Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 01
Author(s): Hemchandracharya, Sanyamprabhvijay, Prashamprabhvijay
Publisher: Syadwad Prakashan

View full book text
Previous | Next

Page 409
________________ 3८६ શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ल.न्यास-न स्तमित्यादि-मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः, यथा-उष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेण चोष्ट्रेण सह सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्तते, मुखेनैव च मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं गमयतीत्युक्तम्-मतोरपीति-मतुशब्दस्यापि मत्वर्थाव्यभिचाराद् मत्वर्थेन ग्रहणमिति। पेचुष्मानीति-"स्थानीवावर्णविधौ" (७.४.१०९) इति न्यायेन अपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽप्यपदत्वात् “धुटस्तृतीयः" (२.१.७६) इति षस्य डत्वं न भवति ।।२३।। मनुर्नभोऽगिरो वति ।११।२४।। बृन्यास-मनुर्नभ इत्यादि-"मनिंच् ज्ञाने" "रुद्यति-जनि-तनि-धनि-मनि०" (उणा० ९९७) इत्युसि मनुस्, “णभ च हिंसायाम्" "अस्" (उणा० ९५२) इत्यसि नभस्, “अगु गतौ" "उदितः स्वरान्नोऽन्तः” (४.४.९८) इति नाऽऽगमे “विहायस्सुमनस्-पुरुदंशस्-पुरूरवोऽङ्गिरसः" (उणा० ९७६) इत्यसि इरागमे च अङ्गिरस्। मनुरिवेत्यादि विगृह्य “स्यादेरिवे" (७.१.५२) इति वति पदत्वाभावाद् रुत्वाभावे यथासंभवं षत्वे(सत्वे) च मनुष्वदित्यादि। छन्दसीति अनुपदकारः (उपसंख्यानान्येतानि छन्दोविषयाणीति कैयटः) इति ।।२४ ।। वृत्त्यन्तोऽसषे ।१।१२५।। बृन्यास-वृत्त्यन्त इत्यादि-स्वार्थं परित्यज्य वर्तन्ते पदान्यस्यामिति वृत्तिः, तस्या अन्तः। वृत्तिमाह-परार्थेति। समासे उपसर्जनं पदं प्रधानमनुसंक्रामति, द्वन्द्वे च वर्तिपदानां परस्परार्थसंक्रमः, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति यत् परस्य स्वार्थातिरिक्तस्यार्थस्याभिधानं सा वृत्तिः, तस्याश्चान्तत्वं न संभवतीत्याह-तद्वांश्चेत्यादि। सा च वृत्तिर्यत्र वर्त्तते सोऽपि पदसमुदायो लक्षणया वृत्तिः। आदिशब्दाद् नामधातुतद्धितपरिग्रहः । “दिवेडिव्" (उणा० ९४९) इति डिवि दिव्, परमा द्यौर्ययोरिति बहुव्रीहौ “ऐकायें" (३.२.८) इति विभक्ते पि अन्तर्वर्तिविभक्त्यपेक्षया पदत्वप्राप्तावनेन प्रतिषेधाद् “उः पदान्ते०" (२.१.११८) इत्युत्वाभावात् परमदिवौ। एवं श्वयते: “श्वन्मातरिश्वन" (उणा० ९०२) इत्यनि श्वन्, लिहेर्लीढ इति क्विपि शुनो लिहौ श्वलिहौ। 'गम्बँ गतौ” “धु-गमिभ्यां डोः" (उणा० ८६७) इति डोप्रत्यये अन्त्यस्वरादिलोपे गो, दुहेर्दुग्ध इति क्विपि गोर्दुहौ गोदुहो। यदा तु श्वानं लीढः गां दुग्ध इति क्रियते, तदा *गतिकारक०* इति पदानां कृद्भिः समासवचनं प्राक् स्याद्युत्पत्तेः, (*गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् स्याद्युत्पत्तेः*) इति विभक्त्यभावात् पदत्वाप्रसङ्गे प्रतिषेधाप्रसङ्ग एवेति। परमा वाग् ययोः “परतः स्त्री०" (३.२.४९) इति पुंभावे परमवाचौ। ईषदूनौ दण्डिनौ “नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुदण्डिनौ। एषु “हो धुट्प-दान्ते०" (२.१.८२) इति ढत्वम् “भ्वादेर्दादेर्घः" (२.१.८३) इति घत्वम् “चजः कगम्" (२.१.८६) इति कत्वम् “नाम्नो नोऽनह्नः" (२.१.९१) इति नलोपश्च न भवन्ति। (चैत्रस्य कर्म) चिनोतेः “चि-मिदि-शंसिभ्यः कित्” (उणा० ४५४) इति किति त्रे चित्रा, सा देवताऽस्य “देवता" (६.२.१०१) इत्यणि चैत्रः, तस्य, क्रियते इति मनि कर्मन् से: “अनतो लुप्" (१.४.५९) इति लुप्। वृत्त्य-भावे प्रतिषेधाभावात् पदत्वानलोपः। राज्ञो वाक् 'राजवाक्' इत्यत्रान्तग्रहणात् पूर्वस्य पदत्वे नलोपः, अत्रावयवाश्रितपदत्वप्रति-षेधेऽपि समुदायाश्रितं पदत्वमस्तीति कत्वम्। तनोते: “तनेवच्" (उणा० ८७२) इति ड्वचि त्वक्, "झुं गतौ" इत्यतः "स्रोश्चिक्” (उणा० ८७१) इति चिकि उक्, वाक् च त्वक् च स्रुक् च वाक्-त्वक्-उच इति त्रयाणां द्वन्द्वे पृथग् द्वयोः सहोक्त्य-भावाद् वृत्त्यभावे मध्यमस्य पदत्वप्रतिषेधाभावात् कत्वम्। त्रयाणां द्वन्द्वे हि त्र्यानि पदानि, न तु व्यानि, अत एवाऽऽह-होतृ-पोतृ-नेष्टोद्गातारः' इत्यत्र मध्यवर्तिनाम् आ न भवति। अथेति-वाक् च त्वक् “चवर्गदषहः समाहारे" (७.३.९८) इति समासान्ते अति कृते वाक्त्वचम्। अत्र च समासान्ते वृत्तिरकारान्ता भवति न तत्र त्वगिति वृत्त्यन्तः, इत्ययं प्रतिषेधस्त्वचो न भवति।

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484