________________
३८४
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન
'ददाति नः शास्त्रम्' इत्यादौ च ददातीत्यादेर्विभक्तिसंज्ञकत्वेन पद (पदत्वा भावान्नो न स्यादित्यव्याप्तिः, इति ते (अतिव्याप्त्यव्याप्ती) मा भूतामित्यन्तग्रहणम् ।।२०।।
नाम सञ्ज । । १ । १ । २१ । ।
बृ०न्यास—नामेत्यादि-नमति - प्रह्वीभावं गच्छत्यर्थं प्रत्येतत् "सात्मन्नात्मन्वेमन्०" (उणा० ९१६) इति मनि मकारस्यात्वे च नाम। स् इद् यस्य स सिद्, अन्यस्यासंभवात् प्रत्यय एव तत्साहचर्याद् यकारवर्जितं व्यञ्जनमपीत्याह- सितीत्यादि । भातेर्डवतौ भवत्, तस्यायम् " भवतोरिकणीयसौ” (६.३.३०) इति ईयसि पदत्वात् तृतीये भवदीयः । 'उर्वै' इत्यस्माद् “इणुर्वि० ' (उणा० १८२) इति णे ऊर्णा अस्य सन्ति, (ऊर्णायुः । अहंयुः, अहय्यैः शुभंयुः, शुभय्यँः) 'अहम्, शुभम्' इति विभक्तिप्रतिरूपकमव्ययम्, “ऊर्णाऽहंशुभमो युस्” (७.२.१७) इति युसि अनेन पदत्वे "तौ मुमो व्यञ्जने स्वौ" (१.३.१४) इत्यनुस्वारानुनासिकौ च भवतः । "पां पाने" पीयते तदिति "पा-हाक्भ्यां पय-ह्यौ च " ( उणा० ९५३) इत्यसि पयः, राजन् (त) इति "उक्षि-तक्ष्यक्षीशिराजि० " ( उणा० ९००) इत्यनि राजन् पश्यतीति क्विपि दृक्, एषां भ्यामि, सुपि, तलि, त्वे च प्रत्यये पदत्वाद् रुत्व-नलोपगत्वानि भवन्ति। राजानमिच्छति " अमाव्ययात् क्यन् च" (३.४.२३) इति काम्ये नलोपे च राजकाम्यति । वचेर्मिवि वच्मि । यजेरिष्टवानिति “सुयजोर्ध्वनिप्” (५.१.१७२) इति यज्वेति, अत्र पदत्वाभावात् कत्व-गत्वे न भवतः । ननु पयोभ्यामित्यादिसिद्ध्यर्थं व्यञ्जनग्रहणमस्तु, सित् प्रत्ययस्तु विभक्त्यन्ताद् विधीयते, तत्रान्तर्वर्तिन्यैव विभक्त्या स्थानिवद्भावेन पूर्वेण पदत्वे सिद्धे सिद्ग्रहणमतिरिच्यते। नातिरिच्यते, नियमार्थत्वात् तस्येत्याह- अन्तर्वर्तिन्येत्यादि । नियमफलं दर्शयति - तेनेत्यादिना । सुपूर्वात् "श्रुंट् श्रवणे". 'इत्यस्मात् क्विपि सुश्रुत्, भज्यतेऽनेनेति "गोचर - संचर०" (५.३.१३१) इति घे, “क्तेऽनिटश्चजो: कगौ घिति" (४.१. १११) इति गत्वे भगः, सोऽस्यास्तीति मतौ "मावर्णान्त०" (२.१.९४) इति वत्वे च भगवान्, तयोरिदम् “तस्येदम्" (६.३.१६०) इत्यणि पदत्वाभावाद् दत्वाभावे सौश्रुतम्, भागवतमिति । 'सौश्रुतम्' इत्यादौ नियमस्य चरितार्थत्वात् 'पयोभ्याम् ' इत्यादौ च ‘अय्व्यञ्जने' इत्यस्य, ‘राजता, दृक्त्वम्' इत्यत्रोभयप्राप्तौ शब्दपरविप्रतिषेधात् "तदन्तं पदम्” (१.१.२०) इत्यस्यैव नियम्यमानत्वाद् वाऽय्व्यञ्जनाश्रितं पदत्वं भवति ।। २१ ।।
ल. न्यास - नामेत्यादि-नमति धातवे इति नाम, नमति प्रह्वीभावं गच्छति अर्थं प्रति इति वा "सात्मन्नात्मन्०" ( उणा० ९१६) इति साधुः । (व्यञ्जनं वि-अञ्जनम्) वेति विशिष्टार्थप्रतीतिं जनयतीति वि: “नी वी-प्र-हृभ्यो डित् " ( उणा० ६१६) इति डित् इः । ननु 'नाम सिद्व्यञ्जने' इत्येव क्रियतां किं यवर्जनेन ? न च 'वाच्यति' इत्यादावपि पदसंज्ञाप्राप्तिरिति वाच्यम्, यतो व्यञ्जनद्वाराऽनेनैव ' राजीयति' इत्यादी पदत्वेऽपि सिद्धे “नं क्ये” (१.१.२२) इति सूत्रं नियमसूत्रतया व्याख्यास्यते - नकारान्तमेव क्यप्रत्यये पदसंज्ञं भवति नान्यद् इति, नान्तं क्यप्रत्यय एव पदम्, न प्रत्ययान्तरे, इति विपरीतनियमोऽपि कथं न भवति ? तथा च 'राजा, सीमा' इत्यादावपि पदत्वं न स्यादिति चेत्, तन्न - "युवा खलति०" (३.१.११३) इत्यादिनिर्देशात्। सत्यम्-यवर्जनाभावे 'सत्सु साधु-सत्यम् ' इत्यादिषु “नाम सिद्०" (१.१.२१) इति पदसंज्ञा स्यादित्येतदर्थं यवर्जनमिति। राजतेति, सौश्रुतमित्यादौ नियमस्य चरितार्थत्वात्, पयोभ्यामित्यादौ च 'अय्व्यञ्जने' इत्यस्य, राजता, दृक्त्वमित्यत्रोभयप्राप्तौ *स्पर्धे परम् ("स्पद्धे” ७.४.११९) इति न्यायाद् व्यञ्जनाश्रितं पदत्वं भवति ।। २१ । ।
नं क्ये |१|१|२२||
बृ०न्यास–नं क्य इत्यादि - 'क्ये' इति सामान्यनिर्देशे क्य-क्यपोर्नामाधिकारेण व्यावर्तितत्वाद्, अन्यस्य च निरनुबन्धस्याभावादुत्सृष्टानुबन्धस्य क्यमात्रस्य ग्रहणमित्याह- क्य इत्यादि-उत्सृष्टास्त्यक्ता नकारादयः प्रत्ययात्मवर्तिनो विशेषकरा अनुबन्धा यैस्ते तथा। “विशेषणमन्तः " ( ७.४.११३) इत्याह- नकारान्तमिति । राजानमिच्छतीति-" अमाव्ययात् क्यन् च" (३.४.२३)
,