________________
परिशिष्ट-२
303 कथं वैरूप्यनिर्देश इत्याह-'स्' इत्युत्सृष्टेत्यादि-अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्ध इत्, उत्सृष्टः त्यक्तोऽनुबन्धो यस्येति विग्रहः। अनेनैतद् ज्ञाप्यते-सेरिकारोऽनुबन्ध एव न तु रूपम्, तिवस्तु वकारः। अत एवाऽत्र व्यवस्थार्थ आदिशब्दो गृहीतः, तेन ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचायैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽत्र गृह्यन्ते इत्याह-स्यादय इत्यादि। प्रदिश्यन्ते प्रयोजनेष्विति प्रदेशा:-प्रयोजनस्थानानीति ।।१९।।
ल.न्यास-स्त्यादिरित्यादि-विभज्यन्ते विभागशः प्रकाश्यन्ते कर्तृ-कर्मादयोऽर्था अनयेति, विभजनं वा "श्वादिभ्यः" (५.३.९२) इति क्तिः। अनुबध्यते कार्यार्थमुपदिश्यते इत्यनुबन्ध इत्, उत्सृष्टस्त्यक्तोऽनुबन्धो येन यस्य वा स तथा तस्य। व्यवस्थावाचीति-तेन ये यदनुबन्धा यावन्तो विभक्तिसंज्ञायां पूर्वाचायैर्व्यवस्थापितास्त एव तदनुबन्धा एव तावन्त एवाऽत्र गृह्यन्त इति ।।१९।।
तदन्तं पदम् ।१।१।२०।। बृन्यास-तदन्तमित्यादि-“पदिंच् गतौ" पद्यते गम्यते कारकसंसृष्टोऽर्थोऽनेनेति “वर्षादयः क्लीबे" (५.३.२९) इत्यलि पदम्। तच्छब्दस्य तु पूर्ववस्तुपरामर्शित्वादनन्तरोक्त(स्य)स्यादेस्त्यादेश्च परामर्शी, अत आह-स्याद्यन्तमित्यादि। ननु अन्तग्रहणं किमर्थम्? न चासत्यन्तग्रहणे स्यादेरेव पदसंज्ञा स्यात्, ततश्च ‘अग्निषु' इत्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम्, “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया तदन्तविधेर्लब्धत्वादिति। उच्यते-पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रतिषेधार्थम्, तेन पूर्वसूत्रे तदन्तस्य विभक्तिसंज्ञा न भवति, अन्यथा ‘शेषाय युष्मदृद्धिहिताय नमः' इत्यत्रैव 'ते-मे' आदिप्रसङ्गः । यद्येवं कृत्-तद्धितयोः केवलयोरेव नामसंज्ञा स्यात्, न तदन्तयोः, ततश्च ‘छिद्, भिद्', इत्यत्र क्विबन्तस्य न स्याद्, अर्थवत्त्वाद् भविष्यतीत्यपि न वाच्यम्, अधात्विति निषेधात् ; नापि प्रत्ययलक्षणेन प्राप्नोति (*प्रत्ययलोपे प्रत्ययलक्षणम् ) यतः प्रत्ययनिमित्तमन्यस्य यत् कार्य विधीयते तत् प्रत्ययलोपे भवति, न तु प्रत्ययस्यैव यत् कार्यं तदपि, न ह्यसत् कार्यित्वेन वचनशतेनापि शक्यमाश्रयितुम्। केवलस्य च तस्य नामसंज्ञायाम् ‘औपगव' इत्यत्र षष्ठ्या ऐकार्थ्याभावाल्लब न स्यात्, (प्रातिपदिकेऽनन्तर्गतत्वाल्लग् न स्यादिति कैयटः) तदन्तविधौ तु दोषानवकाशः। उच्यते-प्रत्ययस्य संज्ञिनस्तदन्तस्य संज्ञा न भवति, न तु प्रत्ययस्य या संज्ञा विधीयते तस्यास्तदन्ताया अन्या संज्ञा न भवतीति, यतोऽर्थवतो नामसंज्ञा; कृत्-तद्धितान्तं चाऽर्थवत्, न केवलाः कृतस्तद्धिता वा। ननु यद्यर्थवत्ता लौकिक्याश्रीयते सा पदस्यैव, न कृत्तद्धितान्तस्यापि, तस्यैव लोके प्रयोगाद्; अन्वयव्यतिरेकगम्या त्वर्थवत्ता केवलानामपि कृत्-तद्धितानामस्ति, ततः किमुच्यते न केवलाः कृतस्तद्धिता वेति? एवं तर्हि अर्थवद्ग्रहणसामर्थ्याद् लौकिकार्थप्रत्यासन्नोऽभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते स इहाऽऽश्रीयते इत्यदोषः, (लौकिकार्थप्रत्यासन्न इति-लौकिकार्थकं यत् पदं तदर्थस्य प्रत्यासन्नः शास्त्रकृत्कल्पितस्यादिप्रकृतेरर्थः, तदाह-अभिव्यक्ततर इति, तदेवाऽऽह -प्रत्ययान्तेष्विति, कृत्-तद्धितप्रत्ययार्थस्तु न तादृशः, कल्पितावयवार्थत्वात् तस्य, प्रत्ययान्तेषु स्याद्यन्तेषु स्याद्यर्थत्वात् तस्याः, स्यादेः द्योतकत्वात् तत्रैव स लक्ष्यते, न तु तद्रहित इत्यर्थः) इत्याह-अन्तग्रहणमित्यादि। पूर्वसूत्रे इति-संज्ञाविधावित्यर्थः। सा हि विधेः पूर्वेति ।।२०।।
__ल.न्यास-तदन्तमित्यादि-पद्यते-गम्यते कारकसंसृष्टोऽर्थोऽनेनेति पदम् “वर्षादय:०" (५.३.२९) इत्यल्। नन्वन्तग्रहणं किमर्थम्? न चासत्यन्तग्रहणे ‘सा पदम्' इति कृते स्त्यादेरेव पदसंज्ञा स्यात्, ततश्च ‘अग्निषु'इत्यादौ पदमध्ये विधीयमानं षत्वं पदादौ न स्यादिति वाच्यम्। “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया तदन्तविधेर्लब्धत्वादिति, सत्यम्-पदसंज्ञायामन्तग्रहणमन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तप्रतिषेधार्थम्, अन्यथा “प्रत्ययः प्रकृत्यादेः" (७.४.११५) इति परिभाषया स्त्याद्यन्तस्य विभक्तिसंज्ञा स्यात्, तस्यां च सत्यां 'काष्ठगृहं युष्मत्पु. त्राणाम्' इत्यादौ काष्ठशब्दस्य गृहमिति विभक्त्या पदत्वे ततः परस्य युष्मदः स्थाने पुत्राणामिति विभक्त्या सह वसादेशः स्यादित्यतिव्याप्तिः