________________
३८०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
अधातुविभक्तिवाक्यमर्थवन्नाम । १ । १ । २७ ।।
बृ० न्यास - अधात्वित्यादि - "डुधांग्क् ( धारणे च ) " दधाति क्रियार्थत्वमिति "कृ-सि- कम्यमि० " ( उणा० ७७३) इति तुनि धातुः । उच्यते - विशिष्टोऽर्थोऽनेनेति करणे घ्यणि "क्तेऽनिटश्चजो: कगौ घिति" (४.१.१११) इति ककारे वाक्यम्, द्वन्द्वगर्भो नञ्तत्पुरुषः। “अर्थणि उपयाचने" चुरादिणिचि अर्थ्यते इति "युवर्ण० " (५.३.२८) इत्यलि अर्थः, सोऽस्यास्तीति मतौ वत्वे अर्थवत्। अर्थशब्दोऽनेकार्थः, अस्ति प्रयोजनवचनः - केनार्थेन आगतोऽसि ? केन प्रयोजनेनेति गम्यते । अस्ति निवृत्तिवचन:मशकार्थो धूम इति, मशकनिवृत्तिर्गम्यते । अस्ति धनवचनः - अर्थवानयम्, धनवानित्यर्थः । अस्त्यभिधेयवचन:-अयमस्य वचनस्यार्थ इति, इदमस्याभिधेयमिति गम्यते । अत्राभिधेयवचनस्यार्थशब्दस्य ग्रहणम्, तस्यैव व्यापकत्वात् तद्ग्रहणे तेषामपि ग्रहणात्, अन्येषां च विपर्ययात्, सति व्याप्त्यर्थे (व्याप्यर्थे) अन्यार्थग्रहणे प्रमाणाऽभावाद् इत्याह- अर्थोऽभिधेय इति । स चाभिधेयलक्षणोऽथ द्विविधः - अन्तरङ्गो बहिरङ्गश्च । अन्तरङ्गो बुद्धिस्वरूपात्मकः, तद्विषयो बहिरङ्गोऽर्थः, स उभयोऽपीहाऽऽ श्रीयते; विवक्षातश्च गुण
प्रधानभावः ।
ननु नित्यत्वादन्तरङ्ग एवार्थशब्दः प्रयुज्यते, नित्यो हि शब्दस्य संबन्धादारभ्य बुद्ध्यर्थः यदसन्निहितेऽपि विषये बुद्धिः शब्देन जन्यते-गौर्जायते, गौर्मृत इति; तथा विपरीतेऽपि वस्तुन्यहेयत्वादुत्पद्यते, यथा- गौर्वाहीक इति । असाधारणत्वाच्च बुद्धिरेवार्थः, साधारणो हि विषयः सर्वपर्यायशब्दानाम् इन्द्रः शक्रः पुरन्दर इति, न तथा बुद्ध्यर्थः साधारणः, इतश्च बुद्धिरेवार्थ:, कुतः ? व्यापित्वाद्, नह्यभावो विनाशः शशविषाणमित्यादीनां शब्दानां विषयोऽर्थो विद्यते, बुद्ध्यर्थस्तु विद्यत एव सर्वेषाम्, एवं च सर्वा प्रक्रिया बुद्धिविषया उपपद्यत इति। सत्यमेतत्, बुद्धिरप्यर्थस्तदाश्रया च प्रक्रिया सिध्यति, किन्तु बुद्धिरेवार्थो न बहिरङ्ग इति बहिरङ्गार्थनिव नोपपद्यते, असति हि तस्मिन् कथं निरालम्बना बुद्धिरुदेति मिथ्यात्वप्रसङ्गात् ? किञ्च तदभावे सत्यानृतव्यवस्थाऽपि न प्रकल्पते, लोके हि यस्य बहिरङ्गार्थोऽस्ति स सत्य इत्युच्यते, विपरीतस्त्वसत्य इति; अन्तरङ्गार्थनियमे