SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ ૩૯૧ T (अनवकाशत्वात् स्यादिं बाधित्वेति भावः) ह्यस्तन्याद्युत्पत्तौ सत्यामडागमस्य धातुभक्तत्वात् प्रत्ययलोपलक्षणेन विभक्त्यन्तत्वान्नलोपजनिका नामसंज्ञा न भविष्यति । नैवम्-"नामन्त्र्ये" (२.१.९२) इति ज्ञापकाद् नलोपे विधीयमाने प्रत्ययलोपलक्षणेन 'विभक्ति' इति (अ० विभक्ति० इति निषेधो नोपतिष्ठते। न च नपुंसकार्थ इत्यपि शक्यं वक्तुम्, पृथग्योगवैयर्थ्यादिति धातुवर्जनम् । एवं तर्हि 'छिद्', 'भिद्' इत्यादीनां कथं नामसंज्ञा ? यतः -न (नैते) क्विबन्ता धातुत्वं जहति इति " अधातु०" इति प्रतिषेधेन भवितव्यम्, नैवम्- 'अ० विभक्ति०' इति पर्युदासात् तत्सदृशप्रत्ययग्रहणात्, पर्युदासे च विधि- प्रतिषेधयोर्विधेरेव बलीयस्त्वात् 'अधातु०' इति प्रतिषेधाप्रवृत्तौ नामत्वसिद्धिः । न चात्र न विद्यन्ते धातु-विभक्ति - वाक्यानि यत्रेति बहुव्रीहिः, अन्यपदार्थप्रधानत्वेन बहिरङ्गत्वात्, तत्पु-रुषस्य तु स्वपदार्थप्रधानत्वेनान्तरङ्गत्वाद् 'बहुपटवः' इत्यत्र नामत्वाभावप्रसङ्गाच्च । वृक्षशब्दात् शसि “शसोऽता सश्च नः पुंसि" (१.४.४९) इति दीर्घत्वे नत्वे च वृक्षान् । "यजी देवपूजा-संगतिकरण-दानेषु" इत्यस्माद् ह्यस्तन्या अनि शवि " अड् धातोः०" (४.४.२९) इत्यडागमे अयजन् । राजेति नोदाहार्यम्, अन्तरङ्गत्वात् प्रत्ययोत्पत्तेः प्रागेव प्रवृत्ता नामसंज्ञा बहिरङ्गेण प्रतिषेधेन न शक्या निवर्त्तयितुमिति । येषां प्रत्ययवर्जनं सामान्येन तैराबादिप्रत्ययस्य नामत्वाभावात् स्याद्युत्पत्तौ यत्नान्तरं विधेयम्, इह तु विभक्तिवर्जनाच्छेषप्रत्ययान्तस्य नामत्वं भवत्येव, विशेषनिषेधस्य शेषाभ्यनुज्ञाहेतुत्वादित्याह - विभक्त्यन्तेत्यादि । "जनैचि प्रादुर्भावे” न जायते इत्यजः " क्वचिद् " (५.१.१७१) इति डे अजादित्वादापि च अजा । बहवो राजानो यस्यां सा बहुराजा ‘ताभ्यां०” (२.४. १५) इति डाप् । “गुंङ् शब्दे” इत्यतः “खुर-क्षुर० " ( उणा० ३९६) इति रे वृद्धौ च गौरादित्वाद् ड्यां गौरी । “कमूङ् कान्तौ” इत्यतः “कमेरत उच्च" (उणा० ४०९) इत्यारे "वयस्यनन्त्ये” (२.४.२१) इति ड्यां कुमारी। “गृत् निगरणे” इत्यतः "गम्यमि०” (उणा० ९२ ) इति गे गर्गः, तस्यापत्यं वृद्धं स्त्री गर्गादित्वाद् यत्रि “यत्रो डायन् च वा” (२.४.६७) इति ड्यां डानि णत्वे गार्ग्यायणी । कषेः " मा वा वद्यमि० " ( उणा० ५६४) इति से कक्षः, अतो गौरिव कक्षोऽस्येति गोकक्षः, तस्यापत्यं वृद्धं स्त्री पूर्ववत् यत्रि "षावटाद्वा" (२.४.