Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
परिशिष्ट-२
3८८ प्रषिशेति क्रिया, न च निरधिष्ठाना क्रिया प्रवर्तते, इति योग्यं साधनमुपादत्ते, इति कर्मसाधनम् ; 'प्रविश गृहम्' इत्यस्य योऽर्थः पदद्वयवाच्यः स 'प्रविश'शब्देनोच्यते, तञ्च साधनं केचिदभिधेयत्वेन प्रतिपत्तारः, केचिद् गम्यमानत्वेन, पिण्ड्यां प्रवेशस्यासंभवाद् योग्यं साधनमभिधीयते गम्यते वा। एवं 'पिण्डीम्' इत्यपि 'पिण्डी भक्षय' इत्यस्यार्थस्य वाचकः, साधनं च नान्तरेण क्रियामिति योग्यां क्रियामुपादत्ते, यथा-दधिघटादिषु पूर्णादयः क्रिया उपादीयन्ते। अर्थः प्रयोजनम्, प्रकरणं प्रस्तावः, गतौ बोधे सति। ननु लोकत एव निराकाङ्क्षस्य पदसमूहस्य वाक्यत्वं प्रसिद्धम्। तथाहि
"साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम्।
क्रियाप्रधानं गुणवदेकार्थं वाक्यमुच्यते ।।१७।।" (भेदे विभागे विशेषजिज्ञासायां यत् साकाङ्क्षावयवम्, अविभागे तु परानाकाङ्क्षाः शब्दा: पदानि यस्मिन् तत् परानाकाङ्क्षशब्दकम्। कर्मप्रधानम्' इति पाठेऽपि क्रियाप्रधानमित्यर्थः, तस्यैव प्रधानाभिधेयप्रयुक्तत्वादित्यभिप्रायः। गुणवद् विशेषणपदयुक्तम्। एकार्थमेकप्रयोजनम्।) सत्यम्-लोको हि साकाङ्क्षत्वे क्रियाभेदेऽपि एकवाक्यत्वं प्रतिपद्यते, साकाङ्क्षस्यापि क्रियाभेदे वाक्यभेद इत्येतदर्थमिदं वचनमित्याह-लोकादेवेत्यादि। संभवति हि त्यादिभेदेऽपि पदानामाकाङ्क्षा, न च तत्र लोकवाक्यभेदोऽस्तीति लौकिके वाक्ये परिगृह्यमाणेऽतिप्रसङ्गः स्यादतस्तव्यवच्छेदार्थमिदमउपरि (?) इत्यर्थः। ननु सूत्रे विशेषस्यानुपादानात् कथमेतल्लभ्यत इत्याह-आख्यातमिाते। गुणे हि संख्या न विवक्ष्यते, अत्र त्वाख्यातस्य विधीयमानविषयतया प्राधान्यादेकत्वसंख्या विवक्ष्यत इति भावः। व्यवच्छेदफलं दर्शयति-तेनेति। 'मम भविष्यति' इत्यत्रापि 'ओदनं पच' इत्यनुवर्तनीयम्, 'ओदनं पच' इत्यत्र युष्मदर्थकर्तृकेण पचिना कर्मत्वेनापेक्ष्यमाण ओदनः 'तव भविष्यति, मम भविष्यति' इति युष्मद(स्मद)र्थस्वामिकोभवतिना कर्तृत्वेनापेक्ष्यते, इति सापेक्षत्वाल्लोकिकमिदमेकं वाक्यम् ; अत्र तु शास्त्रे त्याद्यन्तभेदाद् भिद्यते, इति भित्रवाक्यावयवात् 'पच' इत्यतः पदाद् वाक्यान्तरावयवयोर्युष्मदस्मदोस्ते-मयादेशौ न भवत इति। पच, तव, भविष्यतीति-अत्र ओदनस्य कर्मणो विशेषणस्याप्रयुज्यमानता, अत्रापि भिन्नवाक्यत्वात् 'ते-मे' आदेशाऽभावः। 'ओदनम्, तव भविष्यति' इत्यत्र तु यस्यैव 'ओदनम्' इति विशेषणं कर्म, तस्यैव 'पच' इति त्याद्यन्तस्याप्रयोग उदाहरणम्, अत्रापि भिन्नवाक्यत्वात् ते-मयादेशाऽभावः; एतदेवाह-श्रूयमाण इत्यादि। कुरु कुरु न: कटमित्यादाविति-“डुकृग् करणे" ततो हौ “कृग्-तनादेरुः" (३.४.८३) इत्युकारे "उश्नोः" (४.३.२) इति गुणे “अतः शित्युत्" (४.२.८९) इत्यकारस्योकारे “असंयोगादोः" (४.२.८६) इति हिलोपे "भृशाभी
ण्याविच्छेदा०" (७.४.७३) इति द्वित्वे कुरु कुरु इति। अत्र हिस्थाने द्विर्वचनमिति रूपभेदेऽप्यर्थाभेदादाख्याताभेदे सत्येकवाक्यत्वाद् वस्-नसादय इति भावः ।।२६।।
ल.न्यास- सविशेषणेत्यादि-आख्यायते स्म क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याख्यातम्, तञ्च त्याद्यन्तमिते। क्रियोपलक्षणं चैतत्, तेन 'देवदत्तेन शयितव्यम्' इत्याद्यपि वाक्यं भवति। साक्षादित्यादि-यत् क्रियायाः साधनस्य वा तदतदात्मनोऽतद्रूपादव्यवधानेन व्यवच्छेदकं क्वचित् तत् साक्षाद् विशेषणम्, यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण। 'धर्म' इत्यादौ यत्र क्रियापदं कर्तरि तत्र कर्ता क्रियापदस्य समानाधिकरणं विशेषणमन्यानि व्यधिकरणानि, कर्मणि तु क्रियापदे कर्म समानाधिकरणम्। साधु वो रक्षत्वित्यादौ साध्विति रक्षणादिक्रियायाः समानाधिकरणम्, रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरणमिति। शालीनां ते इति-अत्रौदनस्य साक्षाद् विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम्। शीलं ते स्वमिति-अत्रास्तीत्यादि क्रियापदं न प्रयुज्यते परं तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम्। ननु शब्दप्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषण-विशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च स्यात्। किञ्च, यद्यप्रयुज्यमानमपि शब्दरूपं विशेष्यं विशेषणं वा गमयेत् तदाऽनर्थकः सर्वत्र तत्प्रयोग इत्याह-अर्थात् इत्यादि। लोकादेवेति-लोको हि साकाङ्क्षत्वे सति क्रियाभेदेऽप्येकवाक्यत्वं प्रतिपद्यत इति साकाङ्क्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थं वचनमिति भावः । कुरु कुरु न इति-अत्र युगपद्वाक्यद्वयप्रयोग इति एकवाक्यत्वाभावानसादेशस्य न प्राप्तिरिति पराभिप्रायः ।।२६।।
Loading... Page Navigation 1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484