Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 421
________________ 3८८ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન इत्यात्वे "आत्" (२.४.१८) इत्यापि आमन्त्र्ये सौ “एदापः” (१.४.४२) इत्येत्वे जाये! इति। “रुहं जन्मनि" इत्यतः पञ्चम्या आववि शवि "लघोरुपान्त्यस्य" (४.३.४) इति गुणे च रोहावः, पूर्वत्र च “रो रे लुग् दीर्घश्च०" (१.३.४१) इति रलोपे स्वा रोहाव। “स्पृहण ईप्सायाम्" इत्यतः चुरादित्वाण्णिचि अकारलोपे तिवि शवि (स्पृहयति)। (“गम्लं गतौ" इत्यत आपूर्वाद् वर्तमानातिवि शवि) “गमिषद्” (४.२.१०६) इति छत्वे “स्वरेभ्यः” (१.३.३०) इति द्वित्वे “अघोषे प्रथम:०" (१.३.५०) इति प्रथमछस्य चत्वे आगच्छति। छायेति-(अत्र त्रुटितमाभाति)। एतेषु स्वःशब्दाद् यथायोगं विभक्तिः । इह स्वरादीनां तदन्तानामव्ययकार्यस्य विधि-प्रतिषेधदर्शनात् तद्विशेषं दर्शयितुमाह-अत्यु साविति-उच्चैरतिक्रान्ताविति शक्तिप्रधानान्यप्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति, यथा दोषामन्यमहरिति, तत उच्चैःशब्दस्य प्रक्रियायां द्वितीयान्तस्य समासे अत्युच्चैसाविति। “अव्ययस्य" (३.२.७) इत्यव्ययसंबन्धिनः स्यादेर्लुबुच्यते, अत्युच्चैसावित्यादौ च यत्रोपसर्जनस्वराद्यन्तो भवति तत्रावयवोऽव्ययं न समुदायस्तस्य, अव्ययान्तसमुदायो ह्ययमुच्चैरतिक्रान्तो यस्तमतिक्रान्तमाह नोच्चैरर्थम्, तस्योपसर्जनत्वाद्, अतिक्रान्तस्य च लिङ्ग-कारक-विभक्ति-संख्या'. विशेषोपादानात्सत्ववाचित्वान्नाऽव्ययत्वम् वक्ष्यमाणयुक्त्या वाऽव्ययस्याव्ययत्वमुच्यते, समुदायस्य चायम् “नाम्नः प्रथमैक-द्विबहौ" (२.२.३१) इति स्यादि वयवस्याव्ययस्य इति लुब् न भवतीत्याह-उबॅरित्यादि-पूर्वपदार्थश्च समुदायार्थः, अर्थद्वारकश्च संबन्ध इति स्याद्युत्पत्तिः समुदायादेव। 'परमोचैः, परमनीचैः' इत्यत्र तु इति-तुशब्दो विशेषणार्थः, पूर्वस्मादत्र विशेषं द्योतयतिपरमोच्चैरित्यादौ यत्रानुपसर्जनस्वराद्यन्तो भवति तत्रावयवः समुदायश्चोभयमप्यव्ययं भवत्येव, समासस्योत्तरपदार्थप्रधान(त्वा)ल्लिङ्गादिविशेषानुपादानाञ्च इत्यव्ययसंबन्ध्येव स्यादिरिति भवत्येव लुप्, एवकारेणाऽनव्ययसंज्ञां निराकरोति। ननु सूत्रे विशेषस्याऽश्रूयमाणत्वाल्लिङ्गादिविशेषानुपादाने स्वरादयोऽव्ययसंज्ञा भवन्तीति कुतोऽवगम्यते इत्याह-अन्वर्थसंज्ञा चेत्यादि-चशब्दो यस्मादर्थे। अन्वर्थं दर्शयति-लिङ्गति-तत्र लिङ्गविशेषप्रतिपादने सामर्थ्याभावाल्लिङ्गषु नानात्वाभावः, तथा