________________
परिशिष्ट २
३८३
पुनस्तदेवावर्त्तत इति चक्रकदोषपराहतत्वादिदमनुपपन्नम्। नैष दोषः - अन्यथासिद्धः केवलस्याप्रयोगः, न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्ययः इति नियमाद्, नित्यसंबद्धावेतावर्थी - प्रकृतिः प्रत्यय इति, अर्थवत्ता त्वन्वयव्यतिरेकाभ्यां प्रत्येकमस्त्येव । नन्वन्यद् भवान् पृष्टोऽन्यद् व्याचष्टे - आम्रान् पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते इति भवानस्माभिश्चोदितः केवलस्याप्रयोगे हेतुमाह एवं हि ब्रूमः - समुदाय एव लोकेऽर्थे प्रयुज्यते, न प्रकृतिभागः, तस्मात् तस्यार्थो न प्रसिध्यति । उच्यते-उक्तमा (म) त्राऽन्वय-व्यतिरेकाभ्यामर्थवत्ता सिद्धति (अन्वयोऽनुगमः सति शब्देऽर्थावगमः, व्यतिरेकः शब्दाभावे तदर्थानवगमः) । कोऽसावन्वयो व्यतिरेको वा ? इह 'वृक्षः' इत्युक्ते कश्चिच्छब्दः श्रूयते - वृक्षशब्दोऽव कारान्तः सकारः प्रत्ययः, अर्थोऽपि कश्चिदुत्पद्यते (कश्चिद् गम्यते) -मूल-स्कन्ध-फल- पलाशवत्ता एकत्वं च । 'वृक्षौ' इत्युक्तेऽपि कश्चिच्छब्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी -सकारो हीयते, औकार उपजायते, वृक्षशब्दोऽकारान्तोऽन्वयी; अर्थोऽपि कश्चिद् हीयते कश्चिदुपजायते कश्चिदन्वयी - एकत्वं हीयते, द्वित्वमुपजायते, मूल-स्कन्ध- पलाशवत्ताऽन्वयिनी; तेन मन्यामहे - यः शब्दो हीयते तस्यासावर्थो यो हीयते, यश्च शब्द उपजायते तस्यासावर्थो य उपजायते, यश्च शब्दोऽन्वयी तस्यासावर्थो योऽन्वयीति सिद्धाऽर्थवत्तेति । स्यादेतदेवम्, यद्येकः शब्द एकस्मिन्नर्थे नियतः स्यात् ततो युज्यत एव तद् वक्तुम्। (तत एतद्युज्येत वक्तुम्), न चैतदस्ति । तथाहि - बहवो हि शब्दा एकार्था भवन्ति, यथा –इन्द्रः, शक्रः, (पुरुहूतः), पुरन्दरः; कन्दुः, कोष्ठः, कुसूल इति । एकश्च शब्दो बह्वर्थः, यथा - अक्षाः, पादाः, माषा इति । तत्र सिध्यत्वर्थवत्ता, इदं तु न सिध्यति - अयं प्रकृत्यर्थोऽयं प्रत्ययार्थः । प्रकृतेरेव सर्वेऽर्थाः स्युः, यथा दधि, मधु, अग्निचिद् इति, प्रत्ययस्तु क्वचिद् द्योतकः। प्रत्ययस्यैव सर्वेऽर्थाः स्युः, यथा - अस्याऽपत्यम् इरितिः, प्रकृतिस्त्वर्थाभिधाने साहाय्यमात्रं कुर्यात्। तत्र प्रकृतेः सर्वाभिधानपक्षे सीध्यत्यस्या अर्थवत्ता, प्रत्ययस्य तु सर्वाभिधानपक्षे प्रकृतेरर्थवत्ता न सिध्यति इति तदवस्थो दोषः । उच्यते –एवं हि सामान्यशब्दा एते स्युः, न च सामान्यशब्दा अन्तरेण विशेषं प्रकरणं वा विशेषेष्ववतिष्ठन्ते (विशेषं विशेषबोधकपदान्तरसमभिव्याहारम्। एवं च प्रकरणादिसापेक्षतयाऽर्थप्रत्यायकत्वं