________________
परिशिष्ट - २
૩૯૫
'साधुर्धर्मं ब्रूते' इत्यत्र विभक्त्यन्तत्वादेव नामत्वं न भविष्यति किं वाक्यवर्जनेन ? सत्यम् -"प्रत्ययः प्रकृत्यादेः” (७.४.११५) इति परिभाषया ब्रूधातोरेव विभक्त्यन्तत्वं न तु समग्रवाक्यस्य, ततो वाक्यस्य नामत्वे साधुर्धर्मं ब्रूते इत्येवंरूपाद् वाक्याद् विभक्तावनिष्टरूपप्रसङ्ग इति । समासादेर्भवत्येवेति-अन्यथा ह्यर्थवच्छब्दरूपस्य नामत्वे विधीयमानेऽर्थवत्समुदायरूपस्य वाक्यस्य प्रसङ्ग एव नास्ति किं वाक्यवर्जनेन ? ततश्चैतदेव वाक्यवर्जनं बोधयति-समासादेः समुदायस्य भवत्येवेति । ननु अधातु - विभक्तीत्यत्र पर्युदासाश्रयणादर्थवत एव नामत्वं भविष्यति नार्थोऽर्थवदित्यनेन, सत्यम्-अर्थवदिति संज्ञिनिद्देशार्थम् । पर्युदासाऽऽश्रयणे हि केन धर्मेण सादृश्यमाश्रीयत इत्यप्रतिपत्तिः स्यात्, ततश्चानर्थकानामपि धर्मान्तरेण सदृशत्वे नामसंज्ञाप्रसङ्ग इत्याह- अर्थवदिति । अव्युत्पत्तिपक्षाऽऽश्रयणे 'वन' इत्यादेरखण्डस्यैवार्थवत्त्वं न तु तदवयवस्य 'वन्' इत्यादेर्नान्तस्येति; व्युत्पत्तिपक्षे तु धात्वर्थेनार्थवत्तायामपि धातुद्वारेणैव वर्जनसिद्धिरिति । ननु 'गौः' इति वक्तव्ये शक्तिवैकल्याद् 'गो' इति केनचिदुक्तम्, तत्समीपवर्ती च तदुक्तमपरेण पृष्टः सन्ननुकरोति, तदा तदनुकरणस्य नामसंज्ञा स्याद् वा नवेत्याह- यदेत्यादि । अनुकार्येणेतिवर्णावलीरूपेणेत्यर्थः ।। २७ ।।
शिर्घुट् । १ । १ । २८ ।।
बृ०न्यास — शिर्घुट् इति-'शि:' इत्ययं घुट्संज्ञो भवति, स च " नपुंसकस्य शिः " (१.४.५५) एतद्विहित आदेशरूप एव गृह्यते। न च ‘अप्शिते' इत्यत्र शेर्घुट्संज्ञायाम् “अपः” (१.४.८८) इति दीर्घत्वप्रसङ्ग इति वाच्यम्, अर्थवदनर्थकयोरर्थवतो ग्रहणम् इत्यर्थवतः शिशब्दस्य ग्रहणम्, न चायमर्थवान्, अतो विभक्त्यादेश एव शिर्विज्ञायते । प्रत्ययाप्रत्यययोः प्रत्ययस्यैव वा ग्रहणम् इत्याह-जस्–शसादेश इति । “पदिंच् गतौ” अतः पदेः “ अर्तीरि-स्तु-सु-हु०" (उणा० ३३८) इति मे ततो ज शसि च कृते, अनुबन्धनाशोत्तरकालम् " नपुंसकस्य शि : " (१.४.५५ ) इति शिः, शकारोऽत्र विशेषणार्थ:, तेन घुट्संज्ञायाम् “स्वराच्छौ” (१.४.६५) इति नागमे दीर्घत्वं भवति 'पद्मानि' इति । अत्र अन्ये वैयाकरणाः “शिः सर्वनामस्थानम्,” (पा. १.१. ४२) इति महतीं सर्वनाम (स्थान) संज्ञामारभन्ते । तथाहि सर्वं नाम तिष्ठत्यस्मिन्निति सर्वनामस्थानम्, तेनान्यस्मिन् सर्वनाम न तिष्ठति, क्वचिदेकदेशो निवर्त्तते, ततश्च 'उपसेदुषः' इत्यत्र इडभावः सिद्धो भवति । नैतदस्ति, व्यञ्जनादिलक्षण इट् व्यञ्जनादित्वनिमित्ताभावे स्वयमेव निवर्त्तते, यथा-छत्रनिमित्ता छाया छत्रापाये। अतः प्रयोजनविशेषाभावाल्लघ्व्येव घुट्संज्ञा कृतेति ।। २८ ।।
पुं- स्त्रियोः स्यमौजस् । १ । १ । २९ । ।
बृ०न्यास – पुंस्त्रियोरित्यादि - " पातेर्हुम्सुः " ( उणा० १००२) इति पुमान्, सूते अपत्यं स्त्यायति गर्भोऽस्यामिति वा "स्त्री" (उणा० ४५०) इति त्रुटि निपातनात् स्त्री, पुमांश्च स्त्री च पुं- स्त्रियौ । अलौकिकोऽयं निर्देशः, अन्यथा अर्च्यत्वात् स्त्रीशब्द-स्य प्राग् निर्देशे “स्त्रियाः पुंसो द्वन्द्वाच" (७.३.९६ ) इति समासान्ते स्त्री-पुंसयोरिति निर्देशेन भाव्यम्। अनेन चैतद् ज्ञाप्यते - सन्ति अलौकिका निर्देशाः, यथा - द्वन्द्वे वर्तिपदानि, 'प्लक्ष- न्यग्रोधी' इत्यत्र प्लक्षोऽपि द्व्यर्थः, न्यग्रोधोऽपि द्वयर्थः, न चासौ समासादन्यत्र द्व्यर्थत्वेन प्रयुज्यत इति; यथा वा 'दिवाश्रयः' इत्यादौ वृत्तिविषय एव दिवशब्दोऽकारान्तः प्रयुज्यते, नान्यत्रेति । औरिति प्रथमेति ननु कथं प्रथमा (सम्बन्धिन औ इत्यस्य ग्रहणम् अमुत्तरोपादानाद्) द्वितीयासंबन्धिन एव ग्रहणं प्राप्नोति ? अन्यथा प्रथमापरिग्रहार्थं ‘स्यौजसमौ' इति विदध्यात्। नैवम् व्यतिक्रमनिर्देश एव आवृत्त्योभयपरिग्रहं साधयति । तथाहि - 'अमौ' द्वितीयाया इति (इति द्वितीयायाः) परिग्रहः, ‘औ-जस्' इति प्रथमायाः, अनेनैव स्वरूपेण स्यादिति सूत्रेऽविशेषेण पठितौ, अन्यथाऽमः ' पूर्वं जसं पठेदिति, अत एव 'अविशेषेण' इत्युक्तम् । “स्यतेरी च वा” ( उणा० ९१५) इति मनि सीमन् । ननु कर-चरणादिमती व्यक्तिः पुरुषार्थोपयोगिनी पुमानित्युच्यते, सैव च स्तन-केशवती स्त्रीति, तद्ग्रहणे च 'सीमा, सीमानो' इत्यादावप्रसङ्गेनाव्याप्तिदोषपराहतत्वादिदमनुपपन्नमिति पृच्छति-किं
T
१.
ला. सू. सम्पादिते पुस्तके 'अन्यथाऽतः ' वर्तते ।