६९) इति ड्यां डायनि गौकक्ष्यायणी । "युक् मिश्रणे" इत्यतः "लू-पू-यु०" ( उणा० ९०९) इति कियनि “ धातोरिवर्णोवर्णस्य०" (२.१.५० ) इत्युवादेशे "यूनस्तिः " (२.४.७७) इति तौ युवतिः । " बृहु शब्दे च " इत्यस्य “उदितः०” (४.४.९८) इति नागमे "बृंहेन " ( उणा० ९१३) इति मनि ब्रह्मन्, "बन्धश् बन्धने” इत्यतः "भृ-मृतृत्सरि०" (उणा० ७१६) इत्युप्रत्यये बन्धुः, ब्रह्मा बन्धुरस्या ब्रह्मबन्धूः “उतोऽप्राणिनः ० " (२.४.७३) इत्यूङ्। “कृत् विक्षेपे” इत्यतः “कॄ-शृ-गृ-शलि०” (उणा० ३२९) इत्यभें करभः, "अर्त्तेरूर्च” (उणा० ७३६) इत्युप्रत्यये ऊरादेशे च ऊरूः, करभवदूरू यस्याः “उपमान०” (२.४.७५ ) इत्यूङ्प्रत्यये करभोरूः । कृगः ("णकतृचौ” ५.१.४८) णके तृचि च कारकः, कर्ता । भिद्छिदो: क्विपि भिद्, (छिद्) । उपगोरपत्यम् "ङसोऽपत्ये” (६.१.२८) इत्यणि "अस्वयंभुवोऽव्” (७.४.७०) इत्यवि औपगवः । "अशौटि व्याप्तौ” इत्यतोऽश्रुते व्याप्नोति तं तं विषयमिति " मा वा वद्यमि० " ( उणा० ५६४) इति से अक्ष:, तेन दीव्यति "तेन जितजयद्-दीव्यत्०” (६.४.२ ) इति इकणि आक्षिकः । ननु वाक्यवर्जनं किमर्थम् ? न हि वाक्यं वाक्यार्थो वा कश्चिदस्ति, तथाहि –पदान्येव स्वं स्वमर्थं प्रतिपादयन्ति (वाक्यम्), पदार्था एव हि आकाङ्क्षा-योग्यता- सन्निधिवशात् परस्परसंसृष्टा वाक्यार्थः, न तु वाक्यं वाक्यार्थो वा कश्चिद् (पृथग) स्ति, उच्यते-पदार्थाभिसंबन्धस्योपलब्धेरस्त्येव वाक्यार्थः, तथाहि - 'साधुः' इत्यनियतविषयं (साधुरित्युक्तेऽनियतविषयं) कर्तृमात्रं निर्दिष्टं न कर्म क्रिया वा, तथा 'धर्मम्' इत्युक्ते कर्म निर्दिष्टं न कर्ता क्रिया वा, 'ब्रूते' इत्युक्ते क्रिया निर्दिष्टा, न कर्तृकर्मणी । इहेदानीम् 'साधुर्धर्मं ब्रूते' इत्युक्ते स सर्वं प्रति निर्दिष्टम् (सर्वं निर्दिष्टम् ) साधुरेव नान्यः कर्ता, धर्ममेव नान्यत् कर्म, ब्रूते इति नान्या क्रिया । एतेषां पदानां (सामान्ये वर्तमानानां ) यद्विशेषेऽवस्थानं स वाक्यार्थः । तस्मात् पदेभ्यो व्यतिरिक्तं वाक्यं विशिष्टस्यार्थस्य पदार्थसंसर्गरूपस्य वाचकमस्तीत्यभ्युपगन्तव्यम्, अन्यथाऽशाब्दो वाक्यार्थः स्यात् । अत एव वाक्यमेव मुख्यः शब्दो वैयाकरणानाम्, वाक्यार्थ एव च मुख्यः शब्दार्थः, सादृश्यात् त्वन्वय-व्यतिरेकौ कल्पितौ लाघवार्थमाश्रित्य पदपदार्थावस्थापनं क्रियते; प्रतिवाक्यं व्युत्पत्त्यसंभवात् शब्दव्यवहारोच्छेदप्रसङ्गादिति वाक्यस्य सत्त्वादर्थवत्त्वान्नामत्त्वप्रसक्तौ वर्जनमित्याह
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy