Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 410
________________ परिशिष्ट-२ 3८७ समाधत्ते-उच्यत इति, अयमर्थः-समासात् समासान्तो विधीयमानस्तस्यैवान्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः, तस्य समासावयवत्वाद्, नहि समुदायावयवोऽवयवस्यावयवो भवति; यथा ‘परमदण्डिनौ' इत्यत्र समुदायाश्रिता विभक्तिः, न तदवयवस्यान्तत्वविघातिकेति। यद्वा इत्थं व्याख्या-समासशब्देन समांसावयवोऽभिधीयते, (ततः) समासात् समासावयवात् त्वचः समासान्तो विधीयते इति भवत्ववृत्यन्तत्वं त्वचः, तथाऽपि सिनियमेन पदत्वं निवर्त्यत इति भावः; अथवा समासात् परः समासान्तो विधीयते, ततः स्यादेः पूर्वस्त्वच एव परो भवतीति अस्तु अवृत्त्यन्तत्वं त्वचः, तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभावः। समासशब्दस्तु लक्ष्यवशात् क्वचित् समासावयवं क्वचित् समासं चाऽऽह। दधिसेगिति-दधि सिञ्चतीति सोपपदाद् विच् नेष्यते, (छान्दसत्वाभावात्।) ननु ‘परमदिवौ' इत्यादौ केन पदत्वं प्राप्तं यनिषिध्यते इत्याह-अन्तर्वर्तिन्या इति। स्थानिवद्भावेनेति'स्थानीवाऽवर्णविधौ" (७.४.१०९) इत्यनेन, “लुप्यय्वृल्लनत्" (७.४.११२) इति तु प्रतिषेधः पूर्वकार्यं प्रत्येव, न तु समुदायकार्यमिति पदत्वं प्राप्तम्। ननु तथाऽपि सौश्रुतमित्यादिवदत्रापि स्यादौ प्रत्यये 'सित्येव' इति नियमेन पदत्वप्रतिषेधो भविष्यति किमनेन? इत्याह-न चेति ।।२५।। ल.न्यास-वृत्त्यन्त इत्यादि-वर्तनं वृत्तिः क्तिः, वर्तनव्यापारवतीत्यर्थः, वर्तनं तु अवयवार्थापेक्षया परस्य समुदायार्थस्य प्रतिपादनम्; यद्वा 'वर्तिषीष्ट-परार्थमभिधेयाद' इत्याशास्यमाना वृत्तिः, कर्तरि तिक; यद्वा वर्तन्ते स्वार्थपरित्यागेन पदान्योति आधारे क्तौ वत्तिः पदसमदा यादिरूपा। सा त्रेधा-समासवृत्तिः १ तद्धितान्तवृत्तिः २ नामधातुवृत्तिश्चेति; 'राजपुरुषः, औपगवः, पुत्रकाम्यति' इत्यादि। परार्थाभिधानमितिअवयवार्थापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया परोऽर्थः समुदायार्थः, यद्वा अवयवपदापेक्षया समुदायः परमदिवलक्षणः परस्त स्यार्थः-तस्याभिधानम्। अनेकार्थत्वात् परार्थाभिधानेऽपि वृत्तिशब्दः। अवसानमिति-अवसीयतेऽस्मिन् इत्यवसानम्। लोढ इति लिहौ, क्विप्, शुनो लिहौ श्वलिहौ “षष्ठ्ययनाच्छेषे" (३.१.७६) इति समासः, इति कर्तव्यम्, न तु श्वानं लीढ इति, यतस्तस्मिन् कृते *गतिकारक०* इति क्विबन्तेन लिह इत्यनेन समासे सति लिह इत्यस्याविभक्त्यन्तत्वेन पदत्वप्राप्तिरेव नास्तीति। लुगादीनीति-आदिशब्दाद् ढत्वे सत्यस्यैव डत्वम्, धत्वे सति “गडदबादे:०" (२.१.७७) इति दस्य धत्वम्, कत्वे सति गत्वम्, लुगभावे “हस्वान्झ्नो द्वे" (१.३.२७) इति द्वित्वं च न भवति। राजवागिति-अत्रान्तग्रहणात् पूर्वस्य पदत्वे सति नलोपः, तथाऽवयवाश्रितपदत्वप्रतिषेधेऽपि समुदायविभक्त्याश्रितं पदत्वमस्तीति कत्वं बभूवेति। वाक-त्वक-युच इति-अत्र वाकशब्दापेक्षया त्वकशब्दो वृत्त्यन्त इति परस्याऽऽशयः। त्वक-त्वचमिति-अत्र समासान्ते कते वृत्तिरकारान्ता भवति; न च तत्र त्वगिति वृत्त्यन्तः, तत: “वृत्त्यन्तोऽसषे" (१.१.२५) इति पदत्वप्रतिषेधस्त्वचो न प्राप्नोति। समाधत्ते-उच्यत इत्यादिना। अयमर्थः-समासात् समासान्तो विधीयमानस्तस्यैवान्तत्वं व्याहन्ति, न तु तदवयवस्य त्वचः, तस्य समासावयवत्वात्, नहि समुदायावयवोऽवयवस्यावयवो भवति। यद्वेत्थं व्याख्या-समासशब्देन समासावयवोऽभिधीयते, ततः समासावयवात् त्वचः समासान्तो विधीयत इति भवत्ववृत्त्यन्तत्वं त्वचस्तथापि सित्येवेति नियमेन पदत्वं निवर्त्यत इति भावः। अथवा समासात् परः समासान्तो विधीयते, ततः स्यादेः पूर्वस्त्वच एव परो भवति, इति अस्तु अवृत्त्यन्तत्वं त्वचः, तत्र च पदत्वप्राप्तिरेव नास्तीति कत्वाभाव इति। समासशब्दस्तु लक्ष्यवशात् क्वचित् समासावयवं क्वचित् समासं चाऽऽहेति। दधिसेगिति-सिञ्चतीति विच् (सेक्,) ततो दनः सेगित्येव कार्यम्, दधि सिञ्चतीति तु न, यतः 'सोपपदात् सिचो विज् नेष्यते' इति न्यासः ।।२५।। सविशेषणमाख्यातं वाक्यम् ।१।१।२६।। बृन्यास-सविशेषणेत्यादि-"शिष्लूप् विशेषणे" इत्यस्माद् विपूर्वाद् विशिष्यतेऽन्यतो व्यवच्छिद्यते विशेष्यं येन "करणाधारे" (५.३.१२९) इत्यनटि विशेषणम्, सह विशेषणेन वर्तते “सहस्य सोऽन्यार्थे" (३.२.१४३) इति सादेशे सविशेषणम्। आख्यायते साध्यार्थाभिधायितया कथ्यते स्मेति ते आख्यातं क्रियाप्रधानम्, तञ्च त्याद्यन्तमिति। क्रियोपलक्षणं चैतत्, तेन 'देवदत्तेन शयितव्यम्' इत्याद्यपि वाक्यं भवति, तत्र साधनव्यापारस्य क्रियार्थतया प्रतीतेः, 'कारकः' इत्यादौ च शब्दशक्तिमाहात्म्यात्

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484