तु बुद्धिस्वरूपाविशेषादयं विकल्पो नोपपद्यते इति। किञ्च, बुद्धेः सम्यक्त्व- मिथ्यात्वे बाह्यार्थसत्त्वासत्त्वापेक्षे, तत्र बहिरङ्गार्थनियमे बुद्ध्यभावात् तदाश्रयो लौकिको व्यवहारः शास्त्रीयश्च न सिध्यतीत्युभयार्थपरिग्रहः । स च बहिरङ्गोऽर्थः स्वार्थादिभेदेन पञ्चधा भिद्यते इत्याह- स्वार्थ इत्यादि । तत्र स्वार्थो विशेषणं स्वरूप-जाति-गुण-संबन्ध - क्रिया- द्रव्याणि । द्रव्यं विशेष्यं जाति-गुण-द्रव्याणि । यथा - (यदा) शब्दरूपेण विशिष्टा जातिरुच्यते तदा शब्दरूपं विशेषणं स्वार्थो भवति, जातिस्तु विशेष्यत्वाद् द्रव्यम् । यदा जात्या विशिष्टो गुणोऽभिधीयते 'पटस्य शुक्लो गुणः' इति तदा जातिर्विशेषणत्वात् स्वार्थः, गुणो विशेष्यत्वाद् द्रव्यम्। यदा तु गुणविशिष्टं पटादि द्रव्यमुच्यते 'शुक्लः पटः ' इति तदा विशेषणभूतो गुणः स्वार्थः, विशेष्यभूतं तु पटादि द्रव्यमिति । यदा पुनर्द्रव्यमपि द्रव्यान्तरस्य विशेषणभूतं भवति 'यष्टीः प्रवेशय', 'कुन्तान् प्रवेशय' इति तदा यष्ट्यादि द्रव्यं विशेषणभावापन्नं स्वार्थः, द्रव्यान्तरं विशेष्यभावापनं पुरुषादि द्रव्यम् । क्वचित् संबन्धोऽपि स्वार्थः, यत्र तन्निमित्तकः प्रत्ययः, यथा 'दण्डी' 'विषाणी' इति । क्वचित् क्रियाऽपि भवति स्वार्थः यत्र तन्निमित्तकः प्रत्ययः, यथा ‘पाचकः' इति। चकारादिना द्योत्यस्यापि समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह- द्योत्यश्चेत्यादि, अभिधेय इति शेषः। “ओव्रस्चौत् छेदने” “सस्य शषौ” (१.३.६१) इति शत्वे "ऋजि - रिषि० " ( उणा० ५६७ ) इति से कित्त्वात् "ग्रह-व्रश्च०" इति (४.१.८४) इति य्वृति "संयोगस्यादौ ०" (२.१.८८) इति सलुकि "यज-सृज०" (२.१.८७) इति चस्य षत्वे “षढोः०” (२.१.६२) कत्वे (सस्य) षत्वे च वृक्षः । प्लुषेः "प्लुषेः प्लष् च” (उणा० ५६६ ) इति से प्लक्षः । “कृष विलेखने" अतः "घृ-वी-ह्वा०" (उणा० १८३ ) इति किति णे कृष्णः । डित्थ- डवित्थावव्युत्पन्नो, वर्णानुपूर्वीज्ञानं च शिष्टप्रयोगात् । एषु नामत्वाद् (“नाम्नः प्रथमैकद्विबहौ" (२.२.३१ ) इति प्रथमा । अहनिति -“हनंक् हिंसागत्योः " ह्यस्तन्या दिवि " अड् धातो० " (४.४. २९) इत्यटि “व्यञ्जनाद् देः सश्च द: " (४.३.७८) इति देर्लुप्, अटो धात्ववयवत्वात् तद्ग्रहणेन ग्रहणाद् धातुरेव; अत्र विशेषविहितत्वाद्