SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ।।१९।। परिशिष्ट-२ 3८७ "संनिधाने निमित्तानां किञ्चिदेव प्रवर्तकम्। यथा तक्षादिशब्दानां लिङष नियमस्तथा। भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः। यद्यद्धर्मगताने(द्धर्मेऽङ्गतामे)ति लिङ्गं तत् तत् प्रचक्षते" ।।२०।। तस्माच्छिष्टलोकाल्लिङ्गस्य प्रतिपादने व्यवस्थाऽनुमन्तव्येति। भ्रुकुंसादिषु तु स्तन-केशलक्षणलिङ्गानभ्युपगम एव परिहारः। 'पुष्यस्तारका नक्षत्रम्' इति शब्दान्यत्वाल्लिङ्गान्यत्वम्, एकस्मिन्नेवार्थे उत्पादादिसद्भावात्। तथा 'कुटीरः' इति रेफस्यावयवस्योपजननेऽवयवान्यत्वाच्छब्दान्यत्वे लिङ्गभेदः, यदाह-"एकार्थेषु शब्दान्यत्वाद्" इति। एकरूपेषु तु समानार्थेषु तटादिषु शब्देषु यदा यस्य यस्य धर्मस्योत्कलितरूपता विवक्ष्यते तदा तत् तल्लिङ्गमिति। यद्यप्यविचारितरमणीयं लिङ्गमाश्रित्य वक्तारः शब्दानुञ्चारयन्ति श्रोतारश्च प्रतिपद्यन्ते, तथाऽपि वस्तुतत्त्वनिर्णयार्थमिदमुच्यते। तञ्च लिङ्गमर्थधर्म इति केचित्। तथाहि-घटादिशब्दस्य यदभिधेयं तच्छ्रवणजन्मना विज्ञानेन विषयीक्रियते, तस्य तदन्वय-व्यतिरेकाभ्यामभ्युपगतात्मनो धर्मः स्वभावो लिङ्गम्। यद्ययं अभिधानधर्म एवाङ्गीक्रियते तदा गुणवचनानामाश्रयतो लिङ्गोपादानमनुपपन्नं स्यात्, ‘शुक्लः पटः, शुक्ला शाटी, शुक्लं वस्त्रम्' इति, नहि शुक्लादिशब्दानां पटादिशब्दस्वरूपमाश्रयः, तदनभिधानाद्, अर्थो ह्येभिरभिधीयते, तत्रैषां तल्लिङ्गनियमानुपपत्तिः; अभिधेयधर्मे तु यत् पटादिशब्दैरभिधीयते तदेव शक्कादिशब्दैरिति तत्तल्लिङ्गव्यवस्थोपपद्यते इत्यर्थधर्मत्वमस्याऽऽश्रीयत इत्याह तछेत्यादि। शब्दधर्म इत्यपरे तथा(हि)-शब्दप्रतीत्यन्वयव्यतिरेकानुगामिनी लिङ्गप्रतीतिर्लिङ्गस्य शब्दधर्मतां गमयति। यद्धि यत्प्रतीत्यन्वय-व्यतिरेकानुगामि' ति तत् तद्धर्मः, यथा पटप्रतीत्यन्वय-व्यतिरेकानुगामिप्रतीतिः शुक्लो गुण इति; न चार्थे प्रतीयमाने पुंस्त्वादिलिङ्गप्रतीतिः कस' दस्ति। पुल्लिङ्गादिव्यवहारोऽपि शब्दविषय एव, पुल्लिङ्गोऽयं शब्द इत्यादि, गुणवचनानामपि शुक्लादीनां स्वधर्मः पुंस्त्वादि लिङ्गः, परमेतेषामत्र पुंस्त्वमत्र स्त्रीत्वमित्यादिलिङ्गकारिकायां प्रतिपदपाठे गौरवं स्यादिति पटादिशब्दगतं लिङ्गं तदभिधेये वस्तुन्युपकल्प्य तद्द्वारेण गुणवचनानां लाघवार्थं लिङ्गकल्पना क्रियते, यथा-वाक्ये पदानामर्थः परिकल्प्यते; तत्रापि हि पदानां केवलानां लोके प्रयोगाभावाद् वाक्यमेवार्थवत्, तत्र च प्रतिवाक्यं व्युत्पत्त्यसंभवात् सादृश्यादन्वय-व्यतिरेको कल्पितावाश्रित्य पदेषु पदार्थावस्थानं क्रियत इत्यत आह-शब्दधर्म इत्यपरे इति। तत्र पक्षद्वयस्यापि निर्दोषत्वादुभयपक्षपरिग्रह एव ज्यायानित्यत आह-उभयथाऽपि न दोष इति।।२९।। __ स्वरादयोऽव्ययम् ।१।१।३०।। बृन्यास-स्वरादयेत्यादि-स्वर् आदिर्येषामिति बहुव्रीहिः, अवयवेन विग्रहः समुदायः समासार्थः । *विशेष्यासंनिधानेनापि पदसंस्कारो भवति* इति न्यायव्युत्पत्त्यर्थं 'स्वरादयः' इति पुंसा निर्देशः “आकृतिग्रहणा जाति:०" इतिवत्, अन्यथा तु गृह्यतेऽनयेति ग्रहणीति स्यात्। न च लिङ्गसर्वनामनपुंसकेन निर्देशः प्राप्नोति? स्वरादिशब्दाऽऽरब्धत्वेन तत्समुदायस्य पूर्वं बुद्धावुपारोहाद्। 'अव्ययम्' इत्येकवचननपुंसकेन निर्देशः *अभिधेयविशेषनिरपेक्षः पदसंस्कारपक्षोऽप्यस्ति* इति ज्ञापनार्थम्। तत्र हि पदान्तरनिरपेक्षे संस्क्रियमाणे नपुंसकं लिङ्गमर्थनामप्राप्तं एकत्वं च, वस्त्वन्तरनिरपेक्षत्वात् सन्निहिततत्रभाविनो बहिरङ्गस्याऽऽश्रयस्य संबन्धिन्यौ लिङ्ग-संख्ये न भवतः, एवं च “आकृतिग्रहणा जातिः०" इति सिद्धं भवति। यदा तु वाक्यसंस्कारपक्षस्तदाऽऽश्रयविशेषस्य पूर्वमेव प्रक्रमे विशेषणानामपि तन्निविविष्टत्वात् तद्गतयोलिङ्ग-संख्ययोोगो भवति। सर्वत्र च लौकिकः प्रयोगः प्रामाण्येनाऽऽश्रीयत इत्यनवस्थाऽपि न भवतीति। 'स्वर्' इत्यतः सेरव्ययत्वाद् “अव्ययस्य" (३.२.७) इति लुप्। “सुखण् तत्क्रियायाम्" "चुरादिभ्यो णिच्" (३.४.१७) इति णिचि “अतः" (४.३.८२) इत्यलोपे तिवि शवि च सुखयति। “इंण्क् गतौ" आपूर्वादतः पञ्चम्या हौ “अवर्णस्य०" (१.२.६) इत्येत्वे एहि। “जनैचि प्रादर्भावे" अत: “रुशि-जनि-पुणि:०" (उणा० ३६१) इति ये “ये नवा" (४.२.६२)
SR No.023413
Book TitleSiddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Original Sutra AuthorHemchandracharya
AuthorSanyamprabhvijay, Prashamprabhvijay
PublisherSyadwad Prakashan
Publication Year2012
Total Pages484
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy