________________
परिशिष्ट - २
૩૮૫
इति क्यनि, "क्यङ्" (३.४.२६) इति क्यङि, “डाज्लोहितादिभ्यः षिद्" (३.४.३०) इति क्यषि च कृते, अनेन पदत्वान्नलोपे "क्यनि" (४.३.११२) इति इत्वे “दीर्घश्च्वि यङ् - यक्-क्येषु च " (४.३.१०८) इति दीर्घत्वे राजीयतीत्यादयः सिद्धाः । वक्त्यर्थमिति, उच्यत इति वा "दिद्युद्ददृद्०" (५.२.८३) इति क्विपि 'वाग्' इति निपात्यते, तामिच्छति क्यनि वाच्यति, अत्र पदत्वाभावात् “चजः कगम्" (२.१.८६) इति ककाराभावः । ("षोंच् अन्तकर्मणि ") “स्यतेरी च वा" ( उणा० ९१५) इति मनि सामन्, वेगः “सात्मन्०” (उणा० ९१६) इति मनि आत्वाभावे च वेमन्, "तत्र साधौ " (७.१.१५) इति ये पदत्वा (भावान्नलोपाभावे सामन्यः, वेमन्यः । अन्तर्वर्तिन्या विभक्त्या “तदन्तं पदम् " (१.१.२० ) इति पदत्वं प्राप्तम्, तत् 'सिति' (सित्येव) इति नियमेनापोदितमपि 'व्यञ्जने' इति पुनः प्रसूतम्, तदपि 'अयि' इति प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ।। २२ ।।
ल. न्यास - नं क्य इत्यादि - 'क्ये' इति सामान्यनिर्देशेऽपि क्य-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद् अन्यस्य निरनुबन्धस्याभावाद् उत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहणमित्याह- क्य इत्यादि । चर्मायतीति चर्मणः प्रागतत्तत्त्वासंभवात् च्व्यर्थाभावे क्यङ्घ् न प्राप्नोतीति तद्वद्वृत्तेश्चर्मन्शब्दात् प्रत्ययः, अचर्मवान् चर्मवान् भवतीति, यथा-निद्रायतीत्यादि । अयितीति- अन्तर्वर्तिन्या विभक्त्या “ तदन्तं पदम्” (१.१.२०) इति पदत्वं प्राप्तम्, तत् सित्येवेति नियमेनापोदितमपि 'व्यञ्जने' इत्यंशेन पुनः प्रसूतम्, ततः 'अञ्' इति प्रतिषेधेन प्रतिषिद्धमनेन प्रतिप्रसूयते ।। २२ ।। नस्तं मत्वर्थे । १ । १ । २३ ।।
बृ० न्यास - न स्तमित्यादि - नाम्नोऽनुवृत्तत्वात् तद्विशेषणत्वात् त (स्त) स्य तदन्तप्रतिपत्तिरित्याह-सकारान्तमित्यादि । अर्थग्रहणं किमर्थम्? ‘न स्तं मतौ' इत्येवोच्यतामिति । नैवम् - मतावित्युच्यमाने इहैव स्याद् यशस्वान्, 'पयस्वी' इत्यादौ न स्यात्; अर्थग्रहणे पुनः क्रियमाणे मतौ च सिद्धं भवति, यश्चान्यस्तेन समानार्थस्तस्मिन्नपि । ननु व्यञ्जनमिति वर्त्तते, तत्रैवं संबन्धः क्रियते - मतौ यद् व्यञ्जनं वर्त्तत इति, शब्दे च वृत्त्यसंभवात् तदर्थो विज्ञायते, नार्थोऽर्थग्रहणेन, उच्यते-मतौ व्यञ्जने इति सामानाधिकरण्येन मुख्यकल्पनया संबन्धे