________________
૩૯૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન -वाक्यवर्जनमित्यादि । नन्वर्थवतो नामसंज्ञायामनेकस्यापि पदस्य समुदितस्य नामसंज्ञा प्राप्नोति-दश दाडिमानि, षडपूपाः, कुण्डमजाजिनं पललपिण्डः (अधरोरुकमेतत् कुमार्याः) स्फैयकृतस्य पिता प्रतिशीनः; (इति) न च समुदायस्याऽऽनर्थक्यादप्रसङ्ग इति वक्तुमुचितम्, अवयवानामर्थवत्त्वादवयवधर्माणां समुदाये व्यपदेशात्। न च विभक्तिप्रतिषेधाद् दोषाभाव: “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति प्रतिपदमेव संज्ञाप्रतिषेधस्तस्यैव तदन्तत्वाद्, न समुदायस्य तस्मात् प्रत्ययस्याविधानात् विभक्त्यन्तत्वाभावात्, न च “तदन्तं पदम्" (१.१.२०) इत्यन्तग्रहणाद् अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावाद् ‘अविभक्ति०' इति प्रतिषेधो भवतीति वाच्यम्, यत: संज्ञाविधौ हि स प्रतिषेधः, न चायं संज्ञाविधिः किन्तु प्रतिषेधविधिरिति तदन्तस्यैव प्रतिषेध इति। लोकेऽप्यवयवधर्मेण समुदायव्यपदेशो भवति। यथा-आढ्यमिदं नगरम्, गोमदिदं नगरम्, न च सर्वे तत्राढ्या भवन्ति गोमन्तो वा। नैवम्लोके चावयवा एवार्थवन्तो न समुदायाः, अतश्चावयवा एवार्थवन्तो न समुदायाः-यस्य तद् द्रव्यं भवति स तेन कार्य करोति; यस्य च ता गावो भवन्ति स तासां क्षीरं घृतमुपयुङ्क्ते, अन्येन तद् द्रष्टुमप्यशक्यम्। का तीयं वाचोयुक्ति: “आढ्यमिदं नगरम्, गोमदिदं नगरम्?"। एषेषा वाचोयुक्ति: एषा या वाचोयुक्तिः, सैषा एतत्प्रमाणा इत्यर्थः)-लोकेऽवयवधर्मस्य समुदाये उपचारो मुख्याभावाद्, इह तु मुख्येऽर्थे संभवत्युपचरितकल्पनायां प्रमाणाभावः। अथवा नात्राप्यवयवधर्मेण समुदायव्यपदेशः, किं तर्हि ? दण्ड्यादिवद् यौगिको व्यपदेशः, आढ्याः सन्त्यस्मिनिति अभ्रादित्वादकारे आढ्यमिदम्, गोमन्तोऽस्मिन् सन्तीति “गोपूर्वादत इकण्" (७.२.५६) इति इकणि पृषोदरादित्वात् तल्लकि च गोमदिदं प्रयोगः। गौत्रिकादिसिद्ध्यर्थं च 'अतः' इति तत्र योगविभाग आश्रयितव्यः, गवां समूहो गोत्रा, साऽस्मिन्नस्तीति गौत्रिकम्। अ० वाक्यम्' इत्यत्र पर्युदासग्रहणात् तस्य च तत्सदृशार्थग्राहित्वादन्यस्यार्थवत्पदसमुदायस्य संप्रत्ययात् समासादेः परिग्रह इत्याह-अर्थवत्समुदायस्येत्यादि। चित्रा गावो यस्येति “परतः स्त्री०" (३.२.४९) इति पुंभावे "गोश्चान्ते हस्व:०" (२.४.