यानि साधनप्रधानान्यव्ययानि तेषां शक्त्यन्तरानावेशात् क्रियाप्रधानानां च शक्तिसंभवा(संबन्धा)भावात् कारकेऽपि नानात्वाभावः, एकत्वादीनामप्यर्थानामभावाद् वचनेऽपि नानात्वाभावः। तदेवं यान्यसत्त्वभूतार्थाभिधायीन्यव्ययानि तेषां लिङ्ग-कारकैकत्वादिभिरयोगाद् (तेषां) द्रव्यधर्मत्वात्, सत्त्ववाचिनामपि शब्दशक्तित्वाभाव्याद् युष्मदस्मदोलिङ्गनेव तदयोगात्, न व्येति नानात्वं न गच्छति सत्त्वधर्मान गृह्णातीत्यन्वर्थसिद्धिः। स्वोक्तमेव दृढयति-यदुक्तमिति-अयमर्थ:-'अव्ययम्' इति महती संज्ञा क्रियते, संज्ञा च नाम लघीयस्तत् कर्तव्यमिदम्, लाघवार्थत्वात्, संज्ञाकरणस्य चात्र महत्त्वस्येदं प्रयोजनम्, यदन्वर्था सती स्वरादिविशेष्यमव्ययं संज्ञिनमुपस्थापयति-अव्ययं स्वरादि अव्ययसंज्ञं भवतीति। ननु कथमेकेन यत्नेनोभयं लभ्यम्?, तथाहि-अन्वर्थत्वे विज्ञायमानेऽर्थपारतन्त्र्यमापद्यमानः शब्दो न शब्दस्वरूपाधिष्ठानो भवतीति संज्ञा न लभ्यते, अथार्थनिरपेक्षस्वरूपाधिष्ठान एव संज्ञात्वमापद्यते न तर्हि तस्य विशेष(ष्यत्वमिति, अत्रोच्यते-लोके हि द्विविधा संज्ञा-नैमित्तिकी पारिभाषिकी चेति, तत्र यथा 'कृष्ण' इति संज्ञा सति कृष्णगुणे क्रियमाणा निमित्तप्रयुक्ता नैमित्तिकी, यथा-वासुदेवस्य, असति तु पारिभाषिकी, यथा-कश्चि(कस्यचि)द् गौरस्य। एवं सति संज्ञाकरणकाल एव विशिष्टस्य संज्ञाकरणात् तनिमित्तशून्यस्य निवर्तितत्वात् पश्चाद् गुणाभिधानेन रूढिरूपेणैव प्रवृत्तावपि विशिष्टस्यैव प्रतिपत्तिर्न नानागमनमिति। नन्वेवं स्वरादिग्रहणमपनीय अलिङ्गसंख्यमव्ययम्' इति कर्तव्यम्, एवं च इतरेऽपि योगा न कृता भवन्ति, अनेनैव सिद्धत्वात्। नन्वेवमपीतरेतराश्रयत्वादप्रसिद्धिः, तथाहि-सत्यलिङ्गाऽसंख्यत्वे संज्ञया भवितव्यम्, संज्ञया चालिङ्गाऽसंख्यत्वं भाव्यते, तदितरेतराश्रयं भवति, इतरेतराश्रयाणि च (कार्याणि) न प्रकल्पन्ते। नेदं वाचनिकम्-अलिङ्गता असंख्यता च। किं तर्हि ? स्वाभाविकमेतत्। तद्यथा-समानमीहमानानां चाऽधीयानानां च केचिदर्थेयुज्यन्ते, अपरे न, न च कश्चिदर्थवानिति सर्वैरर्थवद्भिर्भवितव्यम्, नवा कश्चिदनर्थक इति सर्वरनर्थकैर्भवितव्यमिति (तत्र किमस्माभिः कर्तुं शक्यम्, स्वाभाविकमेतत्) । इह लौकिकत्वादलिङ्गसंख्यात्वस्य १. ला.सू. सम्पादितपुस्तके 'संख्याविशेषोपादानादव्यययोगित्वम्' इति पाठो दृश्यते। - - - - - - - - - - - - - - - - - - - -

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484