________________
3८४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન 'अपूपौ' इत्यत एवावगते द्वित्वे द्विशब्दस्यापि प्रयोगो दृश्यते। न चानियमप्रसङ्गः, येषामेव हि गता-र्थानां प्रयोगो दृश्यते त एव प्रयुज्यन्ते न तु 'वृक्षः, तरुः, पादपः' इति तथा प्रयोगादर्शनात्। तदयं वस्तुसंक्षेपः-यथा यावशब्दो वाक्यान्तरविषयोऽन्य एव, अन्यश्च यावकशब्दः, यथा वा 'ऋषभः' इति 'वृषभः' इति; तथा 'खञ्जति, निखञ्जति' इत्यादयोऽपि। तदत्र विषये धातोनिप्रशब्दयोश्च साहायकमङ्गीकर्तव्यमिति नास्ति दोष इति; अत एव 'गतार्थो' इत्युक्तं नानर्थकाविति। यदि चाऽन-र्थकत्वं स्यात तदा क्रियायोगे गत्युपसर्गसंज्ञाविधानादनर्थकयोश्च क्रियायोगाभावात् प्राप्तिरेव नास्तीति प्रतिषेधानर्थक्यप्रसङ्गः। किमयं पर्युदासःयदन्यद्धातुविभक्तिवाक्याद्, आहोस्वित् प्रसज्योऽयं प्रतिषेधः-धातुविभक्तिवाक्यं नेति?। तत्र पर्युदासे 'काण्डे, कुड्ये' इत्यत्र विभक्त्या सहैकाऽऽदेशे कृते पूर्वस्य विभक्तिसदृशस्य नामसंज्ञाप्रसङ्ग इति प्रतिषेधो वाच्यः, प्रसज्यप्रतिषेधे तु न दोषः, अस्ति ह्यत्र विभक्तिरिति । उच्यते-पर्युदास एवायम्, विधिप्रधानत्वात्, प्रसज्यवृत्तेस्तु निषेधप्रधानत्वाद्, विधौ संभवति निषेधाङ्गी-कारस्यायुक्तत्वाद्, वाक्यभेदगौरवादिप्रसङ्गाञ्चेति। ननु चोक्तम्-‘काण्डे' 'कुड्ये' इत्यादौ प्रकृति-विभक्त्योरेकादेशस्योभयस्थाननि-ष्पन्नत्वेन पूर्वस्य कार्ये विधातव्ये पूर्वकार्य प्रत्यन्तत्वम्, परकार्य प्रति तु परादित्वमिष्यते, उभयकार्ये च युगपद्विधातव्ये नेष्यते अन्तादिव्यपदेश इति, सा चैषा लौकिकी विवक्षा कुलवधूरिव मर्यादां नातिक्रामति, पर्युदासे च विभक्तिसदृशस्य कार्यविधानान्नामत्वे सति "क्लीबे" (२.४.९७) इति ह्रस्वप्रसङ्गः । न च नपुंसकत्वं द्रव्यस्यैव संभवति, द्रव्यवाचित्वं च नाम्न एव न विभक्त्यन्तस्य, तस्य शक्तिप्रधानत्वादिति वाच्यम्, द्वयोः शक्ति-शक्तिमतोरभिधानादस्त्येव नपुंसकार्थवृत्तित्वं विभक्त्यन्तस्यापि, नैवम्-अव्ययार्थ-वदलिङ्गत्वं विभक्त्यन्तस्य । तथाहि-विभक्त्यन्तं किञ्चित् साधनप्रधानं 'काण्डे, कुड्ये' इत्यादिवत्, किञ्चित् क्रियाप्रधानं 'रमते ब्राह्मणकुलम्' इत्यादिवत्। न चैतयोरसत्त्ववाचित्वाद् लिङ्गप्रतिपादने सामर्थ्यमस्ति विचित्रत्वाद् भावशक्तीनाम्। किञ्च-'काण्डे तिष्ठतः' इत्यादौ संख्यायाः प्राधान्यानपुंसकत्वस्यायोग इत्यवयवधर्मेण समुदायकल्पनाऽत्र न ज्यायसीति क्लीबत्वाभावाद् ह्रस्वत्वा-भावात् प्रतिषेधो न वक्तव्य एव, अत एव च “क्लीबे" यत् तस्येत्युच्यते, तत्र साक्षात् तस्यैव यदा नपुंसकत्वं तदा ह्रस्वः, यस्य त्ववयवद्वारकं तस्य मा भूदिति। अथवा 'क्लीबे' वर्तते यत् तस्यैवानुपजातव्यतिरेकस्येत्यर्थः, विभक्त्यन्तं चोपजातव्यतिरेकमिति ह्रस्वत्वाभावः। अत एव 'काष्ठा ध्यायकः' इत्यत्र ह्रस्वत्वाभावः, यतः काष्ठाशब्दोऽपरित्यक्तस्वरूप एव क्रियां विशिनष्टि, क्रिया-विशेषकत्वाञ्च नपुंसकत्वाध्यारोपः, अमस्तु लुब् भवत्येव, तत्र विशेषानुपादानात्। वृत्तौ तु उपसर्जनपदानामर्थान्तरस्वीकारादनध्या-रोपितमेव नपुंसकत्वमिति तत्र हस्वः, 'सेनानिकुलम्' इति। ननु “क्लीबे" (२.४.९७) इत्यत्र सूत्रे यत् तस्येति नोक्तम्, सत्यं नोक्तम्,केवलमाक्षिप्तम् ‘क्लीबे' इति सप्तमीनिर्देशात्, क्लीबे वर्तते यच्छब्दरूपं तस्येति, अन्यथा तत्रापि “नपुंसकस्य शिः” (१.४. ५५) इत्येवं षष्ठ्या निर्देशं कुर्याद् इति सर्वमवदातमिति ।।२७ ।।
ल.न्यास-अधात्वित्यादि-उच्यते विशिष्टोऽर्थोऽनेनेति बाहुलकात् करणेऽपि घ्यणि वाक्यम्, कर्मणि तु प्रतीतमेव। अर्थो वैधाअभिधेयो द्योत्यश्च। तत्राभिधेयः स्वार्थादिभेदात् पञ्चधा, द्योत्यश्च समुच्चयादिरिति । यद्वा चकारादिना द्योत्यस्यापि समुच्चयादेः समासादिनाऽभिधीयमानत्वादभिधेयत्वमस्तीत्याह-द्योत्यश्चेत्यादि-अभिधेय इति शेषः, न केवलं स्वार्थादिरभिधेयो द्योत्यश्च समुच्चयादिरभिधेय इति चार्थः । समुझयादिारेति-आदिपदाद् 'वा विकल्पादौ' ‘एवोऽवधारणे' इत्यादि बोध्यम्। तथा द्योतकानां विशेषणं नास्ति, यथा-'घटश्च भव्यम्' इति। तथा चादीनां स्वार्थोऽपि द्योत्यतया न वाचकतयेत्येकोऽप्यभिधेयो नास्ति। स्वरादीनां तु लिङ्गसंख्ये न स्तः। ननु 'अहन्' इत्यत्र विभक्त्यन्तद्वारेणैव नामत्वं न भविष्यति किं धातुवर्जनेन? सत्यम्-तथापि 'हन्ति' इत्यत्र धातुवर्जनाभावे विभक्तेः प्राक्तनस्य 'हन्' इत्यस्य नामत्वे “नाम सिद्" (१.१.२१) इति व्यञ्जनद्वारा पदत्वे च नलोपः स्यादिति धातुवर्जनमिति। अथ 'वृक्षान्' इत्यत्र नकारविधानसामर्थ्यादेव नलुग् न भविष्यति किं विभक्तिवर्जनेनेति? सत्यम्-'कांस्कान्' इत्यादौ “शसोऽता०" (१.४.४९) इति नविधानं चरितार्थमित्यत्र नलोपः स्याद् इति। ननु
- - - - - - - - - - - - - - - - - - - - - १. ला.सू. सम्पादितपुस्तके 'न' इति पाठो दृश्यते।