________________
परिशिष्ट-२
394 स्पृष्टता, सा आदिर्यस्येत्यर्थः), स्पृष्टादि च करणम्, यत् कस्यचिद् वर्णस्य निष्पत्तौ परस्परमीषदनीषञ्च स्पृशति, विव्रियते, संवियते चेति, वर्णधर्मो वा, वर्णोऽपि हि स्वपरिणामाऽऽलम्बनयोः स्थानकरणेन तथा स्पृश्यते, तथा चाधीयते-"स्पर्शयमवर्णकरो वायुरयस्पिण्डवत् स्थानमवपीडयति, यमाश्च कुं हुं गुं धुं इत्येवंरूपा न लोके उपयुज्यन्ते, अन्तस्थावर्णकरो वायुर्दारुपिण्डवद्, ऊष्मस्वरवर्णकरो वायुरूर्णापिण्डवद्” इति, तत् कथं स्पृष्टतादिः प्रयत्नो भवति? प्रयत्नो हि नामाऽऽत्मनो वीर्यपरिणामरूपः संरम्भः। उच्यते-प्रयत्नहेतुकत्वात् प्रयत्नः । यद्धि यद्धेतुकं तत् तद्व्यपदेशं प्रतिपद्यते, यथा-'अन्नं वै प्राणाः' इत्यत्रान्नव्यपदेशं प्राणा इति, तत्रैवास्य रूढिरित्यवयवार्थः (आस्यान्तर्गततत्तस्थानेषु जिह्वाग्रादीनां वर्णाऽभिव्यञ्जकस्पर्शेषत्स्पर्श-दूरावस्थान-समीपावस्थान -रूपाऽभ्यन्तरकार्यकारिप्रयत्नविशेषा एतैः पदैरुच्यन्ते। तेषामास्यवृत्तित्वमास्यान्तर्गततत्तत्स्थानेषु वायुसंयोगजनकत्वेन बोध्यम्) समुदायार्थमाह-तुल्यौ वर्णान्तरेणेत्यादि। ननु 'यस्य' इति वक्तव्यम्, कथमन्यथा 'यस्य स वर्णस्तं प्रति स्वसंज्ञो भवति' इत्युच्यते? अन्यस्य तुल्यस्थानाऽऽस्यप्रयत्नोऽन्यस्य स्व: स्यादिति (न)। न वक्तव्यम्, तुल्यशब्दस्य (सम्बन्धिशब्दत्वात्,) संबन्धिशब्दानां चायं भाव:-यदसति निमित्तान्तरे सम्बन्धिन्येव प्रत्ययं जनयति। यथा-'मातरि वर्तितव्यम्' 'पितरि शुश्रूषितव्यम्' इति, न चोच्यते 'स्वस्यां मातरि' 'स्वस्मिन् पितरि' इति, सम्बन्धादेतद् गम्यते-या यस्य माता, यश्च यस्य पितेति, एवमिहापि यस्य यः तुल्यस्थानाऽऽस्यप्रयत्नः स तं प्रति स्वसंज्ञो भवति। यथा 'तुल्याय कन्या दातव्या' इत्युक्ते न शूद्रेण तुल्याय ब्राह्मण: कन्यां ददाति, किन्त्वात्मनः(ना), तथेहापीत्यर्थः । किञ्च, यद्यन्यस्य तुल्यस्थानाऽऽस्यप्रयत्नोऽन्यस्य स्वसंज्ञः स्यात्, तदा स्वसंज्ञावचनमनर्थकं स्याद्, व्यवच्छेद्याभावात्। न च रेफोष्मणां स्वसंज्ञाव्यावृत्त्यर्थं भविष्यतीति वाच्यम्, रेफस्यापि रेफः स्वो भवति, रेफस्य व्यक्तीनां भूयस्त्वाद्, एवमूष्मस्वपि द्रष्टव्यमिति। ननु करणतुल्यताऽपि स्वसंज्ञाप्रयोजिका, भिन्नकरणानां स्वत्वाभावात्। तथाहि-जिह्वय-तालव्य-मूर्धन्य-दन्त्यानां जिह्वया करणम्। कथमिति? जिह्वामूलेन