________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ૩૯૬ पुनरिति। समाधत्ते-लिङ्गमिति। हेत्वादिकमपि लिङ्गत्वेन प्रसिद्धमिति पृच्छति-किं पुनस्तदिति। अयमभिप्राय:-न तावद् गोत्वादिवत संस्थान(विशेष)व्यङ्ग्यत्वं स्त्रीत्वादिलिङ्गस्य सामान्य-विशेषरूपताप्रसङ्गात् (जातिविशेषरूपत्वं स्यात्), ततश्च खट्वाशिशपा-दार-पुरुष-नभो-मनःप्रकृ(भृ)तिष्वलिङ्गतैव स्याद् भिन्नसंस्थानत्वात्। न च सकृदाख्यातं स्त्रीत्वादिलिङ्गंगोत्वादिवत् सर्वेषु स्त्री-पुं-नपुंसकेषु व्यक्त्यन्तरेषु ग्रहीतुं शक्यते। अथ स्तन-केशवत्त्वं रोमशत्वमुभयोलिङ्गवत्त्वेन सदृशत्वं च स्त्रीत्वं पुंस्त्वं नपुंसकत्वं च लिङ्गमिति । यदाहुः
"स्तन-केशवती स्त्री स्याद् रोमशः पुरुषः स्मृतः।
उभयोरन्तरं यञ्च तदभावे नपुंसकम्" ।।१८ ।। इति। एतदपि न संगच्छते, अतिव्याप्त्यव्याप्तिदोषदुष्टत्वात्। तथाहि-स्त्रीवेषधारिणि भ्रूकुंसे स्तन-केशवत्त्वात् स्त्रीत्वप्रसङ्गः (भ्रूकुंसः स्त्रीवेषधारी नटस्तस्य स्तनकेशसम्बन्धात् स्त्रीत्वे सत्याप् स्यात्), केशवपने च स्त्रियाः स्त्रीत्वं न स्यात्, तदानीं केशैः संबन्धाभावात्, कुमार्याश्च स्तनादिसंबन्धस्योत्तरकालभावित्वादतिशयेऽपि मतौ विज्ञायमाने स्त्रीत्वं न स्यात्। नापितगृहाभिधायकस्याभेदोपचारेण मनुष्याभिधायिनः खरकुटीशब्दस्य 'खरकुटीः पश्य' इत्यत्र तदर्थस्य लोमशत्वेन पुंस्त्वात् “शसोऽता०" (१.४. ४९) इति नत्वप्रसङ्गः। खट्वा-वृक्षयोः स्त्रीत्व-पुंस्त्वयोरभावात् सत्त्ववाचितया लिङ्गवत्त्वेन स्त्री-पुंससदृशत्वाल्लिङ्गसंख्यारहितस्यासत्त्वभूतस्याव्ययाख्यातार्थस्याभावान्नपुंसकत्वप्रसङ्गः। न च सूक्ष्मत्वात् खट्वादौ स्तनकेशादेर्दुर्बलेन्द्रियैरनुपलम्भ इति वाच्यम्, इन्द्रियदौर्बल्यमप्यनुपलब्धिकारणं प्रमाणान्तरावसितवस्तुविषयमेवाभिधातुं शक्यम्, न चात्र किञ्चिदपि तत्सद्भावे प्रमाणमस्ति। अथ आदित्यगतिवत् सदपि नोपलभ्यते इति चेद्, नैवम्-तत्रादित्यगतेरनुपलभ्यमानत्वेऽपि देशान्तरप्राप्तिलक्षणेन कार्येणानुमीयमानत्वात् सत्त्वमुपपद्यते। एवं तर्हि खट्वादौ आबादेलिङ्गकार्यस्य दर्शनात् तदनुमानमस्तु। अत्राभिधीयते-आदित्यगत्यनुमाने देशान्तरप्राप्तिः प्रामाणिकी सती लिङ्गं भवति, इह तु तल्लिङ्गस्वरूपविविक्तखट्वादिवस्तुविषयेण प्रत्यक्षेण लिङ्गाभावनिश्चयकरणे (०कारिणा) विरुध्यते, इतरेतराश्रयत्वं च-सति आबादौ लिङ्गावगमः, सति च लिङ्गे आबादय इति । तथा 'तटः, तटी, तटम्' इति कार्यदर्शनात् सर्वलिङ्गप्रसङ्गः, न चैकस्मिन् द्रव्ये सर्वलिङ्गत्वं युक्तं विरोधात्, स्त्री-पुंससद्भावे च नपुंसकत्वं न स्यात्, 'तदभावे नपुंसकम्' इति वचनात्, तस्माद् वैयाकरणैः स्वसिद्धान्तः कश्चिदाश्रयितव्य इति। पुनः समाधत्ते-अयमियमिदमिति-लोकस्तावच्छिष्टप्रयोगानुसारी क्वचिदयमिति प्रयुङ्क्ते-अयं घट इति, न तत्रेयमिदमिति वा, क्वचिदियमिति प्रयुङ्क्ते-इयं कुटीति, न तत्रायमिदमिति वा, तथा (क्वचिद्) इदं कुड्यमिति प्रयुङ्क्ते, न तत्रायमियमिति वा। तत्र यत उत्पाद-प्रलय-स्थितिलक्षणात् स्वभावादयमियमिदमितिशब्दो व्यवतिष्ठते स तच्छब्दव्यवस्थाहेतुः स्वभावो लिङ्गम्। अयमभिप्राय:-प्रतिलक्ष(तिक्षणं उत्पाद-प्रलयस्थितिधर्माणः सर्वे भावाः पूर्वस्वभावातिवृत्त्या स्वयमेवोत्तरीभवन्तः कुम्भादयो दृश्यन्ते, नहि कश्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते, वर्द्धते च यावदनेन वर्द्धितव्यम्, अपायेन वा युज्यते। तत्रोत्पादः पुंस्त्वम्, प्रलयः स्त्रीत्वम्, स्थितिर्नपुंसकत्वमुच्यते। तथाहि-रूपादीनां पर्यायाणां सवनं प्रसवः पुमान्, अपचयः स्त्यानं स्त्री, साम्यावस्था स्थितिर्नपुंसकम्। एताश्चावस्थाः शब्दगोचरा एवेति। तत्र कश्चिच्छब्दः केनचिदेकेन द्वाभ्यां त्रिभिर्वा धर्मविशिष्टमर्थं नियम-विकल्पाभ्यामाचष्टे, तत्र शिष्टप्रसिद्धिः प्रमाणम्। लोके च सूतेऽपत्यमिति पुमान्, स्त्यायति गर्भोऽस्यामिति स्त्री, इति कर्प्रधिकरणसाधनावेतो, इह तु भावसाधनौ। सर्वाश्च मूर्तयः संस्त्यान-प्रसवगुणाः, रूपादिसंघातरूपं च घटादि वस्तु, नह्येकान्तेन व्यतिरिक्तमवयवि द्रव्यमस्ति। यद्यपि अनार(ब्ध)कार्याणां तेषां पूर्वावस्थायामप्रत्यक्षत्वाच्छब्दव्यवहारागोचरत्वम्, यदाह-"गुणानां परमं रूपं न दृष्टिपथमृच्छति;" तथाऽपि तत्परिणामरूपा लोकप्रसिद्धा रुपादयो गृह्यन्ते, संपिण्डितस्वभावाः चक्षुर्गोचरा मूर्तिशब्देनोच्यन्ते। सर्वपदार्थव्यापित्वं पुंस्त्वादीनां उत्पादादिप्रवृत्तेनित्यत्वात्; सामान्यमपि गोत्वादिकं व्यक्तेरव्यतिरिक्तत्वात् प्रवृत्तिधर्मः, शशविषाणादावप्युत्तरपदार्थद्वारको लिङ्गयोग इति पदार्थव्यापिनीत्वं प्रवृत्तेः, स्त्रीत्वं स्त्रीता पुंस्त्वमित्यादौ संस्त्यानादेरपि प्रवृत्तिलक्षणलिङ्गयोगः । न चाव्यवस्थाप्रसङ्गः, विवक्षातो व्यवस्थासिद्धेः, लोकव्यवहारानुयायिनी च विवक्षाऽऽश्रीयते न तु प्रायोक्त्री। तदुक्तं हरिणा