Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट - २
૩૯૧
T
(अनवकाशत्वात् स्यादिं बाधित्वेति भावः) ह्यस्तन्याद्युत्पत्तौ सत्यामडागमस्य धातुभक्तत्वात् प्रत्ययलोपलक्षणेन विभक्त्यन्तत्वान्नलोपजनिका नामसंज्ञा न भविष्यति । नैवम्-"नामन्त्र्ये" (२.१.९२) इति ज्ञापकाद् नलोपे विधीयमाने प्रत्ययलोपलक्षणेन 'विभक्ति' इति (अ० विभक्ति० इति निषेधो नोपतिष्ठते। न च नपुंसकार्थ इत्यपि शक्यं वक्तुम्, पृथग्योगवैयर्थ्यादिति धातुवर्जनम् । एवं तर्हि 'छिद्', 'भिद्' इत्यादीनां कथं नामसंज्ञा ? यतः -न (नैते) क्विबन्ता धातुत्वं जहति इति " अधातु०" इति प्रतिषेधेन भवितव्यम्, नैवम्- 'अ० विभक्ति०' इति पर्युदासात् तत्सदृशप्रत्ययग्रहणात्, पर्युदासे च विधि- प्रतिषेधयोर्विधेरेव बलीयस्त्वात् 'अधातु०' इति प्रतिषेधाप्रवृत्तौ नामत्वसिद्धिः । न चात्र न विद्यन्ते धातु-विभक्ति - वाक्यानि यत्रेति बहुव्रीहिः, अन्यपदार्थप्रधानत्वेन बहिरङ्गत्वात्, तत्पु-रुषस्य तु स्वपदार्थप्रधानत्वेनान्तरङ्गत्वाद् 'बहुपटवः' इत्यत्र नामत्वाभावप्रसङ्गाच्च । वृक्षशब्दात् शसि “शसोऽता सश्च नः पुंसि" (१.४.४९) इति दीर्घत्वे नत्वे च वृक्षान् । "यजी देवपूजा-संगतिकरण-दानेषु" इत्यस्माद् ह्यस्तन्या अनि शवि " अड् धातोः०" (४.४.२९) इत्यडागमे अयजन् । राजेति नोदाहार्यम्, अन्तरङ्गत्वात् प्रत्ययोत्पत्तेः प्रागेव प्रवृत्ता नामसंज्ञा बहिरङ्गेण प्रतिषेधेन न शक्या निवर्त्तयितुमिति । येषां प्रत्ययवर्जनं सामान्येन तैराबादिप्रत्ययस्य नामत्वाभावात् स्याद्युत्पत्तौ यत्नान्तरं विधेयम्, इह तु विभक्तिवर्जनाच्छेषप्रत्ययान्तस्य नामत्वं भवत्येव, विशेषनिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादित्याह - विभक्त्यन्तेत्यादि । "जनैचि प्रादुर्भावे” न जायते इत्यजः " क्वचिद् " (५.१.१७१) इति डे अजादित्वादापि च अजा । बहवो राजानो यस्यां सा बहुराजा ‘ताभ्यां०” (२.४. १५) इति डाप् । “गुंङ् शब्दे” इत्यतः “खुर-क्षुर० " ( उणा० ३९६) इति रे वृद्धौ च गौरादित्वाद् ड्यां गौरी । “कमूङ् कान्तौ” इत्यतः “कमेरत उच्च" (उणा० ४०९) इत्यारे "वयस्यनन्त्ये” (२.४.२१) इति ड्यां कुमारी। “गृत् निगरणे” इत्यतः "गम्यमि०” (उणा० ९२ ) इति गे गर्गः, तस्यापत्यं वृद्धं स्त्री गर्गादित्वाद् यत्रि “यत्रो डायन् च वा” (२.४.६७) इति ड्यां डानि णत्वे गार्ग्यायणी । कषेः " मा वा वद्यमि० " ( उणा० ५६४) इति से कक्षः, अतो गौरिव कक्षोऽस्येति गोकक्षः, तस्यापत्यं वृद्धं स्त्री पूर्ववत् यत्रि "षावटाद्वा" (२.४.