________________
3८०
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન स्थानमोकारस्य, केवलं तु वायुः कण्ठमभिहन्तीति। इतरे तदपि स्थानमिति मन्यन्ते। श्रुतिभेदोऽपि अग्रोपाग्रमध्यमूलभेदाद् भवति। यथा-इवर्ण-य-शानामिति (जिह्वामध्यकरणानामिवर्ण-चवर्ग-य-शानां तद्व्यतिरिक्तकरणेभ्योऽन्यवर्णेभ्यः)। (सृक्कस्थान इति) सृक्कशब्देनौष्ठपर्यन्तोऽभिधीयते। स्पृष्टं स्पृष्टतागुणः, स्पृष्टतानुगतं करणं कृतिरुञ्चारणप्रकारः, एवमन्यत्रापि। विवृतं करणं स्वराणामिति। ("स्पृष्टं करणं स्पर्शानाम्"। “ईषत्स्पृष्टमन्तस्थानाम्"। “विवृतमूष्मणाम्" ईषदित्येवानुवर्तते। "स्वराणां च विवृतम्" ईषदिति निवतृम्। इति शौनकप्रातिशाख्यरूपाणि चत्वारि सूत्राणि भाष्ये प्रदर्शितानि ।) अत्रापि 'ईषद्' इति केचिदनुवर्तयन्ति, तेनावर्ण-ह-कारयोर्तृवर्ण-शकारयोश्च स्वत्वं प्राप्नोति, न तत्रापि कश्चिद् दोषः। स्वरेष्विति-निर्धारणे सप्तमी। ननु विवृततरतादीनां प्रयत्नान्तराणां सद्भावात् सप्तधा प्रयत्न इति वक्तुमुचितम्, कथमुक्तं चतुर्द्धति?। उच्यते-विवृततरतादीनपि विवृततया परिगृह्योक्तं चतुर्द्धति, विशेषस्य सामान्येऽन्तर्भावादिति। (अकारः संवृतः) अकारं संवृतं शिक्षायामेके पठन्ति, तेनाकाराकारयोः संवृत(विवृत)योभिन्नप्रयत्नत्वात् स्वत्वं न प्राप्नोतीति विवृत एवात्र प्रतिज्ञायते, प्रयोगे तु संवृतः, संवृत एव स्वरूपेणासौ इति ‘अन्ये' इत्युक्तम्। सानुनासिक० इति-नासिकामनुगतो यो वर्णधर्मः स तथा, सह तेन वर्तते यो वर्णः स सानुनासिको वर्णः । निर्गतोऽनुनासिका यः स निरनुनासिकः। एवमिवर्णास्तावन्त इति-'तावन्तः' इति पदम् उवर्णा ऋवर्णा लवर्णा इत्यत्रापि संबन्धनीयमिति। य-लवानामिति-अनुनासिको धर्मोऽस्यास्तीति अभ्रादित्वाद् ("अभ्रादिभ्यः" ७.२.४६) अकारेऽनुनासिकशब्देन वर्णाभिधानम्, तद्धर्मरहितोऽननुनासिक इति, तद्धर्मवतां हि स्वसंज्ञा, न तु धर्माणामिति। रेफोष्मणामिति-अन्यवर्णाऽपेक्षया तेषां स्वत्वाभावः, रेफस्य तु रेफः स्वो भवत्येव, एवमूष्मणामपि।
ननु वर्णानां तुल्यस्थानाऽऽस्यप्रयत्नत्वे कथं श्रुतिभेदः?, उच्यते-कालपरिमाण-करण-प्राणकृतगुणभेदाद् भेदः, तथाहियावता कालेनाक्ष्ण उन्मेषो निमेषो वा भवति तावान् कालो मात्रा भवति, मात्राकालो वर्णो मात्रिकः, द्विस्तावान् द्विमात्रः, त्रिस्तावान् त्रिमात्रः, अर्द्धमात्राकालं व्यञ्जनम् ; तदेतद्वर्णेषु चतुर्विधं कालपरिमाणं भेदकृद् भवति ; करणं च श्रुतिभेदकरं भवति तत् प्रागेवोक्तम् ; प्राण(कृ)ताश्च गुणभेदा घोषाघोषादयः, तत्रायमभिप्राय:
"पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वास-निःश्वासबलं तथाऽऽयुः।
प्राणा दशैते भगवद्भिक्तास्तेषां वियोजी(गी)करणं च हिंसा" ।।१७।। इमे दश प्राणाः, एतेषु त्रिविधं बलमिह प्राणा इति विवक्षितं मनो-वाक्-कायबलरूपम्, तत्प्रयोगभेदाद् घोषादयो गुणा भवन्ति। ध्वनेः स्थान-प्रयत्नतुल्यत्वेऽपि यथा द्वयोरङ्गल्योस्तुल्यदेशावस्थितयोः समजवयोः सति संपाते प्रयोक्तृविशेषात् कदाचिद् मन्दो भवति शब्दः, कदाचित् स्फुटः, कदाचित् स्फुटतर इति। ननु तथाऽप्यवर्णस्य स्वसंज्ञा न प्राप्नोति, आस्याद् बाह्यं हि तस्य स्थानं काकलकादधस्तादुपजत्रुरूपम्, (कण्ठस्याधोभागस्थितयोरस्थ्नोः जत्रु) नैवम्-सर्वमुखस्थानत्वात्, सर्वमेव मुखमवर्णनिष्पत्ती व्याप्रियते इति नाऽस्य बाह्यस्थानता। एवमप्येदोतोः प्रथमभागस्याऽकारेण सादृश्यात् स्वसंज्ञाप्रसङ्गः, नैवम्-प्रश्लिष्टावर्णावेतौ पांसूदकवन्नात्र शक्यो विवेकः कर्तुमिति। न च विश्लिष्टावर्णत्वाद् विभागस्य सुलक्षणत्वादैदौतोः स्वत्वं प्राप्नोतीति वाच्यम्, विवृततरावर्णत्वात् तयोः। न चैतयोमिथः स्वत्वमित्यपि युक्तं वक्तुम्, भिन्नस्थानत्वादिति। ननु प्रारम्भो यत्नस्येत्यादिकर्मणि प्रशब्दे व्याख्याते प्रयत्नशब्देनैव विवारादीनां व्युदासस्य सिद्धत्वात् किमास्यग्रहणेन? तथाहि-पूर्वं स्पृष्टतादयश्चत्वार उत्पद्यन्ते, पश्चान्मूर्ध्नि प्रतिहते निवृत्ते प्राणाऽऽख्ये वायौ विवारादयो बाह्या एकादश प्रयत्ना उत्पद्यन्ते, नैवम्-एवमुदात्तादीनां स्वसंज्ञा न प्राप्नोति, भिन्नप्रारम्भत्वात्; तस्मादास्यग्रहणमेव विवारादिव्युदासार्थं विधेयम्, प्रयत्नशब्दस्तु भावसाधन एव, तेन प्रारम्भे (भिन्नप्रारम्भे)ऽप्युदात्तादीनां