________________
3८६
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ल.न्यास-न स्तमित्यादि-मतुर्मत्वर्थोऽर्थो यस्येति समानाधिकरणो बहुव्रीहिः, यथा-उष्ट्रो मुखमस्येत्युष्ट्रमुख इत्यत्र, नहि प्राणी प्राण्यन्तरस्य साक्षान्मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेण चोष्ट्रेण सह सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्तते, मुखेनैव च मुखसादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन सामानाधिकरण्यमनुपपद्यमानं मतुशब्दं मत्वर्थवृत्तिं गमयतीत्युक्तम्-मतोरपीति-मतुशब्दस्यापि मत्वर्थाव्यभिचाराद् मत्वर्थेन ग्रहणमिति। पेचुष्मानीति-"स्थानीवावर्णविधौ" (७.४.१०९) इति न्यायेन अपदसंज्ञस्याऽऽदेशोऽप्यपदमित्युषादेशे कृते सन्तत्वाभावेऽप्यपदत्वात् “धुटस्तृतीयः" (२.१.७६) इति षस्य डत्वं न भवति ।।२३।।
मनुर्नभोऽगिरो वति ।११।२४।। बृन्यास-मनुर्नभ इत्यादि-"मनिंच् ज्ञाने" "रुद्यति-जनि-तनि-धनि-मनि०" (उणा० ९९७) इत्युसि मनुस्, “णभ च हिंसायाम्" "अस्" (उणा० ९५२) इत्यसि नभस्, “अगु गतौ" "उदितः स्वरान्नोऽन्तः” (४.४.९८) इति नाऽऽगमे “विहायस्सुमनस्-पुरुदंशस्-पुरूरवोऽङ्गिरसः" (उणा० ९७६) इत्यसि इरागमे च अङ्गिरस्। मनुरिवेत्यादि विगृह्य “स्यादेरिवे" (७.१.५२) इति वति पदत्वाभावाद् रुत्वाभावे यथासंभवं षत्वे(सत्वे) च मनुष्वदित्यादि। छन्दसीति अनुपदकारः (उपसंख्यानान्येतानि छन्दोविषयाणीति कैयटः) इति ।।२४ ।।
वृत्त्यन्तोऽसषे ।१।१२५।। बृन्यास-वृत्त्यन्त इत्यादि-स्वार्थं परित्यज्य वर्तन्ते पदान्यस्यामिति वृत्तिः, तस्या अन्तः। वृत्तिमाह-परार्थेति। समासे उपसर्जनं पदं प्रधानमनुसंक्रामति, द्वन्द्वे च वर्तिपदानां परस्परार्थसंक्रमः, प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इति यत् परस्य स्वार्थातिरिक्तस्यार्थस्याभिधानं सा वृत्तिः, तस्याश्चान्तत्वं न संभवतीत्याह-तद्वांश्चेत्यादि। सा च वृत्तिर्यत्र वर्त्तते सोऽपि पदसमुदायो लक्षणया वृत्तिः। आदिशब्दाद् नामधातुतद्धितपरिग्रहः । “दिवेडिव्" (उणा० ९४९) इति डिवि दिव्, परमा द्यौर्ययोरिति बहुव्रीहौ “ऐकायें" (३.२.८) इति विभक्ते पि अन्तर्वर्तिविभक्त्यपेक्षया पदत्वप्राप्तावनेन प्रतिषेधाद् “उः पदान्ते०" (२.१.११८) इत्युत्वाभावात् परमदिवौ। एवं श्वयते: “श्वन्मातरिश्वन" (उणा० ९०२) इत्यनि श्वन्, लिहेर्लीढ इति क्विपि शुनो लिहौ श्वलिहौ। 'गम्बँ गतौ” “धु-गमिभ्यां डोः" (उणा० ८६७) इति डोप्रत्यये अन्त्यस्वरादिलोपे गो, दुहेर्दुग्ध इति क्विपि गोर्दुहौ गोदुहो। यदा तु श्वानं लीढः गां दुग्ध इति क्रियते, तदा *गतिकारक०* इति पदानां कृद्भिः समासवचनं प्राक् स्याद्युत्पत्तेः, (*गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् स्याद्युत्पत्तेः*) इति विभक्त्यभावात् पदत्वाप्रसङ्गे प्रतिषेधाप्रसङ्ग एवेति। परमा वाग् ययोः “परतः स्त्री०" (३.२.४९) इति पुंभावे परमवाचौ। ईषदूनौ दण्डिनौ “नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुदण्डिनौ। एषु “हो धुट्प-दान्ते०" (२.१.८२) इति ढत्वम् “भ्वादेर्दादेर्घः" (२.१.८३) इति घत्वम् “चजः कगम्" (२.१.८६) इति कत्वम् “नाम्नो नोऽनह्नः" (२.१.९१) इति नलोपश्च न भवन्ति। (चैत्रस्य कर्म) चिनोतेः “चि-मिदि-शंसिभ्यः कित्” (उणा० ४५४) इति किति त्रे चित्रा, सा देवताऽस्य “देवता" (६.२.१०१) इत्यणि चैत्रः, तस्य, क्रियते इति मनि कर्मन् से: “अनतो लुप्" (१.४.५९) इति लुप्। वृत्त्य-भावे प्रतिषेधाभावात् पदत्वानलोपः। राज्ञो वाक् 'राजवाक्' इत्यत्रान्तग्रहणात् पूर्वस्य पदत्वे नलोपः, अत्रावयवाश्रितपदत्वप्रति-षेधेऽपि समुदायाश्रितं पदत्वमस्तीति कत्वम्। तनोते: “तनेवच्" (उणा० ८७२) इति ड्वचि त्वक्, "झुं गतौ" इत्यतः "स्रोश्चिक्” (उणा० ८७१) इति चिकि उक्, वाक् च त्वक् च स्रुक् च वाक्-त्वक्-उच इति त्रयाणां द्वन्द्वे पृथग् द्वयोः सहोक्त्य-भावाद् वृत्त्यभावे मध्यमस्य पदत्वप्रतिषेधाभावात् कत्वम्। त्रयाणां द्वन्द्वे हि त्र्यानि पदानि, न तु व्यानि, अत एवाऽऽह-होतृ-पोतृ-नेष्टोद्गातारः' इत्यत्र मध्यवर्तिनाम् आ न भवति। अथेति-वाक् च त्वक् “चवर्गदषहः समाहारे" (७.३.९८) इति समासान्ते अति कृते वाक्त्वचम्। अत्र च समासान्ते वृत्तिरकारान्ता भवति न तत्र त्वगिति वृत्त्यन्तः, इत्ययं प्रतिषेधस्त्वचो न भवति।