९६) इति हस्वत्वे च चित्रगुः। (राजपुरुष इति-) पृणाति पूरयति धर्माऽर्थ-कामैरात्मानमिति “विदिपृभ्यां कित्" (उणा० ५५८) इति कित्युषे पुरुषः, पुरि शयनाद् वा डे पृषोदरादित्वात् पुरुषः, राज्ञः पुरुष इति विग्रहः । “गुंङ् शब्दे" अत: “कु-गु-हु-नी-कुणि-तुणि-पुणि०" (उणा० १७०) इति डे गुडः, “नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुगुडः। नन्वधातुविभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव संज्ञा भविष्यति नार्थोऽर्थवदित्यनेन। उच्यते-अर्थवदिति संज्ञिनिर्देशार्थम् पर्युदासाश्रयणे हि केन धर्मेण सादृश्यमाश्रीयते इत्यप्रतिपत्तिः स्यात्, तथा अनर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याह-अर्थवदिति। 'वन संभक्तौ", "धन शब्दे" इति, आभ्यां वर्षादित्वादलि 'वनम्, धनम्'। अत्रार्थवद्ग्रहणमन्तरेण प्रत्ययबहिष्कृतस्य वर्णसमुदायस्य प्रतिवर्णं नामसंज्ञाप्रसङ्गः । न चात्र धातुप्रतिषेधो भवितुमर्हति, प्रतिवर्णं ह्यत्र विभक्त्युत्पत्तिः; न च प्रतिवर्णं धातुसंज्ञानिवेश: समुदायाश्रयत्वात् तस्याः। न चात्र संख्याकर्मादिषु स्यादीनां विधानात्, सत्यपि नामत्वे निरर्थकेभ्यो वर्णेभ्यः स्याद्युत्पत्त्यभावाद् दोषाभाव इति वाच्यम्, अव्ययवत् संज्ञाविधानात् “नाम्नः प्रथमा" (२.२.३१) इति योगविभागाद् वा स्याद्युत्पत्तौ पदत्वानलोपादिकार्य स्यादित्याह-नामत्वे हीति। ननु भवत्वेवम्, तथापि शक्तिवैकल्याद् ‘गौः' इति प्रयोक्तव्ये 'गो' इति केनचित् प्रयुक्तम्, तत्समीपवर्ती च तदुक्तमपरेण पृष्टः सन्ननुकरोति, तदा तदनुकरणे नामसंज्ञा स्याद् वा नवा? इत्याशङ्कायामाह-यदेत्यादि। ननु शक्तिवैकल्यप्रयुक्तादपि गोशब्दात् खुर-ककुद-लाङ्गेल-सास्रादिमानर्थः प्रतीयत एव इत्यनुकार्यस्यापि कथमर्थवत्त्वाभावः? येन तदभेदिनोऽनुकरणस्यापि तदभावानामत्वाभावः प्रतिपाद्यते। सत्यम्-असाधुशब्दादर्थप्रतीतिः साधुशब्दद्वारेण, न साक्षात्। तथाहि-असाधुशब्दः श्रूयमाणः साधुशब्दस्य स्मारयनर्थप्रतीतिं जनयति, नह्यसाधुशब्दस्य विशिष्टेऽर्थे संकेतोऽस्ति, न चासंकेतितः शब्दोऽर्थं प्रतिपादयति, अतिप्रसङ्गाद् इति कथं तेनाभिन्नस्यानुकरणस्यार्थवत्त्वम्?। यदा तु भेदो विवक्ष्यते तदाऽनुकार्येणार्थनार्थवत्त्वादनुकरणस्य नामत्वे 'पचतिमाह' इत्यादिवद् भवत्येव स्याद्युत्पत्तिरित्यर्थः। नन्वर्थवत्ता नामसंज्ञानिमित्तत्वेनेहोपात्ता, सा च वाक्यस्यैव पदस्य वा केवलस्य लोके प्रयुज्यमानस्योपपद्यते, न तु प्रकृतिभागस्य नहि केवलेन प्रकृतिभागेनार्थो गम्यते, तस्य प्रयोगाभावाद् वर्णवदव्यवहार्यत्वात्, किन्तु सप्रत्ययकेन, प्रत्ययश्चात्र स्यादिः, स च नाम्न एव भवति, नामत्वं चार्थवत्त्वे, अर्थवत्त्वं च सति प्रत्यये इति