संभवति गौणकल्पना (गौणकल्पनयाऽर्थग्रहणं न लभ्यते इति कुतोऽर्थलाभः ? तस्मात् प्रत्ययान्तत्वा(रा)र्थमर्थग्रहणम्। यद्यर्थग्रहणं क्रियते मतौ न प्राप्नोति न हि मतुर्मत्वर्थे वर्त्तते, उपलक्षणस्य ह्यन्योपलक्षणे चरितार्थत्वात् स्वतः कार्यं प्रति निमित्तत्वोप(त्वाव)गमाभावात् नैवम्-मतुरपि मत्वर्थे वर्त्तते, मत्वर्थ इति हि विशिष्टोऽर्थः - तदस्यास्ति, तदस्मिन्नस्तीति षष्ठ्यर्थः सप्तम्यर्थश्च, तत्र यद्यपि विशिष्टार्थविशेषणं मतुरुपादीयते, तथाऽपि तत्र तस्य वृत्तिरस्त्येव इत्याह- मतोरपीत्यादि । अयमर्थः-यत्र रूपान्तरेणोपलक्षणत्वं रूपान्तरेण च कार्ययोगः प्रतिपाद्यते, तत्रोपलक्षणस्याप्युपलक्ष्यरूपसद्भावे सति कार्ययोगो भवति । यथा-'देवदत्तशालाया (यां) ब्राह्मणा आनीयन्ताम्' इत्युक्ते सति ब्राह्मण्ये देवदत्तस्याऽप्याऽऽनयनं भवति, कार्यनिमित्तरूपाभावे तु न भवत्युपलक्षणस्य कार्ययोगः । यथा - देवदत्तशाला भिद्यतामिति । 'मत्वर्थे' इत्यत्र च मतुर्मत्वर्थी (ऽर्थो) यस्येति समानाधिकरणो बहुव्रीहिः, गतार्थत्वाच्चार्थशब्दस्याप्रयोग उष्ट्रमुखवत्, तथाहि उष्ट्रो मुखमस्येति, न च प्राणी प्राण्यन्तरस्य मुखं भवतीति सामर्थ्यात् सादृश्यप्रतीतिः, समग्रेणोष्ट्रेण सादृश्याभावादुष्ट्रशब्दोऽवयवे वर्त्तते, मुखेनैव च मुखस्य सादृश्यं प्रसिद्धमिति सामर्थ्यान्मुखमिव मुखमस्येत्यर्थोऽवतिष्ठते; एवमिहापि मतुशब्दस्यार्थेन सामानाधिकरण्यमनुपपद्यमानममुं मत्वर्थवृत्तिं गमयतीत्युक्तम् - मतोरपिमतुशब्दस्यापि मत्वर्थाव्यभिचारान्मत्वर्थशब्देन ग्रहणमिति । पचेः क्वसि “घसैकस्वरातः क्वसोः " ( ४.४.८२) इति इटि " अनादेशादे: ० " (४.१.२४) इत्येत्वे मतौ पदत्वाभावाद् दत्वाभावे “क्वसुष्मतौ च” (२.१.१०५) इत्युषादेशे स्थानिवद्भावाद् डत्वाभावे सौ पेचुष्मानिति । " अशेर्यश्चादिः " ( उणा० ९५८) इत्यसि यागमे मतौ "मावर्णान्त०" (२.१.९४) इति मस्य वत्वे रूत्वाभावे च यशस्वान्। "तडण् आघाते" ताडयति पर्वतादीनपि "ह सृ-रुहि युषि तडिभ्य इत् " ( उणा० ८८८) इति 'इति' (इत्प्रत्यये) तडित्, ("मृत् प्राणत्यागे") “म्र उत्” (उणा० ८८९) इत्युति गुणे मरुत्, विपूर्वाद् द्युतेः क्विपि विद्युत्, मतौ दत्वाभावे तडित्वानित्यादि । "तक्षौ त्वक्षौ तनूकरणे " "उक्षितक्ष्यक्षि०" (उणा० ९०० ) इत्यनि तक्षन् । प्रतिषेधस्य प्राप्तिपूर्वकत्वात् प्राप्तिं दर्शयति- अय्व्यञ्जने इतीति ।। २३ ।।