सामान्यशब्दत्वमिति भावः, एते तु नैवमित्याह-) अत्र तु नियोगतो 'वृक्ष' (अस्य नाममात्रप्रयोगे तात्पर्यम् ) इत्युक्ते प्रकरणादिना विनैव स्वभावतः कस्मिंश्चिदर्थे प्रतीतिरुपजायते, अतो मन्यामहे - नैते सामान्यशब्दा इति, (न चेत् सामान्यशब्दाः) प्रकृतिः प्रकृत्यर्थे वर्त्तते, प्रत्ययस्तु प्रत्ययार्थ इति । यदि तु सर्वानर्थान् प्रकृतिरेवाभिदध्याद् 'वृक्ष' इत्युक्ते सर्वेऽर्था प्रतीयेरन् प्रत्ययो वा सर्वं नामार्थं प्रत्याययेद्, न चैवं प्रतीतिरस्ति, न चाप्रतीतिकमभ्युपगन्तुं शक्यते । ननु चादीनां द्योतकत्वादभिधेयार्थाभावेऽपि द्योत्यार्थसद्भावात् सत्यर्थवत्त्वे सिध्यतु संज्ञा, येषां द्योत्योऽप्यर्थो नास्ति तेषां नामसंज्ञा न प्राप्नोति, ततश्च खञ्जति, निखञ्जति, लम्बते, प्रलम्बते, (इत्यादौ) नामत्वाभावाद् विभक्त्यभावे पदत्वाभावात् तत्कार्याभावः। न च वक्तव्यम्-न नामसंज्ञामात्रप्रतिबद्धा स्याद्युत्पत्तिः किन्त्वेकत्वादिनिबन्धनाऽपि ततश्च सत्यपि नामत्वे एकत्वाद्य-भावात् स्यादेरभावः, यतः “नाम्नः प्रथमा” (२.२.३१ ) इति योगविभागेन एकत्वाभावेऽपि भविष्यति । तथेदमपि न वाच्यम् - आचार्यप्रवृत्तेरनर्थकानामप्येषां भवत्यर्थवत्कृतम्, यदयम्-अधिपर्योरनर्थकयोः “गतार्थाधिपरि०" (३.१.१) इति समाससंज्ञानिषेधार्थं गत्युपसर्गसंज्ञानिषेधं शास्ति इति । नैष दोषः - अर्थवत्त्वाद् भवत्येव नामसंज्ञा । ननूक्तं द्योत्यार्थाभावादानर्थक्यम्, उक्तमिदम्, केवल-मयुक्तम्, तथाहि--यस्य शब्दस्य वाच्यं द्योत्यं वा वस्तु न संभवति तस्य वाक्यार्थेऽनुपयोगात् प्रयोगानुपपत्तिः स्यादिति, अस्त्यमीषां द्योत्योऽर्थः केवलं यो द्योत्योऽर्थस्तस्य प्रकरणादिवशात् संप्रत्ययाद् निष्प्रयोजनतोच्यते। धातूपसर्गयोश्च साधारणार्थतयाऽधिकद्यो- त्याऽर्थाभावादानर्थार्थक्यमत्रोच्यते पूर्वाचार्यैः, न तु सर्वात्मनाऽर्थाभावात् । 'निखञ्जति, प्रलम्बते' इत्यत्र हि प्रकरणादिसामर्थ्यावगत विशेषां धातुनोक्तां क्रियां द्योतयतो नि-प्रशब्दी, तद्धि क्रियालक्षणं वस्तु विशिष्टं (वस्त्वविशिष्टं) नि प्रशब्दासंनिधानेऽप्यनाहितविशेषं भवति, यथा-शङ्ख न्यस्तं क्षीरं शौक्ल्येनाविशिष्टं (अभिन्नं) शङ्खात् । यदाह श्रीशेषभट्टारकः - " नेमावनर्थको, किं तर्हि ? अनर्थान्तर-वाचिनावनर्थकौ धातुनोक्तां क्रियामाहतुस्तदविशिष्टं भवति, यथा शङ्खे पयः" इति । यद्येवं धातुनोक्तत्वात् तदर्थस्योपसर्गप्रयोगो न प्राप्नोति उक्तार्थानामप्रयोगः इति, न-प्रकरणादिविशेषादवगतार्थानामपि स्फुटतरावगत्यर्थः प्रयोगो लोके दृश्यते, यथा- 'अपूपौ द्वौ ब्राह्मणौ द्वौ आनय' इति ।