Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 416
________________ परिशिष्ट २ ३८३ पुनस्तदेवावर्त्तत इति चक्रकदोषपराहतत्वादिदमनुपपन्नम्। नैष दोषः - अन्यथासिद्धः केवलस्याप्रयोगः, न केवला प्रकृतिः प्रयोक्तव्या, न केवलः प्रत्ययः इति नियमाद्, नित्यसंबद्धावेतावर्थी - प्रकृतिः प्रत्यय इति, अर्थवत्ता त्वन्वयव्यतिरेकाभ्यां प्रत्येकमस्त्येव । नन्वन्यद् भवान् पृष्टोऽन्यद् व्याचष्टे - आम्रान् पृष्टः कोविदारानाचष्टे, अर्थवत्ता नोपपद्यते इति भवानस्माभिश्चोदितः केवलस्याप्रयोगे हेतुमाह एवं हि ब्रूमः - समुदाय एव लोकेऽर्थे प्रयुज्यते, न प्रकृतिभागः, तस्मात् तस्यार्थो न प्रसिध्यति । उच्यते-उक्तमा (म) त्राऽन्वय-व्यतिरेकाभ्यामर्थवत्ता सिद्धति (अन्वयोऽनुगमः सति शब्देऽर्थावगमः, व्यतिरेकः शब्दाभावे तदर्थानवगमः) । कोऽसावन्वयो व्यतिरेको वा ? इह 'वृक्षः' इत्युक्ते कश्चिच्छब्दः श्रूयते - वृक्षशब्दोऽव कारान्तः सकारः प्रत्ययः, अर्थोऽपि कश्चिदुत्पद्यते (कश्चिद् गम्यते) -मूल-स्कन्ध-फल- पलाशवत्ता एकत्वं च । 'वृक्षौ' इत्युक्तेऽपि कश्चिच्छब्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी -सकारो हीयते, औकार उपजायते, वृक्षशब्दोऽकारान्तोऽन्वयी; अर्थोऽपि कश्चिद् हीयते कश्चिदुपजायते कश्चिदन्वयी - एकत्वं हीयते, द्वित्वमुपजायते, मूल-स्कन्ध- पलाशवत्ताऽन्वयिनी; तेन मन्यामहे - यः शब्दो हीयते तस्यासावर्थो यो हीयते, यश्च शब्द उपजायते तस्यासावर्थो य उपजायते, यश्च शब्दोऽन्वयी तस्यासावर्थो योऽन्वयीति सिद्धाऽर्थवत्तेति । स्यादेतदेवम्, यद्येकः शब्द एकस्मिन्नर्थे नियतः स्यात् ततो युज्यत एव तद् वक्तुम्। (तत एतद्युज्येत वक्तुम्), न चैतदस्ति । तथाहि - बहवो हि शब्दा एकार्था भवन्ति, यथा –इन्द्रः, शक्रः, (पुरुहूतः), पुरन्दरः; कन्दुः, कोष्ठः, कुसूल इति । एकश्च शब्दो बह्वर्थः, यथा - अक्षाः, पादाः, माषा इति । तत्र सिध्यत्वर्थवत्ता, इदं तु न सिध्यति - अयं प्रकृत्यर्थोऽयं प्रत्ययार्थः । प्रकृतेरेव सर्वेऽर्थाः स्युः, यथा दधि, मधु, अग्निचिद् इति, प्रत्ययस्तु क्वचिद् द्योतकः। प्रत्ययस्यैव सर्वेऽर्थाः स्युः, यथा - अस्याऽपत्यम् इरितिः, प्रकृतिस्त्वर्थाभिधाने साहाय्यमात्रं कुर्यात्। तत्र प्रकृतेः सर्वाभिधानपक्षे सीध्यत्यस्या अर्थवत्ता, प्रत्ययस्य तु सर्वाभिधानपक्षे प्रकृतेरर्थवत्ता न सिध्यति इति तदवस्थो दोषः । उच्यते –एवं हि सामान्यशब्दा एते स्युः, न च सामान्यशब्दा अन्तरेण विशेषं प्रकरणं वा विशेषेष्ववतिष्ठन्ते (विशेषं विशेषबोधकपदान्तरसमभिव्याहारम्। एवं च प्रकरणादिसापेक्षतयाऽर्थप्रत्यायकत्वं सामान्यशब्दत्वमिति