६९) इति ड्यां डायनि गौकक्ष्यायणी । "युक् मिश्रणे" इत्यतः "लू-पू-यु०" ( उणा० ९०९) इति कियनि “ धातोरिवर्णोवर्णस्य०" (२.१.५० ) इत्युवादेशे "यूनस्तिः " (२.४.७७) इति तौ युवतिः । " बृहु शब्दे च " इत्यस्य “उदितः०” (४.४.९८) इति नागमे "बृंहेन " ( उणा० ९१३) इति मनि ब्रह्मन्, "बन्धश् बन्धने” इत्यतः "भृ-मृतृत्सरि०" (उणा० ७१६) इत्युप्रत्यये बन्धुः, ब्रह्मा बन्धुरस्या ब्रह्मबन्धूः “उतोऽप्राणिनः ० " (२.४.७३) इत्यूङ्। “कृत् विक्षेपे” इत्यतः “कॄ-शृ-गृ-शलि०” (उणा० ३२९) इत्यभें करभः, "अर्त्तेरूर्च” (उणा० ७३६) इत्युप्रत्यये ऊरादेशे च ऊरूः, करभवदूरू यस्याः “उपमान०” (२.४.७५ ) इत्यूङ्प्रत्यये करभोरूः । कृगः ("णकतृचौ” ५.१.४८) णके तृचि च कारकः, कर्ता । भिद्छिदो: क्विपि भिद्, (छिद्) । उपगोरपत्यम् "ङसोऽपत्ये” (६.१.२८) इत्यणि "अस्वयंभुवोऽव्” (७.४.७०) इत्यवि औपगवः । "अशौटि व्याप्तौ” इत्यतोऽश्रुते व्याप्नोति तं तं विषयमिति " मा वा वद्यमि० " ( उणा० ५६४) इति से अक्ष:, तेन दीव्यति "तेन जितजयद्-दीव्यत्०” (६.४.२ ) इति इकणि आक्षिकः । ननु वाक्यवर्जनं किमर्थम् ? न हि वाक्यं वाक्यार्थो वा कश्चिदस्ति, तथाहि –पदान्येव स्वं स्वमर्थं प्रतिपादयन्ति (वाक्यम्), पदार्था एव हि आकाङ्क्षा-योग्यता- सन्निधिवशात् परस्परसंसृष्टा वाक्यार्थः, न तु वाक्यं वाक्यार्थो वा कश्चिद् (पृथग) स्ति, उच्यते-पदार्थाभिसंबन्धस्योपलब्धेरस्त्येव वाक्यार्थः, तथाहि - 'साधुः' इत्यनियतविषयं (साधुरित्युक्तेऽनियतविषयं) कर्तृमात्रं निर्दिष्टं न कर्म क्रिया वा, तथा 'धर्मम्' इत्युक्ते कर्म निर्दिष्टं न कर्ता क्रिया वा, 'ब्रूते' इत्युक्ते क्रिया निर्दिष्टा, न कर्तृकर्मणी । इहेदानीम् 'साधुर्धर्मं ब्रूते' इत्युक्ते स सर्वं प्रति निर्दिष्टम् (सर्वं निर्दिष्टम् ) साधुरेव नान्यः कर्ता, धर्ममेव नान्यत् कर्म, ब्रूते इति नान्या क्रिया । एतेषां पदानां (सामान्ये वर्तमानानां ) यद्विशेषेऽवस्थानं स वाक्यार्थः । तस्मात् पदेभ्यो व्यतिरिक्तं वाक्यं विशिष्टस्यार्थस्य पदार्थसंसर्गरूपस्य वाचकमस्तीत्यभ्युपगन्तव्यम्, अन्यथाऽशाब्दो वाक्यार्थः स्यात् । अत एव वाक्यमेव मुख्यः शब्दो वैयाकरणानाम्, वाक्यार्थ एव च मुख्यः शब्दार्थः, सादृश्यात् त्वन्वय-व्यतिरेकौ कल्पितौ लाघवार्थमाश्रित्य पदपदार्थावस्थापनं क्रियते; प्रतिवाक्यं व्युत्पत्त्यसंभवात् शब्दव्यवहारोच्छेदप्रसङ्गादिति वाक्यस्य सत्त्वादर्थवत्त्वान्नामत्त्वप्रसक्तौ वर्जनमित्याह
Loading... Page Navigation 1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484