जिह्वयानाम्, जिह्वामध्येन तालव्यानाम्, जिह्वोपाग्रेण मूर्धन्यानाम्, जिह्वाग्राधः करणं वा, जिह्वाग्रेण दन्त्यानाम्, शेषाः स्वस्थानकरणास्तत् कथमिदं नोक्तम्? उच्यते-स्थानाऽऽस्यप्रयत्नतुल्यत्वे करणस्य तुल्यत्वाद् इत्याह-करणं त्विति। अथ कस्य किं स्थानं प्रयत्नो वा? न ह्यस्येदं स्थानं वेत्यविज्ञाते तदैक्यानुवादेन विधीयमानं स्वत्वं शक्यं विज्ञातुम्, इत्यत आह-तत्र स्थानमिति। ननु स्थानमुपक्रान्तम्, 'अवर्ण-ह-विसर्ग०' इत्यादिना तु स्थानिनो निर्दिष्टाः, ततश्चान्यदुपक्रान्तमन्यद् निर्दिष्टमिति; नैष दोषः, यथा-'लोहितोष्णीषा ऋत्विजः प्रचरन्तु' इति ऋत्विक्प्रचारस्यान्यतः प्रतीतत्वाद् लोहितोष्णीषत्व एव विधिः पर्यवस्यति, एवमिहापि 'कण्ठे भवाः कण्ठ्याः ' इति कण्ठ एव विधिः, एवमन्यत्रापि। यदाहुर्वाक्यविद:-"सविशेषणौ हि विधि-निषेधौ विशेषणमुपसंक्रामतः" इति। उपायानामप्राधान्यख्यापनार्थं चैवं निर्देश इति । सर्वं समस्तं मुखं स्थानमस्येति सर्वमुखस्थानम्, अष्टादशभेदभिन्नमवर्णत्वनिष्पत्तौ (अष्टादशभेदभिन्नाऽवर्णनिष्पत्तौ) हि रावमेव मुखं व्याप्रियते। सन्ध्यक्षराणां द्विवर्णत्वात् पूर्वभागस्यावर्णरूपत्वादुत्तरस्य चेवर्णोवर्णरूपत्वादुभयव्यापारेऽपि भूयसाऽवयवेन व्यपदेशाद् ‘ए-ऐ तालव्यौ, ओ-औ ओष्ठ्यौ ' इत्युक्तम्। यद्वा (ए-ऐ) तालव्यौ, ओ-औ ओष्ठ्यावित्युक्तौ, (अयं पाठोऽधिक इवाऽऽभाति, यदिवाऽयमत्र संस्कार:-यद्वा उभयव्यापारसमाश्रयणाद्, 'ए-ऐ कण्ठ्य-तालव्यौ, ओ-औ कण्ठ्यौष्ठ्यो' इत्युक्तौ; यद्वा तालव्यावेव ओष्ठ्यावेव एतौ' इत्युत्तरपाठेन सहाऽस्य पाठस्य एकीकरणादयमर्थः-यद्वा ‘ए-ऐ तालव्यौ, ओ-औ ओष्ठ्यो इत्युक्तौ,'-इत्युक्तितः तालव्यावेव कण्ठ्यावेव एतौ तालुस्थानजन्यत्वात् कण्ठस्थानजन्यत्वादिति बोध्यमिति शेषः, विशिष्टार्थं तु शिष्टा जानन्तु।) यद्वा तालव्यावेव ओष्ठ्यावेव एतौ। यद् हरि:
"एवं शिक्षाकाराः प्रतिपन्नाः ओष्ठ्य-तालव्यावेतौ" इति। अत्र नोद्यते-केन दर्शनेन शिक्षाभेदः? इत्येतत् प्रतिपाद्यम्, कथं तालव्यत्वे सति एकारस्य ईकारस्य च श्रुतिभेदः? ओष्ठ्यत्वे सति ऊकारस्य ओकारस्य च? एतेषां हि स्थान-प्रयत्न-काला: सर्वेऽभिन्ना इति। दर्शनभेदाददोषः, एके मन्यन्तेयोऽसौ वर्णस्य निष्पादको वायुः, स एकारस्य निर्वृत्तौ तालुसमीपे यः कण्ठस्तमुपश्लेषयति, केवलं स्थानं तु ताल्वेव; एवमोष्ठावेव