भावः, एते तु नैवमित्याह-) अत्र तु नियोगतो 'वृक्ष' (अस्य नाममात्रप्रयोगे तात्पर्यम् ) इत्युक्ते प्रकरणादिना विनैव स्वभावतः कस्मिंश्चिदर्थे प्रतीतिरुपजायते, अतो मन्यामहे - नैते सामान्यशब्दा इति, (न चेत् सामान्यशब्दाः) प्रकृतिः प्रकृत्यर्थे वर्त्तते, प्रत्ययस्तु प्रत्ययार्थ इति । यदि तु सर्वानर्थान् प्रकृतिरेवाभिदध्याद् 'वृक्ष' इत्युक्ते सर्वेऽर्था प्रतीयेरन् प्रत्ययो वा सर्वं नामार्थं प्रत्याययेद्, न चैवं प्रतीतिरस्ति, न चाप्रतीतिकमभ्युपगन्तुं शक्यते । ननु चादीनां द्योतकत्वादभिधेयार्थाभावेऽपि द्योत्यार्थसद्भावात् सत्यर्थवत्त्वे सिध्यतु संज्ञा, येषां द्योत्योऽप्यर्थो नास्ति तेषां नामसंज्ञा न प्राप्नोति, ततश्च खञ्जति, निखञ्जति, लम्बते, प्रलम्बते, (इत्यादौ) नामत्वाभावाद् विभक्त्यभावे पदत्वाभावात् तत्कार्याभावः। न च वक्तव्यम्-न नामसंज्ञामात्रप्रतिबद्धा स्याद्युत्पत्तिः किन्त्वेकत्वादिनिबन्धनाऽपि ततश्च सत्यपि नामत्वे एकत्वाद्य-भावात् स्यादेरभावः, यतः “नाम्नः प्रथमा” (२.२.३१ ) इति योगविभागेन एकत्वाभावेऽपि भविष्यति । तथेदमपि न वाच्यम् - आचार्यप्रवृत्तेरनर्थकानामप्येषां भवत्यर्थवत्कृतम्, यदयम्-अधिपर्योरनर्थकयोः “गतार्थाधिपरि०" (३.१.१) इति समाससंज्ञानिषेधार्थं गत्युपसर्गसंज्ञानिषेधं शास्ति इति । नैष दोषः - अर्थवत्त्वाद् भवत्येव नामसंज्ञा । ननूक्तं द्योत्यार्थाभावादानर्थक्यम्, उक्तमिदम्, केवल-मयुक्तम्, तथाहि--यस्य शब्दस्य वाच्यं द्योत्यं वा वस्तु न संभवति तस्य वाक्यार्थेऽनुपयोगात् प्रयोगानुपपत्तिः स्यादिति, अस्त्यमीषां द्योत्योऽर्थः केवलं यो द्योत्योऽर्थस्तस्य प्रकरणादिवशात् संप्रत्ययाद् निष्प्रयोजनतोच्यते। धातूपसर्गयोश्च साधारणार्थतयाऽधिकद्यो- त्याऽर्थाभावादानर्थार्थक्यमत्रोच्यते पूर्वाचार्यैः, न तु सर्वात्मनाऽर्थाभावात् । 'निखञ्जति, प्रलम्बते' इत्यत्र हि प्रकरणादिसामर्थ्यावगत विशेषां धातुनोक्तां क्रियां द्योतयतो नि-प्रशब्दी, तद्धि क्रियालक्षणं वस्तु विशिष्टं (वस्त्वविशिष्टं) नि प्रशब्दासंनिधानेऽप्यनाहितविशेषं भवति, यथा-शङ्ख न्यस्तं क्षीरं शौक्ल्येनाविशिष्टं (अभिन्नं) शङ्खात् । यदाह श्रीशेषभट्टारकः - " नेमावनर्थको, किं तर्हि ? अनर्थान्तर-वाचिनावनर्थकौ धातुनोक्तां क्रियामाहतुस्तदविशिष्टं भवति, यथा शङ्खे पयः" इति । यद्येवं धातुनोक्तत्वात् तदर्थस्योपसर्गप्रयोगो न प्राप्नोति उक्तार्थानामप्रयोगः इति, न-प्रकरणादिविशेषादवगतार्थानामपि स्फुटतरावगत्यर्थः प्रयोगो लोके दृश्यते, यथा- 'अपूपौ द्वौ ब्राह्मणौ द्वौ आनय' इति ।

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484