आप्लँट् व्याप्तौ" अतः पूर्वसूत्रेण इप्रत्यये